________________
३९६
बृहत्कल्प-छेदसूत्रम् -१-१/६ 'ततः' दिवसत्रयात् परतः 'शोधि' प्रायश्चित्तं भवेत् ।। तामेवाह[भा.१५५८] सत्तरत्तं तवो होइ, तओ छेओ पहावई।
छेएणऽच्छिन्नपरियाए, तओ मूलं तओ दुगं । वृ-सप्तरात्रं यावत् तपो भवति । ततः' सप्तरात्रानन्तरं छेदः प्रधावति । छेदेनाप्यच्छिन्नपर्याय साधौ ततो मूलम् । ततः 'द्विकम्' अनवस्थाप्य-पाराञ्चिकद्वयम् ॥इदमेव व्याख्यानयति[भा.१५५९] मासो लहुओ गुरुओ, चउरो लहुया य होति गुरुगाय।
छम्मासा लहु गुरुगा, छेओ मूलं तह दुगंच॥ वृ-इह प्रथमदिवसे वसन्तोऽनुज्ञाता एव, “पढमदिने समणुन" त्तिवचनात् । द्वितीये दिवसे यदि मनोज्ञाहारलम्पटतया तत्र ग्रामे वसन्ति तदा लघुको मासः, तृतीये गुरुकाः चतुर्थे चत्वारो लघवः, पञ्चमे चतुर्गुरवः, षष्ठे षण्मासा लघवः, सप्तमेषण्मासागुरवः, ततः सप्तरात्रानन्तरमष्टमे दिवसे च्छेदः, नवमे मूलम्, दशमेऽनवस्थाप्यम्, एकादशे पाराञ्चिकमिति । अथ तपःशोषितशरीरादयस्ते ततस्त्रीणि दिवसानि वसन्तः प्रायश्चित्तं नापद्यन्ते, “तिन्नि व (वि) समणुनाय" त्तिवचनात्।चतुर्थे दिवसे वसतां लघुमासः, पञ्चमे गुरुमासः, षष्ठेचतुर्लघवः, सप्तमेचतुर्गुरवः,
अष्टमेषड्लघवः, नवमेषड्गुरवः, दशमेच्छेदः, एकादशे मूलम्, द्वादशेऽनवस्थाप्यम्, त्रयोदशे पाराश्चिकमिति विशेषचूर्ण्यभिप्रायः । बृहद्भाष्ये पुनरित्यमुक्तम्
एक्कक्क सत्तवास, मासाईयं तवंतु दाऊण।
छेओ वि सत्तसत्तओ, तिनि गमा तस्स पुव्वुत्ता॥ 'पूर्वं' पीठिकायां 'तस्य' च्छेदस्य ये त्रयो गमा उक्तास्तेऽत्रापि द्रष्टव्याः। तत्र यतः स्थानात् तपः प्रारब्धंततआरभ्यच्छेदोऽपिदीयते, लघुमासादारभ्येत्यर्थः इत्येको गमः । लघुपञ्चकादारभ्येति द्वितीयः । गुरुपञ्चकादारभ्येति तृतीयः ॥ इदं सामान्यतः प्रायश्चित्तम् । अथ विशेषत आह_[भा.१५६०] अणणुनाए निक्कारणे व गुरुमाइणं चउण्हं पि ।
गुरुगा लहुगा गुरुगो, लहुओ मासो य अच्छंते ।। वृ- अननुज्ञाते दिवसत्रयादूर्ध्वं 'निष्कारणे वा' कारणं विना प्रथमदिवसादूर्द्ध गुर्वादीनां चतुर्णामपितिष्ठतां यथाक्रमं गुरुका लघुका गुरुकोलघुकश्चमासः । इयमत्र भावना-आचार्यस्याननुज्ञाते निष्कारणे वा तिष्ठतश्चत्वारो गुरवः, वृषभस्य चत्वारो लघवः, अभिषेकस्य गुरुमासः, भिक्षोलघुमासः ॥आह किंनिमित्तमित्थं प्रायश्चितमापद्यते? उच्यते[भा.१५६१] नेहामु त्तिय दोसा, जे पुव्वं वन्निया कइयमादी ।
तेचेव अणट्ठाए, अच्छंते कारणे जयणा ॥ .. वृ-'नैष्यामः' नागमिष्याम इत्युक्ते ये पूर्वं 'क्रयितादयः' वसते टकसमर्पण-विक्रयणादयो दोषा वर्णितास्ते चैव अर्थ-प्रयोजनं तदभावोऽनर्थं तेन प्रयोजनमन्तरेणेत्यर्थः, तत्र ग्रामे तिष्ठतां दोषाः । किमुक्तं भवति ? - तत्र ग्रामे रसगौरवबहुलतया तेषां तिष्ठतां कालविलम्बलगनात् चिकीर्षितमासकल्पे क्षेत्रे वसतिं शय्यातरो भाटकेन समर्पयेत् विक्रीणीत वा धान्यादिना वा म्रियेत बटुकादीनां वा दद्यात् ततस्त एवात्मविराधनादयो दोषाः । कारणे तु तिष्ठतां यतना, एकं
द्वौ त्रीन् वा दिवसान् स्थित्वा तथा गन्तव्यं यथा विलम्बमन्तरेण तत् क्षेत्रं प्राप्यत इति भावः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org