________________
४२०
बृहत्कल्प-छेदसूत्रम् -१-१/६
षडविधमपि सच्चित्तद्रव्यकल्पमाचरन्ति 'स्थविराः' गच्छावासिनः । "कारणओ"त्तितथाविधैरनाभाव्यतादिभि कारणैः 'असहिष्णवो वा' स्वयं वस्त्र-पात्रादिभिर्ज्ञानादिभिश्च शिष्याणां सङ्ग्रहोपग्रहो कर्तुमसमर्था उपदेशम् 'अन्यत्र' गच्छान्तरे 'ददति' प्रयच्छन्ति, अमुकत्र गच्छे संविग्नगीतार्था आचार्या सन्ति तेषां समीपे भवता दीक्षा प्रतिपत्तव्येति ।।
अथ “मनसाऽऽपने नास्ति प्रायश्चित्तम्" इति पदं व्याख्यानयति[भा.१६५५] जीवोपमायबहुलो पडिवक्खे दुक्करं ठवेउंजे।
केत्तियमित्तं वोज्झिति, पच्छित्तं दुग्गयरिणी वा ॥ वृ-अयं जीवः' प्राणी प्रमादबहुलः' अनादिभवाभ्यस्तप्रमादभावनाभावितः, ततः प्रतिपक्षे' अप्रमादे स्थापयितुं दुष्करं भवति, दुःखेन अप्रमादभावनायां स्थाप्यत इत्यर्थः । "जे" इति निपातः पादपूरणे । अतो 'दुर्गतऋणिक इव' दरिद्राधमर्ण इव अतिप्रभूतं ऋणं अतिचपलचित्तसम्भवापराधवशादयं प्रमादबहुलो जीवः पदे पदे समापद्यमानं कियन्मात्रं प्रायश्चित्तं 'वक्ष्यति' वोढुंशक्ष्यति? इतिमनसाऽऽपन्नेऽप्यपराधेनास्तितपःप्रायश्चित्तंस्थविरकल्पिकानाम्, आलोचनाप्रतिक्रमणप्रायश्चित्ते तु तत्रापि भवत इति मन्तव्यम् ॥
अथ "कारणेपडिकम्मम्मिय"तिपदंव्याख्यायते-कारणम्-अशिवाऽवमौदर्यादिकंतत्रोत्पन्ने द्वितीयपदमप्यासेवन्ते । तथा निष्कारणे निष्प्रतिकर्मशरीराः । कारणे तु ग्लानमाचार्यं वादिनं धर्मकथिकं च प्रतीत्य पादघावन-मुखमार्जन-शरीरसम्बाधनादिकरणात् सप्रतिकर्माण इति । "भत्तपंथोयभयणाए"त्तिभक्तंपन्याश्च भजनया।किमुक्तं भवति?-उत्सर्गस्तावत्तृतीयपौरुष्यां भिक्षाटनं विहारंच कुर्वन्ति, अपवादतस्तुतदानी भिक्षाया अलाभे काले वाऽपूर्यमाणे शेषास्वपि पौरुषीष्विति । गतं स्थितिद्वारम् । अथोपसंहरन्नाह[भा.१६५६] गच्छम्मि उ एस विही, नायव्यो होइ आनुपुवीए ।
जं एत्थं नाणत्तं, तमहं वोच्छं समासेणं ॥ वृ-'गच्छे' गच्छवासिनां 'एषः' अनन्तरोक्तो विधितिव्यः 'आनुपूर्व्या' परिपाट्या । यत् पुनरत्र 'नानात्वं' विशेषस्तदहं वक्ष्ये समासेन ।। एतदेव सविशेषमाह[भा.१६५७] सामायारी पुनरवि, तेसि इमा होइ गच्छवासीणं ।
पडिसेहो व जिणाणं, जंजुजइ वा तगंवोच्छं ।। वृ.सामाचारी पुनरपि तेषां गच्छवासिनां मासकल्पेन विहरताम् ‘एषा' वक्ष्यमाणा भवति । 'जिनानां' जिनकल्पिकानामस्याएवसामाचार्याप्रतिषेधोवा वक्तव्यः। यद्वा प्रत्युपेक्षणादिकं तेषामपि युज्यते तकमपि वक्ष्ये । प्रतिज्ञातमेव निर्वाहयन् द्वारगाथाद्वयमाह[भा.१६५८] पडिलेहण निक्खमणे, पाहुडिया भिक्ख कप्पकरणे य।
गच्छ सतिए अ कप्पे, अंबिल भरिए य ऊसित्ते ।। वृ-प्रथमतः प्रत्युपेक्षणा वक्तव्या। ततो 'निष्क्रमणं' कति वारा उपाश्रयाद् निर्गन्तव्यमिति, प्राभृतिका सूक्ष्म-बादरभेदाद् द्विविधा, 'भिक्षा' गोचरचर्या, 'कल्पकरणं च' भाजनस्य धावनविधिलक्षममित्येतानि वक्तव्यानि । “गच्छ सइए"तिशतिकाः-शतसङ्ख्यपुरुषपरिमाणा ये गच्छास्तेषु प्रभूतेन पानकेन प्रयोजनं भवेत्, तच्च "कप्पे अंबिल"त्ति 'कल्प्यं' कल्पनीयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org