________________
उद्देशक : १, मूलं ६, [भा. १६४९ ]
४१९
कर्तव्यमिति कस्याप्यभिग्रहो भवति, यथा भगवतः श्रीमन्महावीरस्वामिनः । तथा स्वग्रामे वा परग्रामे वा एतावन्ति गृहाणि मया प्रवेष्टव्यानीत्येषः 'क्षेत्रे' क्षेत्रविषयोऽभिग्रहः ॥ कालाभिग्रहमह[ भा. १६५० ] काले अभिग्गही पुन, आई मज्झे तहेव अवसाने । अप्पत्ते सइ काले, आई बिइओ अ चरिमम्मि ||
वृ- 'काले' कालविषयोऽभिग्रहः पुनरयम्-आदौ मध्ये तथैवावसाने भिक्षावेलायाः । एतदेव व्याचष्टे - अप्राप्ते भिक्षाकाले यत् पर्यदति सः 'आदी' मध्ये तथैवावसाने भिक्षावेलायाः । एतदेव व्याचष्टे अप्राप्ते भिक्षाकाले चरति स द्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः । यत् पुनः 'चरिमे' अतिक्रान्ते भिक्षाकाले पर्यटति सोऽवसानविषयोऽभिग्रहः । कालत्रयेऽपि गुण-दोषानाह[भा. १६५१] दितग-पडिच्छगाणं, हविज्ज सुहुमं पि मा हु अचियत्तं । इअअप्पत्ते अइए, पवत्तणं मा ततो मज्झे ॥
वृ- 'ददत्-प्रतीच्छकयोः' इति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्मा भूत् सूक्ष्ममपि 'अचियत्तम्' अप्रीतिकं 'इति' अस्माद्धेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते । “पवत्तणं मा ततो मज्झे "त्ति अप्राप्तेऽतीते वा पर्यटतः प्रवर्त्तनं पुरः कर्म-पश्चत्कमदिर्मा भूत् 'ततः' एतेन हेतुना 'मध्ये' प्राप्ते भिक्षाकाले पर्यटति ।। अथ भावाभिग्रहमाह[ भा. १६५२] उक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होंति । गायंतो व रुदंतो, जं देइ निसन्नमादी वा ।।
वृ- उत्क्षिप्तं - पाकपिठरात् पूर्वमेव दायकेनोद्ध तं तद् ये चरन्ति-गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दाद् निक्षिपतचरकाः सङ्ख्यादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते । त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः सयादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यते । त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इति भावः । यद्वा गायन् यदि दास्यति तदा मया ग्रहीतव्यम्, एवं रुदन् वा निषन्नादिर्वा, आदिग्रहमादुत्थितः सम्प्रस्थितश्च यद् ददाति तद्विषयो योऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते ॥ तथा[भा. १६५३] ओसक्कण अहिसक्कण, परम्मुहाऽलंकिएयरो वा वि । भावन्नयरेण जुओ, अह भावाभिग्गहो नाम ॥
वृ- ‘अवष्वष्कन्’ अपसरणं कुर्वन् 'अभिष्वष्कन्' सम्मुखमागच्छन् 'पराङ्मुखः' प्रतीतः, अलङ्कृतः कटक-केयूरादिभिः, 'इतरो वा' अनलङ्कृतः पुरुषो यदि दास्यति तदा भया ग्राह्यमिति । एतेषां भावानामन्यतेण भावेन युतः 'अथ' अयं भावाभिग्रहो नामेति । एते च द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वाद् मोह-मदापनयनप्रत्यलत्वाच्च गच्छ्वासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्मनिर्जराया निबन्धनं प्रतिपत्तव्या इति ॥
अथ प्रव्राजना-मुण्डापनाद्वारे भावयति
[ भा. १६५४ ] सच्चित्तदवियकप्पं, छव्विहमवि आयरंति थेरा उ । कारण असहू वा, उवएसं दिति अन्नत्थ ॥
वृ-प्रव्राजना-मुण्डापनाभ्यामुपलक्षणत्वात् षडविधोऽपि सच्चित्तद्रव्यकल्पो गृहीतः । तद्यथाप्रव्राजना १ मुण्डापना २ शिक्षापना ३ उपस्थापना ४ सम्मुञ्जना ५ संवासना ६ चेति । तमेवंविधं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org