________________
उद्देशक : १, मूलं ६, [भा. १६५८ ]
४२१
'अम्लं च' सीवीरं ग्रहीतव्यम्, अनेन सम्बन्धेन सौवीरिणीसप्तकमभिधानीयम् । “भरिए य” ति तस्याः सौवीरिण्याः सप्तविधं भरणं वाच्यम् । “ऊसित्ति "त्ति उत्सेचनमुत्सिक्तं-सौवीरस्योल्लिञ्चनमित्यर्थः तत्स्वरूपं च निरूपणीयम् ॥
[ भा. १६५९ ]
परिहरणा अणुजाणे, पुरकम्मे खलु तहेव गेलने । गच्छपडिबद्ध हालंदि उवरि दोसा य अववादे ||
वृ- " परिहरण' त्ति नोदकः प्रश्नयिष्यति-यदि साम्प्रतं शतिकेष्वपि गच्छेष्वित्थमाधाकर्मादयो दोषा उद्भवन्ति ततः पूर्वं साहेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । अत्राऽऽचार्य प्रतिवक्ष्यति - 'अनुयानं' रथयात्रा उपलक्षणत्वात् स्नात्रादेरपि परिग्रहः, ततो यथा सम्प्रति रथयात्रादौ समवसरणे सहसङ्ख्याका अपि साधवो मिलिताः सन्तः आधाकर्मादिकं परिहरन्ति तथा पूर्वमपि परिहृतवन्त इत्यनेन सम्बन्धेनानुयानविषयो विधिर्वक्तव्यः । ततः पुरः कर्म्मस्वरूपं निरूपयितव्यम् । 'खलुः' वाक्यालङ्कारे । तथैव ग्लान्यविषयो विधि प्रतिपादनीयः । गच्छप्रतिबद्धानां यथालन्दिकानां सामाचारी दर्शनीया । ततः 'उपरि' मासकल्पादूर्द्धव तिष्ठतां स्थविरकल्पिकानां दोषा अभिधातव्याः । ततः 'अपवादः ' द्वितीयपदमुपदर्शनीयमिति द्वारगाथाद्वयसमासार्थः ॥
अथ विस्तरार्थं प्रतिपदं प्रचिकटयिषुः “यथोद्देशं निर्देशः" इति वचनप्रामाण्यात् प्रथमतः प्रत्युपेक्षणाद्वारमभिधातुकाम इमां प्रतिद्वारगाथामाह
[ भा. १६६० ] पडिलेहणा उ काले, अपडिलेह दोस छसु वि काएसु । पडिगहनिक्खेवणया, पडिलेहणिया सपडिवक्खा ||
वृ- प्रतिलेखना 'तुः' एवकारार्थो भिन्नक्रमश्च काल एव कर्त्तव्या नाकाले । “अपडिलेह "त्ति अप्रतिलेखने प्रायश्चित्तम् । “दोस"त्ति दोषाः आरभडाद्यास्तैर्दुष्टां प्रत्युपेक्षणां कुर्वतः प्रायश्चित्तम्। "छसु वि कासु"त्ति षट्सु जीवनिकायेषु स्वयं प्रतिष्ठित उपधिर्वा प्रतिष्ठित इति । प्रतिग्रहस्य निक्षेपणं वर्षासु विधेयम् । प्रतिलेखना 'सप्रतिपक्षा' सापवादा भवतीति । एतानि द्वाराणि वक्तव्यानीति समासार्थः । व्यासार्थं तु प्रतिद्वारमभिधित्सुराह
[ भा. १६६१] सूरुग्गए जिनानं पडिलेहणियाए आढवणकालो । थेराणऽनुग्गयम्मी, ओहिणा सो तुलेयव्वो ।
वृ- सूर्ये उद्गते सति 'जिनानां' जिनकल्पिकानाम् “एकग्रहणे तज्जातीयग्रहणम्" इति वचनादपरेषामपि गच्छनिर्गतानां प्रतिलेखनाया आरम्भणकालो मन्तव्यः । ' स्थविराणां ' स्थविरकल्पिकानामनुद्गते सूर्ये प्रत्युपेक्षणायाः प्रारम्भकालः । स चोपधिना तोलयितव्यः ॥ कथम् ? इति चेद् उच्यते-इह प्राभातिकप्रतिलेखनायां भूयांस आदेशाः सन्ति, अतस्तत्प्रतिपादकः पञ्चवस्तुकवृत्त्युक्तो वृद्धसम्प्रदायो लिख्यते को पडिलेहणाकालो ? एगो भणइ-जया वायसा वासंति तया पडिलेहिज्जउ, तो पट्ठवित्ता अज्झाइज्जउ । अन्नो भाइ अरुणे उट्ठिए । अवरो भणइजाहे पगासं जायं । अन्नो पुन- जाहे पडिस्सए परोप्परं पव्वइयगा दीसंति । अन्ने भणति जाहे हत्थरेहाओ दीसंति। आयरिया भणति एए सव्वे वि अनाएसा, अपसिद्धान्तत्वात्, जओ अंधयारे डिस्सए हत्थरेहाओ उट्ठिए वि सूरे न दीसंति, वायसाइआएसेसु य अंधकारं ति पडिलेहणा न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org