________________
४०
बृहत्कल्प-छेदसूत्रम् -१
वृ- यद्यपिच 'भूतवादे' दृष्टिवादे सर्वस्य वचोगतस्यावतारः तथापि शेषाणामङ्गानामनङ्गानां च निर्यूहणा दुर्मेधसः पुरुषान् प्रतीत्य स्त्रियश्च । नहि प्रज्ञावत्योऽपि स्त्रियो दृष्टिवादं पठन्ति ॥ किं कारणम् ? अत आह
[भा. १४६ ] तुच्छा गारवबहुला, चलिंदिया दुब्बला य धीईए । इति अतिसेसज्झयणा, भूयावादी उ नो थीणं ॥
वृ- दृष्टिवादे हि बहवो विद्यातिशयाः सर्वकामप्रदा उपवर्ण्यन्ते, सा च स्त्र स्वभावात् 'तुच्छा' अल्पसत्त्वा, तथा 'गौरवबहुला' स्तोकायामप्यर्थवृद्धऔ मानातिरेकतो व्यर्थसम्भवात्, 'चलेन्द्रिया' स्वभावत एव तदिन्द्रियाणामतिलम्पटत्वात्, तथा 'धृत्या' मानसेनाऽवष्टम्भेन दुर्बला, 'इति' अस्मात् कारणात् अतिशेषाणि अतिशायीनि अध्ययनानि महापरिज्ञा-ऽरुणोपपातादीनि 'भूतवादश्च' दृष्टिवादोन स्त्रीणामनुज्ञातः । तदेवमुक्तं चतुर्दशभेदं श्रुतज्ञानम् अङ्गगता ऽनङ्गगतविशेषश्च । आह परः केन पुनः कारणेनाक्षरा ऽनक्षरश्रुते प्रथममुपात्ते ? तत आह[ भा. १४७] सुणतीति सुयं तेणं, सवणं पुण अक्खरेयरं चेव । तेनऽक्खरेयरं वा, सुयनाणे होति पुव्वं तु ॥
वृ- इह यस्मात् प्रतिपत्ता तद् उच्यमानं शृणोति तेन कारणेन तत् श्रुतमित्युच्यते, 'श्रूयत इति श्रुतम्' इति व्युत्पत्तेः । श्रवणं पुनः 'अक्षरेतरं चैव' अक्षरस्य इतरस्य च-अनक्षरस्य, 'तेन' कारणेन श्रुतज्ञान प्ररूप्यमाणे पूर्वमक्षरमनक्षरं चोपात्तमिति ॥
सम्प्रति युक्तं मूलद्वारगाथायां "प्रकृतम्' इति तत्प्ररूपणार्थमाह
[भा. १४८ ] इत्थं पुन अहिगारो, सुयनाणेणं जतो हवति तेणं । सेसाणमप्पणो वि य, अनुयोग पईव दिट्टंतो ॥
वृ-तदेवं मङ्गलनिमित्तं पञ्च ज्ञानानि प्ररूपितानि । एतेषु च पञ्चसु ज्ञानेषु मध्येऽत्राधिकारः श्रुतज्ञानेन । किं कारणम् ? अत आह- 'यतः ' यस्मात् कारणात् 'तेन' श्रुतज्ञानेन 'शेषाणाम्' आभिनिबोधिका-ऽवधि-मनः पर्याय- केवलानामात्मनश्च 'अनुयोगः' भाषणं भवति । अत्र ध्यन्तः प्रदीपः यथा प्रदीपो घटादीनामात्मनश्च प्रकाशकः एवं श्रुतज्ञानं शेषाणामात्मनश्चानुयोग कारकम् । उक्तं च
सुयनाणं महिड्डीयं, केवलं तदनंतरं । अप्पणी सेसगाणं च, जम्हा तं पविभावगं ॥
तेन कारणेन अत्र श्रुतज्ञानेनाऽधिकारः ।। तस्य च श्रुतज्ञानस्योद्देशक-समुद्देशादि चतुष्टयं भवति, तत्राऽनुयोगेऽधिकारः, स चैतैद्वरिरनुगन्तव्यः
[ भा. १४९] निक्खेवेगट्ट निरुत्त विहि पवित्ती य केण वा कस्स । तद्दार भेय लक्खण, तदरिह परिसा य सुत्तत्थो ।
वृ- अनुयोगस्य 'निक्षेपः' नामादिन्यासो वक्तव्यः । तदनन्तरं तस्यैकार्थिकानि । तदनु निरुक्तं वक्तव्यम् । ततः को विधिरनुयोगे कर्त्तव्ये इति विधिर्वक्तव्यः । तथा 'प्रवृत्तिः ' प्रसवोऽनुयोगस्यवक्तव्यः । तदनन्तंर केनाऽनुयोगः कर्त्तव्य इति वक्तव्यम् । ततः परं कस्य शास्त्रस्य कर्त्तव्य इति । तदनन्तरं तस्य - अनुयोगस्य द्वाराणि - उपक्रमादीनि वक्तव्यानि, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org