________________
३८५
उद्देशक : १, मूलं-६, [भा. १५०७] प्रथमायांकोऽपिव्याघातस्ततो द्वितीयामपिप्रत्युपेक्षमाणाः शुद्धाः । एवमुत्तरास्वपिदिक्षुभावनीयम्। तथा तृतीयस्यां "उवहिमाइ"त्ति उपधि-वस्त्र-पात्रादिकः स्तेनैरपहियते, तस्पिश्चापहृतेतृणग्रहणाऽग्निसेवनादयो दोषाः । चतुा 'स्वाध्यायं न कुर्वन्ति' कर्तव्यो न भवतीत्यर्थः ।। [भा.१५०८] पंचमियाए असंखड, छट्ठीए गणस्स भेयणंजाण ।
सत्तमिया गेलनं, मरणं पुण अट्ठमीए उ ।। वृ-पञ्चम्याम् 'असङ्खडं कलहः साधूनां भवति । षष्ठयां 'गणस्य' गच्छस्य भेदनं द्वैधीभवनं जानीहि । सप्तमी 'ग्लान्यं ग्लानत्वंसाधूनांजनयति । अष्टम्यांपुनर्मरणमपरस्य साधोरुपजायते।। अमुमेव गाथाद्वयोक्तमर्थमेकगाथया प्रतिपादयति__ [भा.१५०९] समाही य भत्त-पाने, उवगरणे तुमंतुमा य कलहो उ ।
भेदो गेलनं वा, चरिमा पुन कड्डए अन्नं ।। वृ-प्रतमायां भक्त-पानलाभेन साधूनां समाधिराविर्भवति। द्वितीयायां भक्त-पानं न लभन्ते। तृतीयायामुपकरणमपहियते । चतुथ्यार्मेकः साधुरपरं भणति-त्वमेवमपराधं कृतवान्, अपरो ब्रूते-न मया अपराद्धं त्वमेवेदं विनाशितवानित्येवं तुमंतुमा भवति, तस्याः करणेन स्वाध्यायो न भवतीति भावः । पञ्चम्यां 'कलहः' मण्डनम् । षष्ठयां 'भेदः' गच्छस्य द्वैधीभावः । सप्तम्यां ग्लानत्वम् । 'चरमा' अष्टमी पुनरन्यं साधुं 'कर्षति' पञ्चत्वं प्रापयतीत्यर्थः ।। [भा.१५१०] एक्कक्कम्मि उठाणे, चउरो मासा हवंतऽनुग्घाया।
आणाइणो अ दोसा, विराधना जा जहिं भणिया ।। वृ- एकैकस्मिन् स्थाने यथोक्तक्रममन्तरेण दक्षिणादीनां दिशां प्रत्युपेक्षणे चत्वारो मासा अनुद्धाताः प्रायश्चित्तं भवन्ति, आज्ञादयश्च दोषाः, 'विराधना' भक्त-पानालाभोपधिहरणादिका या यत्र भणिता सा तत्र द्रष्टव्या ।। एतेन विधिना यदा क्षेत्रं प्रत्युपेक्षितं भवति तदा किमपरं भवति? इत्याह[भा.१५११] पडिलेहियं च खेत्तं, अह य अहालंदियाण आगमनं ।
नथि उवस्सयवालो, सव्वेहि विहोइगंतव्वं ।। दृ-एकतोगच्छवासिभि क्षेत्रं प्रत्युपेक्षितं भवति, अथात्रान्तरे यथालन्दिकानामागमनं भवति, तेहि सूत्रार्थपौरुष्यावहापयन्तस्तृतीयपौरुष्यांविहारं कुर्वन्तोग्छवासिभि क्षेत्रेप्रत्युपेक्षितेसमायान्ति, तेषां च नास्ति तत्र क्षेत्रे स्थापनयोग्य उपाश्रयपालः, जनद्वयस्यैवागमनादिति कृत्वा सर्वैरपि भवति गन्तव्यम् ।। अथ ते यथालन्दिकाः कथं क्षेत्रं प्रत्युपेक्षन्ते ? उच्यते[भा.१५१२] पुच्छिय रुइयं खेत्तं, गच्छे पडिबद्ध बाहि पेहिति ।
जंतेसिं पाउग्गं, खेत्तविभागेय पूरिति ॥ वृ-ये गच्छप्रतिबद्धा यथालन्दिकास्तैर्गच्छवासिनः पृष्टाः-आर्या ! अभिरूचितं क्षेत्रं न वा? इति। ततो गच्छवासिनः प्राहुः-अभिरुचितम्।ततो यथालन्दिका गच्छवासिप्रत्युपेक्षितस्य क्षेत्रस्य "बाहिति सक्रोशयोजना बहिः क्षेत्रं प्रत्युपेक्षन्ते । कथम्? इत्याह-यत् 'तेषां यथालन्दिकानां 'प्रायोग्य' कल्पनीयमलेपकृतंभक्त-पानंपरिकर्मरहिताच वसतिस्तदेव गृह्णन्ति, 'क्षेत्रविभागाश्च'
1825]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org