________________
उद्देशक : १, मूलं -६, [ भा. १५५३ ]
३९५
समर्थसाधवः । कथम् ? इत्याह- द्वौ सौत्रिकौ कल्पी एक और्णिकः कल्पः संस्तारकः चश्बादुत्तरवट्टकश्च । एतेषामाचार्यादिसम्बन्धिनां " गहणेक्कपासेणं" ति सप्तम्यर्थे तृतीया 'एकस्मिन् पार्श्वे' एकत्र स्कन्धे ग्रहणं कुर्वन्ति । द्वितीये तुपार्श्वे आत्मीयमुपधिं स्थापयन्ति ॥ अथ "खग्गूड" त्ति पदं विवृणोति
[भा. १५५४] रत्तिं न चे कप्पर, नीयदुवारे विराहणा दुविहा । पन्नवण बहुतर गुणा, अणिच्छ बीओ व उवही वा ॥
वृ- कश्चिद् धर्मश्रद्धालुतया खग्गूडतया वा प्राह- रात्रौ न चैव कल्पते विहर्तुम्, यतः "नीयदुवारं तमसं, कोट्ठगं परिवज्रए ।” त्ति वचनादू दिवाऽपि तावद् नीचद्वारे कोष्ठके प्राणिनां कण्टकादीनां चानुपलभ्यमानतया ‘द्विविधा' संयमा-ऽऽत्मविराधना भवति इति कृत्वा प्रवेष्टुं न कल्पते, किं पुना रात्री विहर्त्तु कल्पिष्यते ? । इत्थं ब्रुवाणस्य तस्य प्रज्ञापना कर्त्तव्या, यथा-वत्स ! दूरतम क्षेत्रस्य गन्तव्यतया बहुतरा गुणाः सबाल-वृद्धस्य गच्छस्य साम्प्रतं रात्रौ गमने भवन्ति । इत्थमपि प्रज्ञापितोयदि नेच्छति ततोऽस्य 'द्वितीयः' सहायो दीयते उपधिर्वा तस्य जीर्ण उपहतश्च समर्प्यते, मा सारतरस्तदीयोपधि स्तेनैर्गृह्येत मा वा रात्रौ सुप्तस्योपहन्येतेति । तदेवमुक्तविधिना ततः क्षेत्राद् निर्गत्य सूत्रोक्तनीत्या गच्छन्ति । ग्रामं च प्राप्तानां क्षेत्रप्रत्युपेक्षका यत्र पूर्वं वसति प्रत्युपेक्षिता आसीत् तत्र प्रथमं स्वयं गत्वा वसतिं निरूप्य ततो गच्छं तत्र प्रवेशयन्ति । तत्र रात्रावुषित्वा प्रभाते ग्रामान्तरं गच्छन्ति । एवं च
[भा. १५५५] वच्चंतेहि य दिट्ठो, गामो रमणिज्जभिक्ख-सज्झाओ ।
जं कालमणुन्नाओ, अननुन्नाए भवे लहुओ ॥
?
वृ- व्रजद्भिस्तैः साधुभिः कश्चिद् ग्रामो दृष्टः कथम्भूतः ? रमणीयं- सुखप्राप्यत्वेन मनोज्ञभक्तपानलाभेन च भैक्षं अत एव रमणीयः स्वाध्यायश्च यत्र स रमणीयभैक्ष-स्वाध्यायः । एवंविधो ग्रामः 'यं' यावन्तं 'कालम्' एकदिवसलक्षणं स्थातव्यत्वेनानुज्ञातः तावन्तं कालं वसन्तो न प्रायश्चित्तभाजो भवन्ति । 'अननुज्ञाते' द्वितीयादिषु दिवसेषु वसतां लघुको मासो भवेत् ॥
अथवा
[भा. १५५६] तवसोसिय उव्वाया, खुल लुक्खाहारदुब्बला वा वि । एग दुग तिन्नि दिवसे, वयंति अप्पाइया वसिउं ॥
वृ- तपसा - षष्ठाऽष्टमादिना ये शोषिता ये वा उद्वाताः अतीवपरिश्रान्ताः ये च "खुल" ति कर्कशक्षेत्रादायाताः ये वा रूक्षाहारभोजित्वाद् दुर्बलाः, एते एकं वा द्वौ वा त्रीन् वा दिवसान् तस्मिन् ग्ग्रामे 'उषित्वा' स्थित्वा 'आप्यायिताः' मनोज्ञाहारैः स्वस्थीभूताः अपरं ग्रामं व्रजति । इदमेव भावयति
[भा. १५५७]
पढमदिने समणुन्ना, सोहीवुडी अकारणे परतो ।
तिन्निव (वि) समणुन्नाया, तओ परेमं भवे सोही ॥
वृ-प्रथमदिने तत्र ग्रामे वसतां समनुज्ञा, प्रथमो दिवसस्तत्रानुज्ञात इति भावः । ततः ‘परतः’ द्वितीयादिदिवसेष्वकारणे वसतां शोधि- प्रायश्चित्तं तस्या वृद्धिर्भवति । सा चानन्तरगाथायां वक्ष्यते । अथ तपः शोषितत्वादिकमनन्तरगाथोक्तं कारणं वर्त्तते तत्र त्रीण्यपि दिनानि समनुज्ञातानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org