________________
३९०
बृहत्कल्प-छेदसूत्रम् -१-१/६ रात्रिन्दिवपञ्चकेन, गो-बलीवरदस्यार्द्धमासेन, हस्तिनस्तु क्षीणवपुषः पुष्टिमारोप्यमाणस्य षष्ट्या दिवसैर्बलमुद्भवति । तत एते वृद्धादयः प्रथमक्षेत्रे पोष्यमाणाः पञ्चकमेकं रात्रिन्दिवानां व्यवस्थाप्यन्ते, ततश्चतुर्थक्षेत्रे नीयन्ते । अथ पञ्चकेनामी न बलं गृहीतवन्तः ततो द्वे पञ्चके, तथापि बलमगृह्णानास्त्रीणि पञ्चकानि व्यवस्थाप्य चतुर्थक्षेत्रे नेतव्याः ।। एवं ते चतुर्थक्षेत्रगमनं निर्णीय शय्यातरमापृच्छय क्षेत्रान्तरं सङ्क्रामन्ति तद्विषयं विधिमभिधित्सुराह[भा.१५३१] सागारिय आपुच्छण, पाहुडिया जह य वज्जिया होइ ।
के वच्चंते पुरओ, उभिक्खुणो उदाहु आयरिया ।। वृ-क्षेत्रान्तरं सङ्क्रामद्भिः सागारिकस्याऽऽप्रच्छन्नं कर्त्तव्यम् । यथा च 'प्राभृतिका' हरितच्छेदनाधधिकरणरूपा वर्जिता भवति तथा विधिना आप्रच्छनीयम् । तथा गच्छतां के पुरतोव्रजन्ति? किंभिक्षवः? उताहोआचार्या? इति निर्वचनीयम्। एष द्वारगाथासमासार्थः॥ अथैनामेव विवरीषुराह[भा.१५३२] सागारिअनापुच्छण, लहुओ मासो उ होइ नायव्यो।
आणाइणो य दोसा, विराधन इमेहि ठाणेहिं ।। कृ-सागारिकमनापृच्छययदिगच्छन्तितदालघुकोमासःप्रायश्चित्तं भवतिज्ञातव्यः,आज्ञादयश्च दोषाः । विराधना चामीभि स्थानः प्रवचनादेर्भवति ।। तान्येवाह[भा.१५३३] सागारिअपुच्छगमणम्मि बाहिरा मिच्छगमन कयनासी।
अन्नस्स विहिय-नटे, तेनगसंका यजं चऽन्नं ।। वृ- सागारिकमनापृच्छय यदि गच्छन्ति ततः सागारिकश्चिन्तयेत्-“बाहिरि"त्ति बाह्या लोकधर्मस्यामी भिक्षवः, यतः
आपुच्छिऊण गम्मइ, कुलंच सीलं च माणिअंहोइ।
अभिजाओ त्ति अभन्नइ, सो विजणो माणिओ होइ॥ एष लोकधर्म । तथा “मिच्छगमन"त्ति 'ये लोकधर्ममपि प्रत्यक्षदृष्टं नावबुध्यन्ते ते कथमतीन्द्रियमध्ष्टं धर्ममवभोत्स्यन्ते?' इति सागारिको मिथ्यात् गच्छेत् । तथा 'कृतनाशिनः' कृतघ्ना एते, एकरात्रमपि हि यस्य गेहे स्थीयतेतमनापृच्छय गच्छतां भवत्यौचित्यपरिहाणि, किं पुनरमीषामियन्ति दिनानि मम गृहे स्थित्वा युक्तं मामनापृच्छय गन्तुम् ? इति। तथा अन्यस्य' प्रातिवेश्मिकस्य अपिशब्दात् सागारिकस्य वा हृते नष्टेवा कस्मिंश्चिद्वस्तुनि स्तेनकशङ्का भवेत्यदमी साधवोऽनापृच्छय गतास्तद् नूनमेभिरेव स्तेनितं तद् द्रव्यमिति । “जं चऽ"ति यन्त्र 'अन्यद्' वसतिव्यवच्छेदादि भवति तदपि द्रष्टव्यम् । तदेवाह [भा.१५३४] वसहीए वोच्छेदो, अभिधारिताण वा वि साहूणं ।
पव्वजाभिमुहाणं, तेनेहि व संकणा होजा ।। घृ-'विप्रलम्भितास्तावदमीभिरेकवारम्, अत ऊर्द्धये केचन संयता इति नाम उद्वहन्ते तेभ्यो वसतिनप्रदास्यामि' इत्येवं वसतेर्व्यवच्छेदो भवेत्।तथा अभिधारयन्तो नाम येसाधवस्तमाचार्य मनसिकृत्योपसम्पदः प्रतिपत्यर्थं समायातास्ते सागारिकं प्रश्नयन्ति-आचार्या कस्मिन् क्षेत्रे विह्वतवन्तः?; सागारिकः प्राह-यः कथयित्वा व्रजति स ज्ञायते यथा अमुकत्र गत इति, ये तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org