SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ जइ वसइ जाणओतहि, आवज्जइ मासियं लहुगं॥ कृ-'सत्कारः' वन्दना-ऽभ्युत्थानादि सम्मानः विश्रामणादि 'भिक्षाग्रहणम् उपविष्टस्य भिक्षाया आनयनम्, एतत् सर्वमपिप्राधूर्णके आगते सति कर्तव्यम्। यदि वसतिर्येषां तेषां वा परिमितानां साधूनां दत्ता तदा यावन्तः प्राघुणकाः समायातास्तावतो वास्तव्यानन्यत्र विसर्यप्राधुणकाः स्थाप्यन्ते। अथ नामग्राहं गृहीत्वा नियमितानामेव साधूनांसा दत्ता ततः प्राघुणकस्य वसतिस्वरूपं निवेद्यते। निवेदितेच यदि 'ज्ञोऽपि वसतिस्वरूपंजानानोऽपितत्र वसति तदा आपद्यते मासिकं लघुकम् ।। ततः[भा.१५०४] किइकम्म भिक्खगहणे, कयम्मि जाणाविओ बहि वसइ। हिय-नट्टेसुंसंका, सुण्हा उभाम वोच्छेदो। वृ- 'कृतिकर्मणि' विश्रामणादौ भिक्षाग्रहणे च कृते सति वसतिस्वरूपं ज्ञापितः सन् रात्रौ बहिर्वसति।यदि ज्ञापितोऽपि सन् बहिर्न व्रजति तदा सागारिक्सय केनचिच्चौरादिना हृते नष्टेन एवमेवाश्यमाने कस्मिश्चिद् वस्तुनि शङ्का भवेत्-नूनं यदद्यामुकं वस्तु न दृश्यते तदेतेषां यः प्राधुणको रात्रावुषित्वा प्रतिगतः तेन हृतं भविष्यति । 'स्नुषा वा' वधूरात्रावुभ्रामकेण सह गता भवेत् तत्रापि यदि प्राधुणकस्य शङ्का सागारिकः करोति तदा तद्रव्या-ऽन्यद्रव्याणां व्यवच्छेदो भवेत् ।। एवं वसतौ लब्धायां किं विधियम् ? इत्याह[भा.१५०५] पडिलेहियं च खेत्तं, थंडिलपडिलेहऽमंगले पुच्छा । गामस्स व नगरस्स व, सियाणकरणं पढम वत्थु ।। वृ- यदा क्षेत्रं सम्यक् प्रत्युपेक्षितं भवति तदा 'महास्थण्डिलं' शबपरिष्ठापनभूमिलक्षणं प्रत्युपेक्षणीयम् । “अमंगले च्छ"त्ति नोदकः पृच्छति-भगवन् ! यूयं तिष्ठन्त एव किमेवममङ्गलं कुरुथ ? । सूरिराह-ग्रामस्य वा नगरस्य वा “सियाणकरणं" स्मशानस्थापनायोग्यं 'प्रथमम्' आद्यं वास्तु प्रत्युपेक्ष्यत इति वाक्यशेषः । इयमत्र भावना-ग्राम-नगरादीनां तत्प्रधमतया निवेश्यमानानां वास्तुविद्यानुसारेण प्रथमं स्मशानवास्तु निरूप्य ततः शेषाणि देवकुलसभासौधादिवास्तूनि निरूप्यन्ते, लोके तथाष्टत्वात्, न च तदमाङ्गलिकम्, एवमत्रापिमहास्थण्डिलं प्रथमं प्रत्युपेक्ष्यमाणमस्माकं नामाङ्गलिकं भवतीति। तच्च कस्यां दिशि प्रत्युपेक्षणीयम्? उच्यते[भा.१५०६]दिस अवरदक्खिणा दक्खिणा य अवरा य दक्खिणापुव्वा । अवरुत्तरा य पुव्वा, उत्तर पुव्युत्तरा चेव ॥ वृ-प्रथमतो महास्थण्डिलप्रत्युपेक्षणविषया अपरदक्षिणा दिक् । अथ तस्यां नदी-क्षेत्राऽऽरामादिव्या_तःततोदक्षिणा। तस्या अभावेअपरा। तदलाभेदक्षिणपूर्वा । तदसत्त्वेअपरोत्तरा। तस्या अप्यप्राप्ती पूर्वा । तस्या असम्भवे उत्तरा । उत्तरस्या अभावे पूर्वोत्तरा दिग् मन्तव्या ।। अथासामेव गुण-दोषविचारणामाह[भा.१५०७] पउरन्न-पान पढमा, बीयाए भत्त-पान न लहंति । तइयाइ उवहिमाई, चउत्थी सज्झाय न करिति ।। वृ-'प्रथमा' अपरदक्षिणा दिक्प्रचुरान्न-पाना भवति, तस्यां प्रत्युपेक्ष्यमाणायां प्रचुरमन्न-पानं प्राप्यत इत्यर्थः । यदि तस्यां सत्यां द्वितीयां' दक्षिणां प्रत्युपेक्षन्ते ततो भक्त-पानं न लभन्ते । अथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy