SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७४ बृहत्कल्प-छेदसूत्रम् -१-१/६ भवन्ति ॥ तत्र स्थाने प्राप्तानां पुनरिमे दोषाः[भा.१४५६] पञ्चंत तावसीओ, सावय दुभिक्ख तेनपउराई। नियग पउझुट्टाणे, फेणया हरियपत्ती य॥ वृ-सग्रामः 'प्रत्यन्तः' म्लेच्छाधुपद्रवोपेतः, तापस्यो वातत्रप्रचुरमोहाः संयमात् परिभ्रंशयन्ति, श्वापदभयं दुर्भिक्षभयं स्तेनप्रघुराणि, च तानि क्षेत्राणि, शैक्षस्यान्यस्य वा कस्यापि साधोस्तत्र 'निजकाः' स्वजनास्ते तमुखवाजयन्ति, 'प्रद्विष्टो वा' प्रत्यनीकस्तत्र साधूनुपद्रवति, उस्थितो वा स ग्रामः, स्फेटिता वा सा वसति, “स्फेटितानि वा' विपरिणामितानि तानि कुलानि येषां निश्रया तत्र गम्यते।आहचचूर्णिकृत्-फेडियाणि वाताणि कुलाणिजेसिंनिस्साए गम्मइत्ति । “हरियपत्ती य"ति हरितपत्रशाकं बाहुल्येन तत्र भक्ष्यते । अथवा तत्र देशे केषुचिद् गृहेषु राज्ञो दण्डं दत्त्वा देवतोपहारार्थमागन्तुकः पुरुषो मार्यते, गृहस्य चोपरिष्टादार्द्रा वृक्षशाखा चिह्न क्रियते, एतेन चिह्नास्माभिराख्यातमेव भवति, अतो मारणेऽप्यस्माकंन दोष इति । यत एते दोषा । अतः सर्वमपि गणमामन्त्रय क्षेत्रप्रत्युपेक्षकाः प्रेषणीयाः॥ यदि पुनर्न सर्वमपि गणमामन्त्रयते तत एते दोषाः[भा.१४५७] सीसे जइ आमंते, पडिच्छगा तेन बाहिरं भावं। जइ इअरे तो सीसा, ते वि समत्तम्मि गच्छंति ।। वृ-यद्याचार्य शिष्यान् केवलानामन्त्रयति ‘कस्यां दिशि क्षेत्रप्रत्युपेक्षकाः प्रेषयितुमुचिताः?' इतिततो मासलघु, आज्ञादयश्च दोषाः । प्रतीच्छकाश्च तेन’ कारणेन बाह्यं भावं गच्छेयुः-अहो! स्वशिष्याएवामीषांसर्वकार्येषुप्रमाणन वयमिति, अतोराग-द्वेषदूषितत्वात्को नामामीषामुपकण्ठे स्थास्यति? इति ।यदि ‘इतरान्' प्रतीच्छकानामन्त्रयते ततः शिष्या बहिविंगच्छेयुः-प्रतीच्छका एव तावदमीषां प्रसादपात्रम्, अतः किमर्थं वयमेव वैयावृत्त्यादिप्रयासं कुर्म : ? इति । 'तेऽपि' प्रतीच्छकाः समाप्ते सूत्रार्थग्रहणे स्वगच्छं गच्छन्ति । ततश्चाचार्य उभयैरपि प्रतीच्छक-शिष्यैः परित्यक्तः सन्नेकाकी सायेत॥ [भा.१४५८] तरुणा बाहिरभावं, न य पडिलेहोवहिं न किइकमं । मूलगपत्तसरिसगा, परिभूया वच्छिमो थेरा ।। वृ-अथ वृद्धानामन्त्रयते ततस्तरुणा बहिर्भावंमन्यन्ते, 'नच' नैव गुरूणां क्षेत्रप्रत्युपेक्षकाणां वा उपकरणं प्रत्युपेक्षन्ते, न वा स्थविरादीनामुपधिंवहन्ति, नचकृतिकर्म-भक्तपानानयनविश्रामणादिकं कुर्वते, 'वृद्धा एव सर्वमपि विधास्यन्ति, केऽत्र वयमस्थापितमहत्तराः ?' इति । अथैतद्दोषभयात् तरुणानेव पृच्छति ततः स्थविराश्चिन्तयेयुः- मौलकपत्रसदृशाः' मौलम्-आद्यं यत्पर्ण परिपक्वप्रायं यदि वामूलकः-कन्दविशेषस्तस्यत् पत्रं निस्सारं तत्सध्शा वयम् अत एव च परिभूताः' परिभवपदमायाता इत्यतो व्रजामो वयं गणान्तरमिति । अथाकिञ्चित्करत्वात् स्थविराणामनामन्त्रणेऽपि का नाम हानि सम्पद्यते? उच्यते[भा.१४५९] जुनमएहि विहूणं, जं जूहं होइ सुटु वि महल्लं । तं तरुणरहसपोइअ, मयगुम्मइअं सुहं हंतुं ॥ वृ-जीर्णा-परिणतवयसो ये मृगास्तैर्विहीनं यद् यूथं भवति ‘सुष्ठवपि' अतिशयेन ‘महत्' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy