________________
बृहत्कल्प-छेदसूत्रम् -१
३६
प्रच्यवमानो मिथ्यात्वमद्याप्यप्राप्तोऽव्यक्तमुपशमगुणं वेदयत इति सम्यग्दृष्टि ॥ सम्प्रति सासादनशब्दव्युत्पत्तिमाह
[ भा. १२८/२] संसायं सायंतो, सस्सादो वा वि सासाणो ॥
वृ- 'स्वं' आत्मीयम् आयं सातयन् “सासादो वा वि सासाणो" "सास्वादः' अव्यक्तोपशमगुणास्वादसहित इति कृत्वा 'सास्वादन:' सह आस्वादनं यस्य स तथेति व्युत्पत्तेः ॥ अधुना क्षायोपशमिकं सम्यक्त्वमाह
[ भा. १२९] जो उ उदिन्ने कीणे, मिच्छे अनुदिन्नगम्मि उवसंते । सम्मीभावपरिणतो, वेयंतो पोग्गले मीसो ॥
वृ-यस्तु 'उदीर्णे' उदयावलिकाप्रविष्टे मिध्यात्वे क्षीणे 'अनुदीर्णे' अनुदयप्राप्ते च 'उपशान्ते' उपशान्तं नाम किञ्चिन्मिथ्यात्वरूपतामपनीय सम्यक्त्वरूपतया परिणतं किञ्चिन्मिथ्यात्वरूपमेव सद् मस्मच्छन्नाग्निरिवानुद्रेकावस्थाप्राप्तम्, तस्मिन् तथारूपे सति 'पुद्गलान्' सम्यक्त्वरूपान् ‘वेदयमानः’ सम्यग्भावपरिणतः सः 'मिश (श्रः ) ' क्षायोपशमिकसम्यग्गृष्टिः । सम्यक्त्वरूपधर्मनिदेशप्रक्रमेऽपि धर्मिणा निर्देशो धर्म-धर्मिणोः कथञ्चिदभेदख्यापनार्थः । एवं पूर्वत्र परत्र च भावनीयम् ॥ इदानीं वेदनं सम्यक्त्वमाह
[ भा. १३०] जो चरमपोग्गले पुन, वेदेती वेयगं तयं बिंति । सिंचि अणादेसो, वेयगदिट्ठी खओवसमो ।।
वृ- 'यः' दर्शनसप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वो भविष्यति तस्मिन् समये वर्त्तमानः सम्यग्दर्शनस्य चरमान् पुद्गलान् वेदयते, तस्य 'तत्' चरणपुद्गलवेदनं वेदकसम्यक्त्वं पूर्वसूरयो ब्रुवते । 'केषाञ्चित् पुनः' बोटिकानामयमादेशः- 'वेदकदृष्टिः' वेदकसम्यग्दर्शनं क्षायोपशमिकं सम्यग्दर्शनम्, सोऽनादेशः, सम्यक्त्वापरिज्ञानादिति ॥ सम्प्रति क्षायिकदर्शनमाह[ भा. १३१] दंसणमोहे खीणे, खयदिट्ठी होइ निरवसेसम्मि ।
केसम्म मोहो, पडुच पुव्वं तु पन्नवणं ॥
,
वृ- दर्शनमोहे 'निरवशेषे' त्रिप्रकारेऽपि क्षीणे 'क्षयदृष्टिः क्षायिकं सम्यग्दर्शनं भवति । आह यद् मिध्यात्वदर्शनं तद् मोहः स्यात्, तस्य सम्यग्दर्शनमोहकत्वात्, यत् 'सम्यक्' सम्यग्दर्शनं तत् केन कारणेन मोहः ? सूरिराहपूर्वी प्रज्ञापनं प्रतीत्य । किमुक्तं भवति ? - यथा मदनकोद्रवाणां निर्मदनीकृतानामप्योदनः स एष मदनकोद्रवीदन इति व्यपदिश्यते, तेषां पूर्वं समदनत्वात् एवं तेऽपि सम्यक्त्वपुद्गलाः पूर्वं मिथ्यात्वपुद्गला आसीरन्, ते च दर्शनमोहकाः, अतः पूर्वभावप्रज्ञापनामधिकृत्य तेऽपि दर्शनमोह इति व्यपदिश्यन्ते । आह पूर्वमिदमुक्तम्- “आसञ्ज उ सामित्तं, लोइय लोउत्तरे भयणा" तत्र किं सर्वमेव द्वादशाङ्गं गणिपिटकं मिथ्यादृष्टिपरिगृहीतं भवति ? किं वा किञ्चिद् ? इत्यत आह
[भा. १३२] चोद्दस दस य अभिने, नियमा सम्मं तु सेसए भयणा ॥ मति-ओहिविवच्चासो, वि होति मिच्छे न उण सेसे ॥
वृ-यस्य चतुर्दश पूर्वाणि यावद् दश च पूर्वाणि 'अभिनानि' परिपूर्णानि सन्ति तस्मिन् नियमात् सम्यक्त्वम् । 'शेषे' किञ्चिदूनदशपूर्वरादी 'भजना' सम्यक्त्वं वा स्यान्मिथ्यात्वं वेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org