________________
उद्देशक : १, मूलं - ६, [ भा. १४९९ ]
३८३
भाजनोपढौकना ऽवगाहिम- सूप - नानाविधव्यञ्जनादीन्यपि दीयन्ते; एवं भवताऽपि वसतिं प्रयच्छता सर्वमपि प्रायोग्यं दत्तमेव भवति, परं तथापि वयं भवन्तं भूयोऽपि तृतीयव्रतभावनामनुवर्त्तयन्तोऽनुज्ञापयामः । एवमुक्ते स सर्वमपि प्रायोग्यमनुजानीयात् ततो यत्र यद् उच्चारादिव्युत्सर्जनमनुज्ञातं तत् तत्र विधेयम् ॥ यत आह
[ भा. १५०० ]
उच्चारे पासवणे, लाउअनिल्लेवणे य अच्छणेए । करणं तु अणुन्ना, अनुत्राए भवे लहुओ ॥
वृ- उच्चारस्य प्रश्रवणस्य 'अलाबुनिर्लेपनस्य' पात्रप्रक्षालनस्य “अच्छणए” त्ति स्वाध्यायाद्यर्थमवस्थानस्य गाथायां षष्ठ्यर्थे सप्तमी 'करणं' समाचरणं शय्यातरेणानुज्ञाते प्रदेशे कर्त्तव्यम् । अथाननुज्ञाते अवकाशे उच्चारादिकं करोति तदा लघुको मास इति ॥ गतं भोजनद्वारम् । अथ कियच्चिरं कालमिति द्वारम् - यदि शय्यातरः प्रश्नयति कियन्तं कालं यूयं स्थास्यथ ? ' ततो वक्तव्यम्
[भा. १५०१] जाव गुरूण य तुम य, केवइया तत्थ सागरेनुवमा । has कालेनेहिह, सागार ठवंति अन्ने वि ॥
,
वृ- यावद् गुरूणां युष्माकं च प्रतिभाति तावदवस्थास्यामः परं निव्यार्घाते मासमेकं व्याघाते तु हीनमधिकं वा वयमेकत्र तिष्ठामः । अथ 'मासमेव स्थास्यामः' इति निर्द्धारितं भणति ततो मासलघु । अथासौ प्रश्नयेत् 'कियन्तो यूयं तिष्ठथ ?' ततो वक्तव्यम् - "सागरेनुवम "त्ति सागरः समुद्रस्तेनोपमा यथा समुद्रः कदाचित प्रसरति कदाचिच्चापसरति, एवमाचार्या अपि कदाचिद् दीक्षामुपसम्पदं वा प्रतिपद्यमानैः साधुभि परिवारतः प्रसर्पन्ति कदाचित् तेष्वेवान्यत्र गतेष्वपसर्पन्ति, अत इयन्त इति सङ्ख्यानं कर्तुं न शक्यते । यस्तु 'एतावन्तो वयम्' इति निश्चितं ब्रूते तस्य मासलघु । अथासौ पृच्छति कियता कालेन 'एष्यथ' आगमिष्यथ ? ततः 'साकार' सविकल्पं वचनं 'स्थापयन्ति' ब्रुवते इत्यर्थः । यथा - अन्येऽपि क्षेत्रप्रत्युपेक्षका अपरासु दिक्षु गताः सन्ति ततस्तैर्विवेदिते यदा गुरूणां विचारे समेष्यति तदा व्याघातभावे इयत्सु दिवसेषु गतेषु व्याघाते तु हीने अधिके वा काले वयमेष्याम इति । यः पुनः 'इयता कालेनागमिष्यामः' इति ब्रवीति तस्य मासलघु ॥
[भा. १५०२]
पुव्वद्दिट्ठेविच्छइ, अहव भणिज्जा हवंतु एवइआ । तत्थ न कप्पइ वासो, असई खेत्तस्सऽणुन्नाओ ॥
वृ- अथासौ 'पूर्वष्टान्' यैः प्राग् मासकल्पो वर्षावासो वा कृत आसीत् तानेवेच्छति नान्यान्, भणतिच-ये साधवो मया दृष्टपूर्वास्तेषामहं शीलसमाचारं सर्वमपि जानामि अतस्त एवेह समानेतव्या न शेषाः; अथवा भणेत्ये वा ते वा साधवो भवन्तु परमेतावन्त एवात्र तिष्ठन्तु तत्र किं कर्तव्यम् ? इत्याह-‘तत्र' एवं शय्यातरेण निर्द्धारिते सति 'न कल्पते वासः' न युज्यते तस्यां वसताववस्थातुमिति भावः । अथ नास्त्यपरं मासकल्पप्रायोग्यं क्षेत्रं तत इतरस्या वसतेरलाभे तस्यामेव वसतौ वासोऽनुज्ञातः ॥
तत्र च वसतां यदि प्राधूर्णकः समागच्छति ततः को विधि ? इत्याह
[ भा. १५०३ ] सक्कारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org