________________
बृहत्कल्प - छेदसूत्रम् - १-१/६
विपाकः शुभाशुभो भवतीति ।। उक्तं सप्रपञ्चं ध्यान- लेश्याद्वारद्वयम् । अथ गणद्वारमाह[भा. १६४७ ] पडिवज्रमाण भइया, एगो व सहस्ससो व उक्कोसा । कोडिसहस्सपुहत्तं, जहन्न उक्कोसपडिवन्ना ॥
४१८
वृ- स्थविरकल्पस्य प्रतिपद्यमानकाः 'भाज्याः' विवक्षितकाले भवेयुर्वा न वा । यदि भवेयुस्तत एको द्वौ वा त्रयो वा उत्कर्षतो यावत् सहपृथक्त्वम् । पूर्वप्रतिपना जघन्यतोऽपि कोटिसहपृथक्त्वम्, उत्कर्षतोऽपि कोटिसहपृथक्त्वम् । नवरं जघन्यपदादुत्कृष्टपदे विशेषाधिकत्वम् ||
गतं गणनाद्वारम् । अथाभिग्रहद्वारं व्याख्यायते-ते च चतुर्द्धा तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्रद्रव्यतस्तावदाह
[ भा. १६४८ ] लेवडमलेवडं वा, अमुगं दव्वं च अञ्ज घिच्छामि । अमुगेन व दव्वेणं, अह दव्वाभिग्गहो नाम ॥
वृ- 'लेपकृतं' जगारिप्रभृतिकम् 'अलेपकृतं वा' तद्विपरीतं वल्ल चणकादि 'अमुकं वा' निर्दिष्टनामकं मण्डकादिद्रव्यमहं ग्रहीष्यामि, 'अमुकेन वा' दर्वी कुन्तादिना दीयमानमहं ग्रहीष्ये, 'अथ' अयं 'द्रव्याभिग्रहो नाम' भिक्षाग्रहणादिविषयः प्रतिज्ञाविशेष इति ॥ क्षेत्राभिग्रहमाह[ भा. १६४९ ] अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं च । सग्गाम परग्गामे, एवइए घरा य खित्तम्मि |
वृ- अष्ट गोचरभूमयो भवन्ति । ताश्चैताः ऋज्वी १ गत्वाप्रत्यागतिका २ गोमूत्रिका ३ पतङ्गवीथिका ४ पेडा ५ अर्द्धपेडा ६ अभ्यन्तरशम्बूका ७ बहिशम्बूका ८ च । तत्र यस्यामेकां दिशमभिगृह्योपाश्रयाद् निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षां परिभ्रमन् तावद्याति यावत् पङ्क्तौ चरमगृहम्, ततो भिक्षामगृह्णन्नेवापयप्तिऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते सा ऋज्वी १ । यत्र पुनरेकस्यां गृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्या गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका, 'गत्वा प्रत्यागतिर्यस्यां सा गत्वाप्रत्यागतिका' इति व्युत्पत्तेः २ । यस्यां तु वामगृहाद् दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गो:-बलीवर्दस्य मूत्रणं गोमूत्रिका, उपचारात् तदाकारा गोचरभूमिरपि गोमूत्रिका ३ । यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका, पतङ्गः शलभस्तस्येव या वीथिका पर्यटनमार्ग सा पतङ्गवीथिका, पतङ्गो हि गच्छन्नुत्लुत्योत्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतङ्गोड्डयनाकारा सा पतङ्गवीथिकेति भावः ४ । यस्यां तु साधुः क्षेत्रं पेटावत् चतुरं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा ५ । अर्द्धपेटाऽप्येवमेव, नवरमर्द्धपेटासदृशसंस्थानयोर्टिंगद्वयसम्बद्धयोर्ग्रहश्रेण्योरत्र पर्यटति ६ । तथा शम्बूकः- शङ्खः तद्वद्या वीथि सा शम्बूका । सा द्वेधा - अभ्यन्तरशम्बूका बहिशम्बूका च । यस्यां क्षेत्रमध्यभागात् शङ्खवद् वृत्तया परिभ्रमणमङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७ | यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन मध्यभागमायाति सा बहिशम्बूका ८ । आह च स्वोपज्ञपञ्चवस्तुकटीकायां श्रीहरिभद्रसूरि- अब्मितरसंबुक्का बाहिसंबुक्का य संखनाहिखेत्तोवमा । एगीए अंतो आढवइ बाहिरतो संनियदृइ, इयरीए विवज्रओ ति । तथा "एलुगविक्खंभमित्तग्रहणं च "त्ति एलुक- उदुम्बरस्तस्य विष्कम्भः- आक्रमणं तन्मात्रेण मया ग्रहणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International