SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ४०४ बृहल्कल्प-छेदसूत्रम् -१-१/६ वैयावृत्यमाचार्योन कारयेदिति समासार्थः॥अथैनामेव गाथांविवरीषुः प्रथमतः प्रायश्चित्तमाह[भा.१५९३]तिसु लहुओ तिसु लहुया, गुरुओ गुरुया य लहुग लहुगोय। पेसग-करितगाणं, आणाइ विराधना चेव ॥ वृ-अलसादीन् य आचार्य स्ववैयावृत्यार्थ प्रेषयति-व्यापारयतीत्यर्थः, यश्चैभिषैिर्दुष्टः स्वयं वैयावृत्यं करोति, तयोः प्रेषक-कुर्वतोः प्रायश्चित्तम् । तद्यथा-'त्रिषु' अलस-बह्नाशि-निद्रालुषु लघुको मासः । “त्रिषु' क्षपक-कोपना-ऽभिमानिषु चत्वारो लघवः । मायावति गुरुको मासः । लोभवति चत्वारो गुरुकाः । कौतूहलवति चत्वारो लघुकाः । सूत्रार्थप्रतिबद्धेलधुमासः |आज्ञादयश्च दोषा विराधना चात्म-संयमविषया॥तत्रालस-स्वपनशीलयोनियोजने दोषानाह[भा.१५९४] ता अच्छि जा फिडिओ, सइकालो अ-सोविरे दोसा। गुरुमाई तेन विना, विराधनुस्सक्क-ठवणादी॥ वृ-अलसःस्वपनशीलश्चतावदुपविष्टः शयानोवाआस्तेयावत्सन्-विद्यमानः कालः सत्कालो भिक्षायाः 'स्फिटितः' अतिक्रान्तो भवति । यद्वा तावलस-निद्रालू चिन्तयेताम्- ‘समापतितं तावदिदमस्माकमवश्यकरमीयं कर्म, अत एतदपि निर्वाहितं भवतु' इति कृत्वा अप्राप्ते एव भिक्षाकाले पर्यटेताम्, ततोयद्वातद्वा भक्त-पानं लभेते, न प्रायोग्यम्, 'तेन' प्रायोग्येण विना या 'गुर्वादीनाम्' आचार्य-बाल-वृद्ध-ग्लानादीनां विराधनातन्निष्पन्नप्रायश्चित्तम् । यद्वाऽतिक्रान्तायां वेलायामायान्तं वैयावृत्यकरंमत्वा प्रायोग्यस्योत्ष्वष्कणं श्राद्धकानि कुर्युः, उत्सूरे तद् विदध्युरिति भावः ।यद्वातानि तदुपस्कृतंप्रायोग्यभक्तंस्थापयेयुः ततःस्थापनादोषः ।आदिशब्दात् ‘साधूनामसंविभक्तंभक्तं कथं स्वमुखेप्रक्षिप्यते? 'इतिबुयातेषामभुञ्जानानामन्तरायमित्यादयो दोषाः।। [भा.१५९५] अप्पत्तेवि अलंभो, हानी ओसक्कणा य अइभद्दे । अनहिंडतो य चिरं, न लहइज किंचि वाऽऽनेइ ।। वृ-अथ 'यदेतत् कस्मिाकं मध्ये समापतितं तद् निर्वाहितं भवतु' इति कृत्वा अप्राप्ते काले भिक्षामटति तदा 'अलाभः' नकिमपि प्राप्यते इति भावः। ततश्चाचार्यादीनां 'हानि' असंस्तरणं भवति ।यस्तु अतिभद्रकः' अतीवधर्मश्रद्धावान् गृहपति सः अवष्वष्कणं' विवक्षितकालादर्वाग् भक्तनिष्पादनं कुर्यात् । यद्वा असावलसत्वाद् निद्रालवाद्वा चिरमहिण्डमानः सन् न किमपि लभते, 'यत्किञ्चिद्वा' पर्युषितं वल्ल-चनकादिकं वा आनयति, तेन भुक्तेनाऽपथ्यतया गुर्वादीनां ग्लानत्वं भवति, ततः परिताप-महदुःखादिका ग्लानारोपणा।। अथ "घसिर"ति पदं भावयति[भा.१५९६] गिण्हामि अप्पणोता, पजत्तं तो गुरूण धिच्छामि। घेत्तुं च तेसि घिच्छं, सीयल-ओसक्क-ओमाई॥ वृ-यो महोदरः सवैयावृत्ये नियुक्तो भिक्षामटन चिन्तयति-गृह्णामि तावदात्मनो योग्यं पर्याप्त ततो गुरूणां हेतोर्ग्रहीष्यामि। यद्वा तेषां गुरूणां योग्यं गृहीत्वा तत आत्मनोऽर्थाय ग्रहीष्ये । इत्यं विचिन्त्य यदि प्रथमं गुरूणां योगयं गृहीत्वा पश्चादात्मार्थं गृह्णाति ततो यावता कालेनात्मनः पर्याप्तं पूर्यते तावता तत्पूर्वं गृहीतं शीतलं स्यात्, तच्च गुरूणामकारकम्, ततः सैव ग्लानारोपणा। अथवा स्थापनाकुलेषु प्रथमतः प्रवेशे तबाद्यापि वेलाया अप्राप्तत्वादवष्वष्कणादयो दोषाः । अथ प्रथममात्महेतोर्गृह्णाति ततो यावता तत् पर्याप्तं भवति तावता स्थापनाकुलेषु वेलातिक्रमो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy