________________
उद्देशक : १, मूलं- ६, [भा. १५३४ ]
३९१
प्रथमत एव नापृच्छन्ति ते कथं ज्ञायन्ते ? ; ततस्तेषामभिधारयतां साधूनाम् 'अहो ! लोकव्यवहार बहिर्मुखा अमी आचार्या, ततः को नामामीषामुपकण्ठे उपसम्पत्स्यते ?' इति विचिन्त्य स्वगच्छे गणान्तरे वा गमनं भवेदिति वाक्याध्याहारः । स चाचार्यस्तेषां श्रुतवाचनाप्रदानादिजन्याया निर्जराया अनाभागी भवति । प्रव्रज्याभिमुखानां वा "तेनेहि"त्ति स्तेनविषया शङ्का भवेत् । किमुक्तं भवति ? - केचिदगारिणः संसारप्रपञ्चविरक्तचेतसस्तदन्तिके प्रव्रज्यां प्तिपित्सवः सामायाताः सागारिकं पृच्छन्ति-क्व गता आचार्या स प्राह वयं न जानीमः तत्स्वरूपमिति, ततस्तेषामगारिणां शङ्का समुपजायते, यथा-नूनं किमप्यस्यसागारिकस्य चोरयित्वा गतास्ते, अन्यथा किमर्थमेष परिस्फुटमाचार्याणां गमनवृत्तान्तं न निवेदयति ? इति । ततश्च ते प्रव्रज्यामप्रतिपद्यमाना यत् षन्नं जीवनिकायानां विराधनां कुर्वन्ति यच्च बोटिक निह्नवादिषु व्रजन्ति अपरान् वा प्रव्रजतो विपरिणामयन्ति तन्निष्पन्नमाचार्याणां प्रायश्चित्तम् । यत एवमतः सागारिकमापृच्छ्य गन्तव्यम् ॥ सा च पृच्छा द्विविधा विधिपृच्छा अविधिपृच्छा च । तत्रिविधिपृच्छामभिधित्सुः प्रायश्चित्तं तावदाह
[ भा. १५३५ ] अविहीपुच्छणे लहु, तेसिं मासो उ दोस आणाई । मिच्छत्त पुव्वभणियं, विराधन इमेहि ठाणेहिं ॥
- अविधिप्रच्छने 'तेषाम्' आचार्याणां लघुको मासः, दोषाश्चाज्ञादयः, तता मिध्यात्वं 'पूर्वभणितं ' प्रागुक्तमेव मन्तव्यम् । विराधना एभिः स्थानैर्भवति ॥ तान्येवाह
[ भा. १५३६ ] सहसा दट्टु उग्गाहिएण सिजायरी उ रोविज्जा । सागारियस संका, कलहे य सएज्झिखिसणया ।
वृ- अविधिपृच्छा नाम वस्त्र -पात्राद्युपकरणं विहारार्थमुद्ग्राह्य पृच्छन्ति 'वयमिदानीं विहारं कुमह' ततः 'सहसा' अकस्माद् उद्राहितेन उपकरणेन प्रस्थितान् द्दष्टवा शय्यातरी रुदियात् । तद् दृष्ट्वा सागारिकस्य शङ्का भवेत्-मयि प्रवसति कदाचिदप्यस्या अक्षिणी अश्रुपातं न कुरुतः, अमीषु तु प्रस्थितेष्वित्थमश्रूणि मुञ्चतः, ततो भवितव्यं कारणेनेति । मिध्यात्वं गच्छेत्, तध्व्याऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः । तथा "सइज्झिय "त्तिप्रातिवेश्मिकी रुदन्तीं शय्यातरी दृष्ट्वा पश्चात् कलहे समुत्पन्ने खिंसनां कुर्यात् किमन्यद् द्भवदीयं दुश्वरीतमुद्गीर्यते येन तदानीमाचार्येषु विहारं कर्तुमुद्यतेषु भवत्यारुदितम्, किं वा स आचार्यस्ते पिता भवति येन रोदिषि ? इति ।। अतानागतमेव पृच्छन्ति 'वयममुकदिवसे गमिष्यामः' तत्राप्यमी दोषाः
-
[ भा. १५३७]
हरियच्छेअण छप्पईअथिच्चणं किञ्चणं च पुत्ताणं । गमनं च अमुगदिवसे, संखडिकरणं विरूवं वा ॥
•
वृ-तानि शय्यातरमानुषाणि 'अद्य साधवो गमिष्यन्ति' इति कृत्वा क्षेत्रादौ न गच्छन्ति । ततो यानि तत्र महान्ति तानि धर्मं शृणुयुः । चेटरूपाणि स्नुषाश्च पुरोहडादिषु हरितच्छेदनं यद्वा परस्परं षटपदिकानां "थेच्चणं" उपमर्दनं "किचणं" ति कर्त्तनं वा विदध्यु, पोतानि-वस्त्राणि तेषां प्रक्षालनं कुर्वीरन् । यद्वा 'अमुकदिवसे गमनं करिष्यामः' इत्युक्ते संयतार्थं संङ्कड्याः करणं भवेत् । तत्र यदि गृह्णन्ति तदाऽऽधाकर्मादयो दोषाः, अगृह्णतां तु प्रद्वेषगमनादयः । “विरूवं 'ति 'विरूपम्' अनेकप्रकारं कुडयधवलनादिकमपरमप्यधिकरणं कुर्यु । यत एते दोषा अतोऽ विधिपृच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org