________________
३९७
उद्देशक ः १, मूलं-६, [भा. १५६१] एवमेतेन विधिना व्रजन्तस्तावद् गता यावद् मूलक्षेत्रम् ॥ ततः किम् ? इत्याह[भा.१५६२] भत्तविया व खमगा, पुट्विं पविसंतुताव गीयत्था।
परिपुच्छिय निद्दोसे, पक्सिंति गुरू गुणसमिद्धा ।। वृ-ते हि भक्तार्थिनः क्षपका वा सन्तस्तत्र क्षेत्रे प्रविशन्ति । 'भक्तार्थिनः' भोक्तुकामाः, 'क्षपकाः' उपोषिताः । तत्र च पूर्वं तावद् गीतार्था प्रविशन्ति । ततस्तैः गीतार्थे परिपृच्छय' शय्यातरं पृष्ट्वा निर्दोषे उपाश्रये सुनिश्चिते सति प्रविशन्ति गुरवो गुणसमृद्धाः ।साभिप्रायकमिदं विशेषणम् । ते हि भगवन्तो गुरवो गुणैः समृद्धाः, अतो यदि प्रथमं प्रविश्य सव्याघातां वसतिं मत्वा प्रतिनिवर्तन्ते ततोभवति महानवर्णवादः, यथा-एतेषामेतदपिज्ञानं नास्तीति, ततः पश्चात् प्रविशन्ति ।। अथैनामेव गाथां विवरीषुराह[भा.१५६३] बाहिरगामे वुच्छा, उज्जाने ठाण वसहिपडिलेहा।
इहरा उ गहियभंडा, वसहीवाघाय उड्डाहो । वृ-प्रत्यासने बाह्यग्रामे उषिताः प्रत्युषसि विवक्षितक्षेत्रस्योद्यानभागम्य तत्र स्थानं कुर्वन्ति। यैः क्षेत्र प्रत्युपेक्षतं ते वसतिप्रत्युपेक्षणार्थं प्रेष्यन्ते । 'इतरथा' यदि वसतिमप्रत्युपेक्ष्य प्रविशन्ति ततोमासलघु ।सा वसतिरन्येषांप्रदत्ता भवेत् ततः गृहीतभाण्डाः' गृहीतोपकरमा वसतिव्याघाते सत्यपरां वसतिमन्वेषयन्त इतस्ततः पर्यटन्ति, तथाभूतांश्च दृष्ट्वा उड्डाहो भवेत्, यथा-अहो! निष्परिग्रहा निर्ग्रन्था इति । ततः किं विधेयम् ? इत्याह[भा.१५६४] तम्हा पडिलेहिय साहियम्मि पुव्वगत असति सारविए।
फड्डगफड्डु पवेसो, कहणा न य उट्ठऽनायरिए। वृ-तस्मात् चिलिमिली-दण्डकप्रोञ्छने गृहीत्वा वसतिंप्रत्युपेक्ष्य यदि सानान्येषां प्रदत्ता तदा "साहियम्मि"त्ति शय्यातरस्य 'आचार्या आगताः सन्ति' इति कथिते सति यदि 'पूर्वगताः' पूर्वस्थिताः क्षेप्रत्युपेक्षकास्तत्र सन्ति तदा तैः प्रागेव वसति प्रमार्जितैव । अथ न सन्ति ततः स्वयमेव “सारविए"त्ति सम्मार्जिते प्रतिश्रयेद्वारे च चिलिमिली बद्ध्वा धर्मकथिनमेकं मुक्त्वा व्यावृत्य गुरूणां निवेदयन्ति । ततो वृषभास्तथैवाक्षान् गृहीत्वा शकुनान परीक्षमाणाः प्रविशन्ति। तैश्च प्रविष्टैः शेषाः साधवः स्पर्द्धकस्पर्द्धकैः प्रविशन्ति, न पुनः सर्वे एकत्र पिण्डीभूयेति भावः । यश्च तत्र धर्मकथिकः स्थित आस्ते स सागारिकस्य धर्मकथां करोति । स च "अनायरिय" त्ति आचार्य मुक्त्वा शेषसाधूनां ज्येष्ठार्याणामप्यभ्युत्थानं न करोति'मा भूदु धर्मकथाया व्याघातः' इति ॥ अथ वृषभाणां प्रविशतां शकुना-ऽपशकुनविभागनिरूपणायाह[भा.१५६५] मइल कुचेले अब्मंगियल्लए साण खुन वडभेया।
एयाइँ अप्पसत्थाइँ हौति गामं अइंताणं ।। [भा.१५६६] रत्तपड चरग तावस, रोगिय विगला यआउरावेज्जा ।
कासायवत्थ उद्धूलिया य कजं न साहिति ॥ [भा.१५६७] नंदीतूरं पुन्नस्स दंसणं संख-पडहसदो य।
भिंगार-छत्त-चामर-वाहण-जाणा पसत्थाई।। [भा.१५६८] समणं संजयं दंतं, सुमनं मोयगा दधिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org