________________
पीठिका - (भा. १२४]
इव जायते महान् प्रमोद इति । “अहवा कम्मानुभावणं"ति अथवा तीर्थकरजन्माघधिकृत्य यः कर्मणां-सातवेदनीयप्रभृतीनांशुभानाम् अनुभावः-अनुभवनम् उदयेनवेदनंतेन सातमनुभवति। तथाहि-भगवतां तीर्थकृतां जन्मनि दीक्षायां ज्ञाने च तत्प्रभावतो नरकेऽप्यालोको जायते, नैरयिकाणामपि च शुभकर्मोदयप्रसरतः सातमिति ॥अथ मिध्यादृष्टिर्यदा सम्यक्त्वं सङ्क्रामति तदा स तत्समयं कति ज्ञानानि लभते? उच्यते- द्वे त्रीणि वा। तथा चाह[भा.१२५] विभंगी उ परिणमं, सम्मत्तं लहति मति-सुतोहीणि ।
तइभावम्मि मति-सुते, सुतंभं केइ उ भयंति ।। वृ-'विभङ्गी' विभङ्गज्ञानी सम्यक्त्वं परिणमयन् तत्समयं मति-श्रुता ऽवधीन् लभते । 'तदभावे' तस्य-विभङ्गस्याभावे मिथ्यादर्शनी सम्यक्त्वं परिणमयन् तत्कालं ‘मति-श्रुते' भतिज्ञानश्रुतज्ञाने लभते । केचित् पुनः श्रुतलाभं भजन्ति' विकल्पयन्ति, 'यस्याधीतं श्रुतं स लभते श्रुतज्ञानम्, इतरोनलभते' इत्याचक्षतइति भावः । तथाहि-ये स्वयम्भूरमणसमुद्रे मत्स्यास्ते प्रतिमासंस्थितान्मत्स्यान्उत्पलानिवा दृष्ट्वेहा-ऽपोहादिकुर्वन्तोजातिस्मरणः सम्यक्त्वमासादयन्ति आभनिबोधिकज्ञानं च, यत्तु श्रुतज्ञानं तन्नासादयन्ति, अनधीतश्रुतत्वात् । ते त्वधीतश्रुतास्ते त्रीण्यपि युगपदासादयन्ति ॥ एतद् दूषयितुमाह[भा.१२६] अन्नाण मती मिच्छे, जढम्मि मतिनाणतं जहा एइ।
एमेवय सुयलंभो, सुयअन्नाणे परिणयम्मि॥ वृ-यथा मिथात्वे त्यक्ते मति अज्ञानम्' अज्ञानस्वरूपामतिज्ञानतामेतिएवमेव श्रुताज्ञाने 'परिणते' अपगते श्रुतलाभो भवति । किञ्च ते प्रष्टव्याः-सम्यक्त्वलाभसमये श्रुताज्ञानमस्ति? किंवान?,तत्रयद्याद्यः पक्षस्तर्हि तस्याज्ञानित्वान्मिध्याष्टित्वप्रसङ्गः अथ नास्ति तर्हि श्रुताज्ञानमपि केवलमाभिनिबोधिकज्ञानी स्यात; न चैतदुपपन्नम्, श्रुतज्ञानमन्तरेण केवलस्याऽऽभिनिबोधिकज्ञानस्याभावात् “जत्थ मतिनाणं इत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मतिनाणं, दो वि एयाइं अन्नोन्नमनुयगाई" इति वचनादिति ।।
तदेवमुक्तमौपशमिकं सम्यक्त्वम्, अधुना सासादनसम्यक्त्वमाह[मा.१२७] उवसमसम्मा पडमाणतो उमिच्छत्तसंकमणकाले।
सासायणो छावलितो, भूमिमपत्तो व पवडतो।। वृ-'मिथ्यात्वसङ्क्रमणकाले' मिथ्यात्वसङ्क्रमणाभिमुख उपशमसम्यक्त्वात्प्रतिपतन् जघन्यत एकसामयिक उत्कर्षतः षडावलिकःसासादनोभवति । किंरूपः सः? इत्याह-भूमिमप्राप्त इव प्रपतन् । यथा मालात् प्रपतन् भूमिमप्राप्तोऽपान्तराले वर्त्तते तथोपशमसम्यक्त्वात् प्रपतन् मिथ्यात्वमद्याप्यप्राप्तोऽपान्तराले वर्तमानः सासादन इति ॥ अथ कथं स सम्यग्दृष्टि उपशमसम्यक्त्वतः प्रच्यवमानत्वात् ? उच्यते-च्यवनेऽप्यव्यक्तमुपशमगुणवेदनात् । अत्रैव दृष्टान्तमाह
[भा.१२८/१] आसादेउं व गुलं, ओहीरंतो न सुटुजा सुयति ।
वृ-यथा कश्चित् पुरुषो गुडमास्वाद्यतदनन्तरं 'ओहीरति' निद्रायते, न पुनः सुष्ठु अद्यापि स्वपिति, स च निद्रायमाणोऽव्यक्तमाखादितगुडमाधुर्यमनुभवति; एवमुपशमसम्यक्त्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org