________________
४०६
वृहत्कल्प-छेदसूत्रम् -१-१/६ यस्य स तथा तम्, तथा गुरवः-आचार्यास्तेषु भक्तिमन्तम्-आन्तरप्रतिबन्धोपेतम्, 'विनीतम्' अभ्युत्थनादिबाह्यविनयवन्तम्, एवंविधं शिष्यं वैयावृत्त्यमाचार्य कारयेत् ।। आह किमर्थं वैयावृत्यकरस्येयन्तो गुणा मृग्यन्ते ? उच्यते[भा.१६०२] साहति य पियधम्मा, एसणदोसे अभिग्गहविसेसे।
एवं तु विहिगहणे, दव्यं वदति गीयत्या ॥ कृप्रियधर्माण उपलक्षणत्वादपरैरप्यनन्तरोक्तगुणैर्युक्तावैयावृत्यकराः “साहंति"त्तिकथयन्ति 'एषणादोषान्' म्रक्षित-निक्षिप्तादीन् । यथा-इत्थं म्रक्षितदोषो भवति, इत्थं तु निक्षिप्त इत्यादि । एतैश्च दोषैर्दुष्टं साधूनां न दीयते। 'अभिग्रहविशेषाँश्च जिनकल्पिक-स्थविरकल्पिकसम्बन्धिनः कथयन्ति । एवम्' उक्तेन विधिना स्थापनाकुलेषु ग्रहणे श्रद्धां वर्धयन्तो गीतार्था 'द्रव्यमपि' घृतादिकं वर्धयन्ति ॥ इदमेव भावयति[भा.१६०३] एसणदोसे व कए, अकए वा जइगुणे विकस्थिता ।
कहयंति असढभावा, एसणदोसे गुणे चेव ।। वृ-'एषणादोषे' म्रक्षितादौ कृते वाअकृते वा 'यतिगुणान्' क्षान्ति-मार्दवादीन् ‘विकत्यमानाः' विविधं श्लाघमानाः 'अशठभावाः' कैतववर्जिताः नभक्षणोपायनिमित्तमिति भावः एषणा दोषान् कथयन्ति तथा गुणाः-साधूनां प्राशुकैषणीयभक्त-पानप्रदानप्रभवाः पापकर्मनिर्जरादयस्ताँश्च गीतार्थाः कथयन्ति । यथा- समणोवासगस्स नं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिजेणंअसन-पान-खाइम-साइमेणं पडिलाभेमाणस्स किंकजइ? गोयमा ! एगंतसो निजरा कज्जइ, नथि य से केइ पावकम्मे कजइति । अथेत्यं न कथयेयुः ततः के दोषाः ? इत्याह[भा.१६०४] बालाई परिचत्ता, अकहिंतेऽनेसणाइगहणं वा।
नय कहपबंधदोसा, अह य गुणा साहिया होति ।। वृतेषु श्राद्धकुलेषु जिनकल्पिका भिक्षार्थमायाताः, तेषां परमानादिकं लेपकृतमुपनीतम्, तैश्च भगवद्भिः प्रतिषिदधम्, ततस्तानि श्राद्धकानि चिन्तयेयुः-एत एवप्रधानाः साधवः, इतरे तुस्निग्ध-मधुरद्रव्यग्राहिणः सर्वेऽपि नामधारकमात्राःसाध्वाभासा एवेति । ततःश्रद्धाभङ्गभाजि तानि भूयः प्रायोग्यद्रव्यं नोपढौकयेयुः । एवमभिग्रहविशेषान् अकथयद्भिर्गीताधैर्बालादयः परित्यक्ता भवन्ति । अथैषणादोषान् शुद्धभक्त-पानानस्य च गुणान् न कथयेयुः ततस्तानि श्राद्धकान्येषणां कुर्यु।तत्र यदि प्रतिषिध्यते तदाऽपि बालादयः परित्यक्ताः, तेषां प्रायोग्याभावे संस्तरणाभावात् । अथनप्रतिषिध्यते ततोऽनेषणादिग्रहणंभवेत्, आदिशब्द एषणादोषाणामेव स्वगतानेकभेदसूचकः । आह गोचरप्रविष्टानां साधूनां कथाप्रबन्धः कर्तुं न कल्पते, अमी च साधव इत्थमेषणादोषादीनां कथां प्रबधनन्तः कथं न दोषभाजो भवन्ति ? इत्युच्यते-'न च' नैवात्र कथाप्रबन्धदोषा भवन्ति, यदि हि भक्त-पानलोलुपतयाकथां प्रबनीयुस्ततो भवेयुर्दोषाः, तच्च नास्ति, एषणाशुद्धिहेतोरेव तेषामित्थं कथनात् । अथ च प्रत्युतेत्थं कथयद्भिस्तैर्गीताथैः 'गुणाः' बाल-वृद्धाधुपष्टम्भ-गुरुभक्तिप्रभृतयः साधिता भवन्ति ।। कतं पुनस्ते कथयन्ति ? इत्याह__ [भा.१६०५] ठाणं गमनाऽऽगमनं, वावारं पिंडसोहिमुल्लोग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org