________________
बृहत्कल्प - छेदसूत्रम् - १-१/६
४०२
तन्निष्पन्नं प्रायश्चित्तम् ॥ गतं चमढणाद्वारम् । अथ द्रव्यक्षयोद्गमाशुद्धिद्वारद्वयमाह[भा. १५८७ ] अन्नो चमढण दोसो, दव्वखओ उग्गमो वि य न सुज्झे । खीणे दुल्लभदव्वे, नत्थि गिलाणस्स पाउग्गं ॥
"
वृ- 'अन्यः' अपरश्चमढनायां दोषः कः ? इत्याह- द्रव्यस्य- अवगाहिम-घृतादेः कारणमन्तरेणापि दिने दिने गृह्यमाणस्य क्षयो भवति । ततश्च यद्यभिनवमवगाहिमादि द्रव्यं साधूनामर्थाय करोति क्रीणाति वा तत उद्गमोऽपि च न शुद्यति, सदोषत्वात् तद् उत्पादितमपि न कल्पत इति भावः । ततः 'क्षीणे' व्यच्छिन्ने दुर्लभद्रव् प्रयोजने उत्पन्नेऽपि नास्ति ग्लानस्य प्रायोग्यम् । ततः परितापमहादुःखादिका ग्लानारोपणा द्रष्टव्या, भद्रक-प्रान्तकृताश्च दोषा भवन्ति ।। तानेवाहदव्वक्खएण पंतो, इत्थं घाइज कीस ते दिनं । भद्दी हट्ठपट्टो, करेज अन्नं पि साहूणं ॥
[भा. १५८८]
वृ- इह कस्यापि प्रान्तस्य भार्या श्राद्धिका ततस्तयाऽन्यान्यसाधूनां याचमानानां प्रायोग्यद्रव्यं सर्वमपि प्रदत्तम् । ततस्तस्याः पतिर्भोजनार्थमुपविष्टः सन् ब्रूते कूरं मे परिवेषय | सा प्राहसाधूनां प्रदत्तः । स प्रतिब्रूयात्-पूपलिकास्तर्हि परिवेषय । सा प्राह-ता अपि प्रदत्ताः । एवं सूपदुग्ध-दधिप्रभृतीन्यपि साधूनां वितीर्णानीति । इत्थं द्रव्यक्षयेणस प्रान्तः कुपितः सन् ‘अरेरेकुलपांसने! किं ते मुण्डास्तवोपपतयो भवन्ति येनैवं मदीयं गृहसर्वस्वं दत्त्वा तान् पोषयसि ?' इत्यभिधाय स्वां स्त्रियं 'घातयेत्' कुट्टयेत्, 'कस्मात् ' किमर्थं त्वया तेभ्यः सर्वमपि दत्तम् ? इति कृत्वा । अत्र पाठान्तरम्-“दव्वक्खएण लुद्धो ''त्ति 'लुब्धः' लोभाभिभूतः, सेषं प्राग्वत् । यस्तु भद्रको गृहपति स श्राद्धिकया सर्वस्मिन्नपि दत्ते तथैव च कथिते हृष्टप्रहृष्टो भवति । हृष्टो नाम-नमसि परितोषवान्, प्रहष्टस्तु - प्रहसितवदनः समुद्भूतरोमहर्षो हर्षाश्रूणि विमुञ्चमान इति । ततश्च कुर्याद् 'अन्यदपि ' अवगाहिमादिकं साधूनामर्थाय, करयेदित्यर्थः । एतद्दोषपरिहरणार्थमेकं गीतार्थसङ्घाटकं मुक्त्वा शेषाः स्थापनाकुलानि न निर्विशेयुः । प्राघूर्णके चायाते सति प्राघुण्यं विधेयम्, तच्च स्वभावानुमतैरेव भक्त- पानैः ॥ तथा चात्र ध्टान्तमाह
[ भा. १५८९]
जड्डे महिसे चारी, आसे गोणे य जे य जावसिया ।
एएसिं पडिवक्खे, चत्तारि उ संजया होंति ।
वृ- 'जडु:' हस्ती, महिषाश्चौ प्रतीतौ, 'गोणः' बलीवर्द, एतेषां ये 'याचसिकाः' यवसःतप्रायोग्यमुद्ग - माषादिरूप आहारस्तेन तद्वहनेन चरन्तीति यासिकास्ते अनुकूलां चारीमानयन्ति । एतेषां जड्डादीनां 'प्रतिपक्षे' प्रतिरूपः पक्षः प्रतिपक्षः सध्शपक्ष इत्यर्थः, तत्र चत्वारः प्राधूर्णकसंयता भवन्ति । तद्यथा - जड्डुसमानो महिषसमानोऽश्वसमानो गोसमानश्चेति ॥
अथामीषामेव व्याख्यानमाह
भा. (१५९० ] जड्डोजं वा तं वा, सुकुमालं महिसओ महुरमासो । गोण सुगंधिदव्वं, इच्छइ एमेव साहू वि ।।
वृ- 'जड्डुः' हस्ती, सः 'यद्वा तद्वा' कर्कश कटुकादिकमप्याहारयति । यस्तु महिषः 'सुकुमारं ' वंशकरीलादिकमभिलषति । अश्वः 'मधुरं' मुद्ग- माषादिकमभिकाङ्क्षति । 'गौः' बलीवर्द सः 'सुगन्धिद्रव्यम्' अर्जुनक-ग्रन्थिपर्णादिकमिच्छति । एवमेव साधवश्चत्वारः चतुर्विधं भक्तमिच्छन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org