________________
उद्देशक : १, मूलं -६, [भा. १६०५ ]
४०७
जाणताण वि तुझं, बहुवक्खेवाण कहयामो ॥
।
वृ- ‘स्थानं' नाम आत्म-प्रवचन- संयभोपघातवर्जितो भूभागः । यत्र स्थितस्य गवा ऽश्वमहिषादेराहननादि न भवति स आत्मोपघातवर्जितः । यत्र तु निर्द्धमनाद्यशुचिस्थानव्यतिरिक्ते प्रदेशे स्थितस्य लोकः प्रवचनस्यावर्णेन ब्रूयात्स प्रवचनोपघातवर्जितः । यत्र पुनः पृथिव्यादिकायानां विराधना न भवति स संयमोपघातवर्जितः । ईशे स्थाने साधुना दायकेन वा स्थित्वा भिक्षा ग्राह्या देया वेति ज्ञापयन्ति । 'गमनं' नाम दायकेन भिक्षादानार्थं गृहमध्ये प्रविशता षट्कायानामुपमदशमकुर्वता गन्तव्यम् । एवम् 'आगमनमपि' भिक्षां गृहीत्वा साधुसम्मुखभागच्छता दायकेनोपयुक्तेनागन्तव्यम् । व्यापारः-कर्तन-कण्डन- पेषणादिकः, तं च सम्यग् ज्ञापयन्ति-ईशे व्यापारे भिक्षा ग्रहीतुं कल्पते, ईशे तु नेति । "पिंडसोहिमुल्लोगं" ति पिण्डशुद्धेः 'उल्लोकं' लेशोद्देशं कथयन्ति, 'इत्थमाधाकर्मादयो दोषा उपजायन्ते, इत्थमेबिर्दोषैरदुष्टः पिण्डः साधूनां दीयमानः शुद्धो बहुफलश्च भवति' इथ्येवं पिण्डनिर्युक्ति लेशतो ज्ञापयन्तीति भावः । तथा यद्यपि यूयमिदं साधुधर्मस्वरूपग्रेऽपि जानीथ तथापि युष्माकं बहुव्याक्षेपाणामविस्मरणार्थं कथयाम इति ।। अपि च[भा. १६०६] केसिंचि अभिग्गहिया, अनभिग्गहिएसणा उ केसिंचि ।
माहु अवन्नं काहिह, सव्वे वि हु ते जिणाणाए ।
वृ- केषाञ्चित् साधूनामभिगृहीता एषणा, यथा जिनकल्पिकानाम् । केषाञ्चित् त्वनभिगृहीता, यथा गच्छ्वासिनाम्, सप्तस्वपि पिण्डैषमासु तेषां भक्त-पानस्य ग्रहणात् । एवं चापरापरां भक्तपानग्रहणसामाचारीं दृष्ट्वा यूयं मा अवज्ञां करिष्यथ । कुतः ? इत्याह- 'सर्वेऽपि ते' भगवन्तो जिनकल्पिकाः स्थविरकल्पिकाश्च जिनाज्ञायां वर्त्तन्ते, स्वस्वकल्पस्थितिपरिपालनात् अतो न केऽप्यवज्ञातुमर्हन्तीति भावः ॥ किञ्च
[भा. १६०७ ] संविग्गभावियाणं, लुद्धगदिट्टंतभावियाणं च । मुत्तूण खेत्त काले, भावं च कहिंति सुदुंछं ।
वृ-येषां श्राद्धानां पुरत एषणादोषाः कथ्यन्ते ते द्विधा-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च । संविग्नैः-उद्यतविहारिभिर्भाविताः संविग्नभाविताः । ये तु पार्श्वस्थादिभिर्लुब्धकद्दष्टान्तेन भावितास्ते लुब्धकध्ष्टान्तभाविताः कथम् ? इति चेद् उच्यते-ते पार्श्वस्थाः श्राद्धानित्यं प्रज्ञापयन्ति-यथा कस्यापि हरिणस्य पृष्ठतो लुब्धको धावति, तस्य च हरिणस्य पलायनं श्रेयः, लुब्धकस्यापि तत्पृष्ठतोऽनुधावनं श्रेयः; एवं साधोरप्यनेषणीयग्रहणतः पलायितुमेव युज्यते, श्रावकस्यापि तेन तेनोपायेन साधोरेषणीयमनेषणीयं वा दातुमेव युज्यते इति । इत्थं द्विविधानामपि श्राद्धानां पुरतः शुद्धं द्वाचत्वारिंशद्दोषरहितं यदुञ्छमिवोञ्छं स्तोकस्तोकग्रहणात् 'शुद्धोञ्छम्' उत्सर्गपदमित्यर्थः तत् कथयन्ति । किं सर्वदैव ? न इत्याह- 'मुक्त्वा क्षेत्र - कालौ भावं च' इति क्षेत्रं कर्कशक्षेत्रमध्वानं वा कालं - दुर्भिक्षादिकं 'भावं' ग्लानत्वादिकं प्रतीत्य ते श्राद्धाः किञ्चिदपवादमपि ग्राह्यन्ते ॥ अपि च इदमपि ते श्राद्धा आपनीयाः
[ भा. १६०८ ] संधरणम्मि असद्धं दोहवि गिण्हंत-दिंतयानऽहियं । आउरदिट्ठतेनं तं चैव हियं असंधरणे ॥
वृ- संस्तरणं नाम-प्राशुकमेषणीयमं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org