SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-६, [भा. १६१८] ४११ अगीतार्थास्तस्य शिष्यास्तेषां नास्ति कोऽपि सामाचार्या उपदेष्टा आलोचनाया वा प्रतीच्छकः ततो विष्वग्वसतौ द्वावग्याचारों समुद्दिशतः । “सहू विअरे" त्ति 'वा' अथवा यदि रलाधिकः सहिष्णुस्ततः 'इतरस्य' अवरत्नाधिकस्योपाश्रयं गत्वा समुद्दिशति ।। एवं तावद् द्वयोर्गच्छयोविधिरुक्तः । अथ त्रयो गच्छा भवेयुस्ततः को विधिः ? इत्याह[भा.१६१९] तण्हं एक्कम समं, भत्तटुं अप्पमो अवडंतु । पच्छा इयरेण समं, आगमन विरेगु सो चेव ।। वृ- यद्येक आचार्यो वास्तव्यो भवति द्वौ चागन्तुको तत इत्थं त्रयाणामाचार्याणां सम्भवे द्वयोरागन्तुकयोर्मध्याद् यो रलाधिकस्तस्य सम्बन्धी यो वैयावृत्त्यकरस्तेनैकेन समं वास्तव्याचार्यवैयावृत्त्यकरः पर्यटन प्राधूर्णकाचार्यस्य हेतोः 'भक्तार्थं परिपूर्णाहारमात्रारूपम् 'आत्मनश्च' आत्मीयाचार्यार्थम् अपार्द्धम् अर्द्धध्रुवमात्रं श्राद्धकुलेभ्यो गृह्णाति।पश्चाद् ‘इतरेण' आगन्तुकावमरलाधिकाचार्यसम्बन्धिना वैयावृत्त्यकृता समं पर्यटन तथैव तद्योग्य भक्तार्थमात्मनश्चार्द्धध्रुवमानंगृह्णाति । "आगमनविरेगोसोचेव"त्तियदि त्रि-चतुःप्रभृतीनामाचार्याणामागमनं भवतिततः स एव विरेकः' विभजनम्। किमुक्तंभवत?-तदीयैरपिवैयावृत्त्यकरैः समं यथाक्रमं पर्यटता वास्तव्यसाधुनाऽऽत्मीयाचार्यार्थं तथा त्र्यादिभिर्भागैर्भक्तार्थं विभज्य भक्तं ग्रहीतव्यं यथा सन्तिमवैयावृत्त्यकरेण समं पर्यटन्नात्मगुरूणां भक्तार्थं परिपूरयतीति ।। अथ “गिलाणमाई असति" त्ति पदं विवृणोति[भा.१६२०] अतरंतस्स उ जोगासईए इयरेहि भाविए विसिउं । अनमहानसुवक्खड, जंवा सन्नी सयं भुंजे || वृ-“अतरंतो" ग्लानः तस्य उपलक्षणत्वादाचारयस्यापि यद् योग्य-प्रायोग्यं तस्य असतिअलाभे इतरे नाम-असंविग्नास्तै वितेषु श्राद्धकुलेषु प्रविश्य यस्मिन् महानसे ते असंविग्ना अध्यवपूरकादिदोषदुष्टां भिक्षां गृह्णते तद्वर्जयित्वा यदन्यस्मिन्महानसे केवलं गृहार्थमेवोपस्कृतं ततो ग्लानाद्यर्थं गृह्यते, यद् वा भक्तं पृथगुपस्कृतं “सन्नी" स गृहस्वामी श्रावकः स्वयं भुङ्क्ते ततो वा गृह्यते, अन्यदीयाद्वा कुतोऽपि गृहाद् यत् प्रहेणकादिकमायातं तद् गृह्यते ।। अथ “दवाइ एमेव" त्ति पदं व्याख्यानयति[भा.१६२१] असतीए व दवस्स व, परिसित्तिय-कंजि-गुलदवाईणि । अत्तट्ठियाइँ गिण्हइ, सव्वालंभे विमिस्साई॥ कृ- यदि ग्लानस्य गच्छस्य वा योग्यं द्रव्यं-पानकं संविग्नभावितेषु कुलेषु न लभ्यते तदा द्रव्यस्य 'असति' अभावेऽसंविग्नभावितेष्वपि कुलेषु “परिसित्तिय" त्ति येनोषणोदकेन दधिभाजनानि निर्लेप्यन्ते तत् परिषिक्तपानकम्, कालिकम्-आरनालम्, गुलद्रवं नाम-यस्यां कवल्लिकायां गुड उत्काल्यते तस्यां यत् सप्तमतप्तं वा पानीयं तद् गुडोपलिप्तं द्रवं गुडद्रवम्, आदिग्रहणात् चिश्चापानकादिपरिग्रहः । एतानि पानकानि यदि तैः श्राद्धकैः ‘आत्मार्थितानि' प्रथममेवात्मार्थं कृतानि तदा ग्लानाद्यर्थं गृह्णाति । “सव्वालंभे"त्ति यदि सर्वथैव ग्लानस्य वा गच्छस्य वा योग्यमेषणीयं पानकं न लभ्यते तदा “विभीसाई"त्ति 'विमिश्राणि' असंविग्नानां श्रावकाणां चार्थायाचित्तीकृतानि तान्यपि द्वितीयपदे गृह्यन्ते॥अथ "असई इ दवादि" इत्यत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy