________________
३७५
उद्देशक : १, मूलं-६, [भा. १४५९] महासमूहात्मकंतद्यूथं “तरुण"त्तिभावप्रधानत्वा निर्देशस्यतारुण्येन-यौवनवशेन योरभसःचापलं गौरिगीतश्रवणादिविषयं तेन "पोतितं"ति देशीवचनत्वादितस्ततः स्पन्दितं 'मदगुल्मितं मदेन चूर्णितचेतनं सत् सुखं हन्तुं' विनाशयितुम्, सुखेन तद्व्यापाधत इति भावः । उक्तञ्च
___अतिरागप्रणीतान्यतिरभसकृतानि च ।
तापयन्ति नरं पश्चात, क्रोधाध्यवसितानि च ।। यतश्चैवमतः सर्व एव मिलिताः सन्तः प्रष्टव्याः ।। अत्रैव प्रायश्चित्तमाह[भा.१४६०] आयरियअवाहरणे, मासो वाहित्तऽनागमे लहुओ।
वाहित्ताण य पुच्छा, जाणगसिढे तओ गमनं ॥ वृ-आचार्या गणं न व्याहरन्ति-नामन्त्रयन्ते मासलघु । शिष्य-प्रतीच्छक-तरुण-स्थविराणामन्यतमान् विशेष्यामन्त्रयन्ते तदाऽपि मासलघु । तेऽपि च व्याहृताः सन्तो यदि नागच्छन्ति तदाऽपि मासलघु । व्याहृत्य च सर्वमपि गणं पृच्छा कर्त्तव्या, यथा-तरत् क्षेत्रं प्रत्युपेक्षणीयम् ? । ततो ज्ञायकेन-क्षेत्रस्वरूपेशेन शिष्टे-कथिते सति गमनं क्षेत्रप्रत्युपेक्षक कर्तव्यम् ।।
आमन्त्रणस्यैव विधिमाह[भा.१४६१] थुइमंगलमामंतण, नागच्छइ जो व पुच्छिओ न कहे।
तस्सुवरित दोसा, तम्हा मिलिएसु पुच्छिज्जा ।। कृ-आवश्यकेसमापिते स्तुतिमङ्गलं कृत्वा तिःस्तुतीर्दत्त्वेतिभावः । सर्वेषामपिसाधूनामामन्त्रणं कर्तव्यम् । कृते चामन्त्रणे यः कश्चिद् नाऽऽगच्छति आगतो वा क्षेत्रस्वरूपंपृष्टः सन्न कथयति तदा मासलघु, तथा तस्योपरि 'ते दोषाः' स्तेन-श्वापदादयो भवन्ति ये तत्र गतानां भविष्यन्ति । तस्माद् मिलितेषु सर्वेष्वपि पृच्छेत्, उपलक्षणत्वात् सर्वेऽपिच कथयेयुः ।।
अत्रैव मतान्तरमुपन्यस्य दूषयन्नाह[भा.१४६२] केई भणंति पुट्विं, पडिलेहिय एवमेव गंतव्वं ।
तंतुन जुन्इ वसहीफेडण आगंतु पडिनीए ।। वृ-केचिद् भणन्ति-'पूर्व प्राक् प्रत्युपेक्षिते क्षेत्रे एवमेव गन्तव्यम् न पुनस्तत्र क्षेत्रप्रत्युपेक्षकाः प्रेषणीया इति, तत तु 'नयुज्यते न घटते। कुतः? इत्याह-वसतेः कदाचित् स्फेटनं कृतं भवेत्, आगन्तुको वा प्रत्यनीकस्तत्र सम्भवेत्, अःपूर्वष्टमपि क्षेत्रं प्रत्युपेक्षणीयम् ।।
अथ कथं प्रष्टव्यम् ? इत्याह[भा.१४६३] कयरी दिसा पसत्था, अमुगी सव्वेसि अनुमए गमनं ।
चउदिसि ति दु एक्कं वा, सत्तग पनगे तिगजहन्ने । घृ-यदा सर्वेऽपिसाधवोमिलिता भवन्तितदा गुरवोब्रुवते-आर्या! पूर्णोऽयमस्माकंमासकल्पः, क्षेत्रान्तरं सम्प्रति प्रत्युपेक्षणीयम्, अतः कतरा दिक् साम्प्रतं प्रशस्ता ? । ते ब्रुवते- 'अमुका' पूर्वादीनामन्यतमा । एवं सर्वेषां यद्यसौ 'अनुमता' अभिरुचिता तदा गमनं कर्तव्यम् । प्रथम चतसृष्वपि दिक्षु, अथ चतुर्था कोऽप्यशिवायुपद्रवस्ततस्तिसृषु दिक्षु, तदभावे द्वयोर्दिशोः, तदसत्येकस्यां दिशि गच्छन्ति । ते चैकैकस्यां दिश्युत्कर्षतः सप्त व्रजन्ति, सप्तानामभावे पञ्च, जघन्येन तुत्रयः साधवो नियमाद्गच्छन्ति ।।तत्रचये आभिग्रहिकाः-क्षेत्रप्रत्युपेक्षणार्थं प्रतिपन्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org