________________
बृहत्कल्प-छेदसूत्रम् -१
तत्रोपशमश्रेणिगत औपशमिकसम्यग्दर्शनी देशप्रतिपातेन वा प्रतिपततिसर्वप्रतिपातेन वा । इतरोऽवश्यमेव सर्वप्रतिपातेन प्रतिपतति, मिथ्यात्वं गच्छतीत्यर्थः । तत्र दृष्टान्तमाह[भा.१२०] आलंबणमलहंती, जह सट्ठाणं न मुंचए इलिया।
एवं अकयतिपुंजो, मिच्छं चिय उवसमी एति ॥ कृइह या तृणादिषुमुखप्रदेशेन सर्वतोऽग्रेतनंस्थानंपरिभाव्यततोऽग्रेतनं स्थानं सङ्क्रामति अन्यथापश्चाद्वलतेसा इलिकायथा पुरत आलम्बनमलभमाना स्वस्थानंन मुञ्चति; एवमकृततिपुञ्जो गत्यन्तराभावाद् मिथ्यात्वमेवोपशमी याति । इयमत्र भावना-द्विविधस्तप्रथमतया सम्यग्दर्शनप्रतिपत्ता, अतिविशुद्धोमन्दविशुद्धश्चातत्रयोऽतिविशुद्धः क्षायोपशमिकं सम्यग्दर्शनमासादयति सम्यक्त्वपुञ्जोदयात्।यस्तु मन्दविशुद्धः सोऽपूर्वकरणमयूंढस्तीव्राध्यवसायाभावात् न मिथ्यात्वं त्रिपुञ्जीकर्तुमलम्, ततोऽनिवृत्तिकरणमुपगतोऽन्तरकरणं कृत्वा तत्र प्रविष्टस्तत्प्रथमतया
औपशमिकसम्यग्दर्शनमनुभवति, अन्तकरणं चान्तर्मुहूर्तप्रमाणम्, अतस्तदर्धाक्षयेऽन्येषां पुद्गलानामभावतो मिथ्यात्वमेति ।। एतदेवाह[भा.१२१] खीणम्मि उदिन्नम्मी, अनुइज्जते य सेसमिच्छत्ते ।
अंतोमुत्तकालं, उसमसम्मं लहइ जीवो॥ वृ-अनिवृत्तिकरणे प्रविष्टस्य यद् मिथ्यात्वं उदीर्णम्-उदयावलिकाप्रविष्टं तस्मिन् क्षीणे शेषेच मिथ्यात्वेऽपान्तरालेऽन्तरकरणतोऽनुदीयमानेऽन्तर्मुहूर्त कालमौपशमिकं सम्यक्त्वंजीवो लभते, मिथ्यात्वदर्शनवेदनाऽभावात् । सोऽपि कथम् इत्यत आह[भा.१२२] ऊसरदेसंदड्डेल्लयं च विज्झाइ वणदवो पप्प।
इय मिच्छस्स अनुदए, उवसमसम्मं मुणेयध्वं ॥ वृ- यथा वनदवः ‘ऊसरदेशं' तृणादिरहितं प्रदेशं दग्धं वा प्राप्य विध्यायति, 'इति' एवमन्तरकरणेप्रविष्टस्य मिथ्यात्वपुद्गलाभावात् 'मिथ्यात्वस्य' मिथ्यादर्शनस्य अनुदयः-अवेदनम् ततस्तस्मिन् सत्यौपशमिकं सम्यक्तं ज्ञातव्यम् । किञ्च[भा.१२३] जिम्हीभवंति उदया, कम्माणं अस्थि सुत्त उवदेसो ।
उववायादी सायं, जह नेरइया अनुभवंति ।। वृ-द्विविधेऽप्यौपशमिकसम्यग्दृष्टौ शेषाणामपि कर्मणामुदया जिह्मीभवन्ति । न चैतद्वचनमात्रम्, यतोऽस्त्येव 'सूत्रे' ग्रन्थान्तररूपे साक्षादुपदेशः, यथा-नैरयिका उपपातादौ सातमनुभवन्तीति । एनमेव दर्शयति[भा.१२४] उववाएण व सायं, नेरइओ देवकम्मुणा वा वि।
अज्झवसाणनिमित्तं अहवा कम्मानुभावेणं ।। वृ-नैयिक उपपातेन सातमनुभवति । किमुक्तं भवति ? -उपपातकाले सातं वेदयते, तदानींहि न तस्य क्षेत्रजा वेदनान परस्परोदीरितानापि परमाधार्मिकोदीरितेति।अथवा देवकर्मणा' देवक्रियया सातमनुभवति, देवो हि कश्चिन्महर्द्धिकः पूर्वभवस्नेहतस्तत्र गत्वा कस्यापि कञ्चिकालं वेदनामुपशमयति, ततः सातंवेदयते।अथवा अध्यवसाननिमित्तं' तथाविधशुभाध्यवसायप्रवृत्तिनिमित्तं सातमासादयति, यथा सम्यग्दर्शनं लभमानः, सम्यग्दर्शनलाभे हि जात्यन्धस्य चक्षुभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org