________________
पीठिका - [भा. १३२] किञ्च मतेरवधेश्च मिथ्यात्वे विपर्यासो भवति । तद्यथा-मतेर्मत्यज्ञानम्, अवधेश्च विभङ्गज्ञानमिति।श्रुतज्ञानस्य तुविपर्यासोदर्शितएव, “सेसए भयणा'' इति वचनात्। शेषके मनःपर्यवज्ञाने केवलज्ञाने च नास्ति विपर्यासः ।।अथ 'यदेवेदं भगवद्भिरुपदिष्टं तदेव तत्त्वम् युक्तियुक्तत्वाद् नेतरम्' इति सम्यग्दर्शनम् ज्ञानमप्येवंरूपमेवेतिकः सम्यग्दर्शन-ज्ञानयोःप्रतिविशेषः? उच्यते[भा.१३३] दंसणमोग्गह ईहा, नाणमवातो उ धारणा जह उ।
तह तत्तरुई सम्मं, रोइज्जइजेण तं नाणं॥ -यथातुल्येऽवबोधेदर्शन-ज्ञानयोर्भेदः-अवग्रह ईहादर्शनम्, सामान्यावबोधात्मकत्वात्। अपायोधारणाच ज्ञानम्, विशेषावबोधरूपत्वात; तथायस्तत्त्वानामवगमः सज्ञानम्, या त्यवगतेषु तत्त्वेषु रुचि-परमा श्रद्धा आत्मनः परिमामविशेषरूपासा सम्यग्दर्शनम्, येन तद्ज्ञानं 'रोच्यते' रुच्यात्मकं क्रियते । एतदेव स्पष्टयति[भा.१३४] सोच्चा व अभिसमेच्च व, तत्तरुई चेव होइ सम्मत्तं ।
तत्येव यजा विरुई, इतरत्थ रुई य मिच्छत्तं ।। सम्मत्तं गतं ।। वृ-श्रुत्वा केवलिप्रभृतीनामुपदेशम्अभिसमेत्यवा जातिस्मरणादिना या तत्त्वेषुरुचिर्भवति सा सम्यक्त्वम् । या तु 'तत्रैव तत्त्वेषु विरुचि 'इतरेषु' अतत्त्वेषु रुचि सा मिथ्यात्वमिति॥
वृ-उक्तं सम्यकश्रुतं मिथ्यात्वश्रुतंच । सम्प्रति साधनादिश्रुते आह[भा.१३५] अव्वोच्छित्तनयट्ठा, एयं तु अणाइयं जहा लोए।
वोच्छेयनया सादी, पप्प गईतो जहा जीवो॥ वृ- अव्यवच्छित्तिनयो नाम द्रव्यास्तिकनयः तस्य अर्थाद्-आदेशात् “एतत्' श्रुतज्ञानमनादिकम् उपलक्षणमेतत् अनिधनं च, यथा लोकस्त्रष्वपि कालेषुभावादनादिरनिधनश्च; तन्मतेन हिनसतः सर्वथा नाशः, नाऽप्येकान्तेनासत उत्पाद इत्यनाद्यनिधनता । व्यवच्छेदनयात्' पर्यायास्तिकमतेन पुनः सादि उपलक्षणमेतत् सपर्यवसितं च, यथा गतीः 'प्राप्य' अधिकृत्य जीवः; तथाहि-नैरयिको नैरयिकत्वेनोत्पद्यमानः सादि, तद्गतेस्तदानीमेव भावात; नैरयिकत्वेन तु विनश्यन् सपर्यवसितः, तस्य हि पर्यायाः प्रधानम्, ते चोत्पद्यन्ते विनश्यन्ति चेति सादिसपर्यवसितता ॥ अथवा अन्यथा साधनादित्वम्, तदेवाह[भा.१३६] दव्वाचउक्कं वा, पडुन सादी व होज्जऽनादी वा ।
दवम्मि एगपुरिसं, पडुच्च सादी सनिहणं च ॥ वृ-वाशब्दः प्रकारान्तरद्योतने । 'द्रव्यादिचतुष्कं द्रव्य-क्षेत्र-काल-भावान्प्रतीत्य श्रुतज्ञानं सादि वा स्यादनादि वा, उपलक्षणमेतत्, सपर्यवसितमपर्यवसितं च । तत्र द्रव्ये एकं पुरुषं प्रतीत्य सादि-निधनम् । कथम्? इति चेत्, उच्यते-यदा तप्रथमतया तदधीते तदा पूर्वमभावात् सादि । सपर्यवसानं पुनरेभिर्वक्ष्यमाणैः पञ्चभि स्थानैः ।। तान्येवाह[भा.१३७] पणगं खलु पडिवाए, तत्थेगो देवभावमासज्ज ।
मनुये रोग-पमाया, केवल-मिच्छत्तगमने वा ।। वृ-प्रतिपाते' प्रतिपातविषयं खलु पञ्चकम्, पञ्चभिः स्थानैः प्रतिपात इत्यर्थः । तत्रैकः प्रतिपातो देवभावमासाद्य वेदितव्यः । द्वितीयो मनुष्ये रोगात् । तृतीयो मनुष्यभवे एव प्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org