________________
उद्देशक : १, मूलं- ६, (भा. १५९६ ]
४०५
भवेत् । अथ वेलातिक्रमभयाद् देशकाल एव तेषु प्रविशति तत आत्मनोऽवमं भवेत्, उदरपूरणं न भवेदिति भावः । ततश्वावमाहारतया तस्यैवानागाढा ऽऽगाढपरितापादयो दोषा ॥ अथ क्षपक-क्रोधवतोर्दोषानाह
[ भा. १५९७] परिताविज्जइ खमओ, अह गिण्हइ अप्पणो इयरहानी । अविदिन्ने कोहिल्लो, रूसि किं वा तुमं देसि ॥
- यदि क्षपको गुरूणां हेतोः प्रायोग्यं गृह्णाति नात्मनस्ततः स एव परिताप्यते, अथात्मनो गृह्णाति तत इतरेषां आचार्याणां हानि-परितापना । यस्तु क्रोधवान् सः 'अवितीर्णे' अदत्ते सति रुष्यति । रुष्टश्चागारिणं भणति यदि भवान् न ददाति तर्हि मा दातू किं भवदीयं गृहं दृष्ट्वाऽस्माभिः प्रव्रज्या प्रतिपन्ना ? इति किं वा त्वं ददासि येन 'एवमहं ददामि' इति गर्वितो भवसि ? इत्यादिभिर्दुर्वचनैः श्राद्धं विपरिणमयति ॥ मानि-मायिनोर्दोषानाहऊणाणुट्टमदिने, थद्धो न य गच्छए पुनो जं च । माई भद्दगभोई, पंतेन व अप्पणो छाए ।
[ भा. १५९८ ]
वृ-यः स्तब्धः सः 'ऊने' तुच्छे दत्ते "अनुट्ठ' "त्ति अभ्युत्याने वा अकृते “अदिन्न "त्ति सर्वथैव वा अदत्ते सति 'पुन:' भूयस्तदीयं गृहं न गच्छति, भणति च श्रावकाणामितरेषां च को विशेषः ? यदि द्वितयेऽपि साधूनामभ्युत्थानादिविनयप्रक्रियामन्तरेण भिक्षां प्रयच्छन्ति ततो नाहममुष्य गृहं भूयः प्रविशामीति । ततः "जंच "त्ति तदृहे प्रवेशं विना प्रायोग्यस्यालाभे यत् किञ्चिदाचार्यादीनां परितापनादिकं भवति तन्निष्पन्नं प्रायश्चित्तम् । यस्तु मायी सः 'भद्रकभोजी' प्रायोग्यमुपाश्रयाद् बहिर्भुक्त्वा प्रान्तमानयतीति भावः, यद्वा 'प्रान्तेन' वल्ल चणकादिना आत्मनो योग्यं स्निग्धमधुरद्रव्यं छादयति, छादयित्वा च गुरूणां दर्शयति ॥ लुब्धस्य दोषानाह
[ भा. १५९९ ] ओभासइ खीराई, दिजंते वा न वारई लुद्धो । जेऽनेगविसणदोसा, एगस्स वि ते उ लुद्धस्स ॥
वृ यो लुब्धः स स्थापनाकुलेषु क्षीरादीन्यवभाषते । यद्वा श्रद्धातिरेकतस्तैर्दीयमानानि स्निग्धमधुराणि न वारयति । ततश्च येऽडनेकेषु सङ्घाटकेषु स्थापनाकुलं प्रविशत्सु चमढणादयो दोषा वर्णितास्ते सर्वेऽप्येकस्यापि लुब्धस्य प्रविशतो द्रष्टव्याः ॥ कुतूहलिनः प्रतिबद्धस्य च दोषानाह[भा. १६०० ] नडमाई पिच्छंतो, ता अच्छइ जाव फिट्टई वेला ।
सुत्तत्थे पडिबद्धो, ओसक्का ऽहिसक्क माईया ||
-
वृ- यः कुतूहली स नटादीन् प्रेक्षमाणस्तावदास्ते यावद् वेला स्फिटति । यस्तु सूत्रेऽर्थे वा 'प्रतिबद्धः' आसक्तः स गुरूणां धर्मकथादिव्यग्रतया यतैवान्तरं लभते तदैवाप्राप्तकालेऽपि भिक्षार्थमवतरति, वेलातिक्रमं वा कृत्वा कालवेलादाववतरति, ततोऽवष्वष्कणा-ऽभिष्वष्कणादयो दोषाः ॥ यतश्चैवमतः किं कर्त्तव्यम् ? इत्याह
[मा. १६०१ ]
एयद्दोसविमुक्कं, कडजोगिं नायसील मायारं ।
गुरुभत्तिमं विनीयं, वेयावच्चं तु कारिज्जा ।।
वृ- एभिः अनन्तरोक्तैर्दोषैर्विमुक्तं वर्जितम्, किंविशिष्टम् ? इत्याह- 'कृतयोगिनं' गीतार्थं 'ज्ञातशीला - Sऽचारं' ज्ञातं सम्यगवतगतं शीलं प्रियध्मतादिरूपमाचारश्च चक्रवालसामाचारीरूपो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org