________________
३९८
बृहत्कल्प-छेदसूत्रम् -१-१/६ मीणं घंटे पडागंच, सिद्धमत्यं वियागरे ।। वृ.चतस्रोऽपि गाथाः प्राग्वत् (गाथा) । नवरंश्वा दक्षिणपाश्र्वा वामपार्श्वगामी गृह्यते। इत्थं वृषभेषु प्रशस्तैः शकुनैः प्रविष्टेषु सूरयः क्षेत्रं प्रविश्य किं कुर्वन्ति ? इत्याह[भा.१५६९] पविसंते आयरिए, सागरिओ होइ पुव्व दट्ठव्यो।
अद्दण पविट्ठो, आवजइ मासियं लहुयं ।। वृ“पविसंते आयरिए"तितृतीयार्थे सप्तमी, वसतिं प्रविशता आचार्येण सागारिकः पूर्वमेव द्रष्टव्यो भवति । अथ सागारिकमटैव प्रविष्ट आचार्य तत आपाद्यते मासिकं लघुकम् ।।
अथाचार्यमायान्तं दृष्ट्वा धर्मकथी किं करोति? इत्याह[भा.१५७०] आयरियअनुट्ठाणे, ओभावण बाहिरा अदक्खिन्ना।
कहणं तु वंदणिज्जा, अनालवंते वि आलावो। वृ-धर्मकथिना आचार्याणामभ्युत्थानं कवयम् । यदि न करोति तदा 'अपभावना' लाघवमाचार्याणां भवति-नूनं नामधारक एवायमाचार्य, नास्य किमप्याज्ञैश्वर्यं विद्यते । यद्वा लोकव्यवहारस्य बाह्याअमी, यतः पञ्चानामप्यङ्गुलीनांतावदेका ज्येष्ठा भवति।तथा अदाक्षिण्याः' 'गुरूनपि प्रति एतेषां दाक्षिण्यं नास्ति' इति शय्यातरश्चिन्तयति । “कहणंतु" ति शय्यातरस्य धर्मकथिना कथनीयम्, यथा-वन्दनीया एते भगवन्त इति । ततो गुरुभिरनालपतोऽपि शय्यातरस्यालापः कर्त्तव्यः ।। अथ न कुर्वन्त्यालपनमाचार्यास्तत एते दोषाः[भा.१५७१] थद्धा निरोवयारा, अग्गहणं लोकजत्त वोच्छेदो ।
तम्हा खलु आलवणं, सयमेव यतत्थ धम्मकहा।। वृ-शय्यातरश्चिन्तयेत्-अहो ! स्तब्धाः' आत्माभिमानिन एते, वचसाऽपि नान्यस्य गौरवं प्रयच्छन्ति। 'निरुपकाराः' कृतमप्युपकारनबहुमन्यनते, कृतघ्ना इत्यर्थः । 'अग्रहणम्' अनादरो मां प्रत्यमीषाम् । लोयात्रामप्येते न जानन्ति, लोके हि यो यस्याश्रयदानादिनोपकारी स ततः स्निग्धदृष्ट्यवलोकन-मधुरसम्भाषमादिकां महतीं प्रतिपत्तिमर्हतीति । इत्थं कषायितस्तद्दव्यस्यान्यद्रव्याणां वा व्यवच्छेदं कुर्यात् । यत् एवंतस्मात् स्वल्वालपनमाचार्येण कर्तव्यम्, स्वयमेव च तत्राचार्येण धर्मकथा कार्या ॥ कथम् ? इत्याह[भा.१५७२] वसहिफलं धम्मकहा, कहणमलद्धीओ सीस वावारे ।
पच्छा अइति वसहि, तत्थ य भुजो इमा मेरा ।। वृ-धर्मकथां कुर्वन्तः सूरयो वसतिफलं कथयन्ति । यथा
रयणगिरिसिहरसरिसे, जंबूणयपवरवेइआकलिए। मुत्ताजालगपयरग-खिखिणिवरसोभितविडंगे। वेरुलिय-वयर-विहुमखंभसहस्सोवसोमिअमुदारे।
___ साहूण वसहिदाणा, लभती एयारिसे भवणे॥ अथाचार्याणां धर्मकथने लब्धिर्न भवति तदा शिष्यं धर्मकथालब्धिसम्पन्नं व्यापारयेयुः । ततः पश्चादाचार्या प्रविशन्ति वसतिम् । तत्र च प्रविष्टानां भूयः' पुनरियं मर्यादा' सामाचारी।।
तामेवाभिधित्सुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org