________________
पीठिका - [भा. १४९]
४१
तेषामेव भेदः । ततः परं सूत्रस्य लक्षणम् । तदनन्तरं तस्य-सूत्रस्य अर्हा-योग्याः । ततः परं परिषत् । ततः सूत्रार्थ । एष द्वारगाथासङ्गेपार्थः, व्यासार्थस्तु प्रतिद्वारं वक्ष्यते ॥ तत्र प्रथमतो निक्षेपद्वारमाह[भा.१५०] निक्खेवो नासो त्ति य, एगढ़ सो उ कस्स निक्खेवो।
अनुओगस्स भगवओ, तस्स इमे वनिया भेया ।। वृ-निक्षेपःन्यास इत्येकार्थम् । पर आह-स निक्षेपः कस्य कर्त्तव्यः? सूरिराह-अनुयोगस्य भगवतः । तस्य च' निक्षेपस्य ‘इमे वक्ष्यमाणा वर्णिता भेदाः ।। तानेवाह[भा.१५१] नामं ठवणा दविए, खेत्ते काले य वयण भावे य।
एसो अनुओगस्स उ, निक्खेवो होइ सत्तविहो ।। वृ-नामानुयोगः स्थापनानुयोगो द्रव्यानुयोगः क्षेत्रानुयोगः कालानुयोगो वचनानुयोगो भावानुयोगश्च । एषोऽनुयोगस्य सप्तविधो निक्षेपः॥ तत्र नाम-स्थापने प्रतीते इति ते अनाध्त्य शेषाणां द्रव्याधनुयोगानां भेदानाह[भा.१५२] सामित्त-करण-अहिगरणतो य एगत्त तह पुहत्ते य।
नामं ठवणा मोत्तुं, इति दव्बादीण छब्भेया ।। वृ-'स्वामित्वं सम्बन्धः करणं साधकतमम् अधिकरणं' आधारः, एतैः प्रत्येकमेकत्वेन 'पृथक्त्वेन च बहुत्वेन पञ्चानां द्रव्यादीनामनुयोगो वक्तव्यः । 'इति एवं नाम स्थापनां च मुक्त्वा द्रव्यादीनामनुयोगस्य प्रत्येक षड् भेदा भवन्ति । तद्यथा-द्रव्यस्य वा १ द्रव्याणां वा २ द्रव्येण वा ३ द्रव्यैर्वा ४ द्रव्ये वा ५ द्रव्येषु वा ६ अनुयोगो द्रव्यानुयोगः । एवं क्षेत्र-कालवचनभावानुयोगानामपिप्रत्येकं षड्भेदताऽवसेया ।। तत्र प्रथमतो द्रव्यस्यानुयोगमाह[भा.१५३] दव्वस्स उ अनुओगो, जीवद्दव्वस्स वा अजीवस्स।
एक्केक्कम्मिय भेया, हवंति दवाइया चउरो॥ वृ- द्रव्यस्यानुयोगो द्विधा-जीवद्रव्यस्य वा अजीवद्रव्यस्य वा । एकैकस्मिन्ननुयोगे द्रव्यादिकाश्चत्वारो भेदाः । किमुक्तं भवति ?-जीवद्रव्यानुयोगोऽजीवद्रव्यानुयोगो वा प्रत्येक द्रव्यतः क्षेत्रतः कालतो भावतश्च भवति ।। तत्र जीवद्रव्यानुयोगं द्रव्यादित आहभआ। (१५४] दव्वेनिकंदव्वं, संखातीतप्पदेसमोगाढं ।
काले अनादिनिहणं, भावे नाणाइयाऽनंता ।। वृ-द्रव्यतोजीवद्रव्यमेकम्, क्षेत्रतोऽसद्ध्येयप्रदेशावगाढम्, कालतोऽनाद्यनिधनम्, भावतो ज्ञानादिकाः पर्याया अनन्ताः, तद्यथा-अनन्ता ज्ञानपर्यायाः, अनन्ता दर्शनपर्यायाः, अनन्ताश्चारित्रपर्यवाः, अनन्ता अगुरुलघुपर्यवाः॥अधुना द्रव्यादिभिरजीवद्रव्यस्यानुयोगमाह[भा.१५५] एमेव अजीवस्सवि, परमाणू दवमेगदव्वं तु ।
खेत्ते एगपएसे, ओगाढो सो भवे नियमा ।। [भा.१५६]समयाइ ठिति असंखा, ओसप्पिणीओ हवंति कालम्मि ।
वण्णादि भावऽनंता, एवं दुपदेसमादी वि।। वृ- ‘एवमेव' अनेनैव प्रकारेण 'अजीवस्यापि' अजीवद्रव्यस्याप्यनुयोगो वक्तव्यः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org