________________
उद्देशक : १, मूलं-६, [भा. १४१४ ]
३६५
वृ- कस्मिन् क्षेत्रेऽमी भगवन्तो भवन्ति ? १ एवं काले २ चारित्रे ३ तीर्थे ४ पर्याये ५ आगमे ६ वेदे ७ कल्पे ८ लिङ्गे ९ लेश्यायां १० ध्याने ११ गणनायां १२ अभिग्रहाश्चामीषां भवन्ति न वा ? १३ प्रव्राजनायां १४ मुण्डापनायां च कीध्शी स्थिति १५ मनसा आपने अपराधे "से" तस्य 'अनुद्धाताः ' चतुर्गुरवः प्रायश्चित्तं १६ कारणं १७ निष्प्रतिकर्म १८ भक्तं पन्थाश्च तृतीयस्यां पौरुष्याम् १९ इति चतुर्गुरवः प्रायश्चित्तं १६ कारणं १७ निष्प्रतिकर्म १८ भक्तं पन्थाश्च तृतीयस्यां पौरुष्याम् १९ इति द्वारगाथाद्वयसमासार्थः ॥ व्यासार्थं प्रतिद्वारमभिधित्सुः प्रथमतः क्षेत्रद्वारमङ्गीकृत्याह[ भा. १४१५ ] जम्मण-संतीभावेसु होज सव्वासु कम्मभूमीसु । साहरणे पुन भइयं, कम्मे व अकम्मभूमे वा ।।
वृ- क्षेत्रविषया द्विधा मार्गणा-जन्मतः सद्भावतश्च । जन्मतो यत्र क्षेत्रेऽयं प्रथमत उत्पद्यते, सद्भावतस्तु यत्र जिनकल्पं प्रतिपद्यते प्रतिपन्नो वाऽस्ति तत्र जन्म- सद्भावयोरुभयोरप्ययं 'सर्वासु कर्मभूमीषु' भरतपञ्चकैरावतपञ्चक-विदेहपञ्चकलक्षणासु भवेत् । 'संहरणे' देवादिना अन्यत्र नयने पुनः 'भाज्यं' भजनीयम्, कर्मभूमौ वा भवेद् अकर्मभूमौ वा । एतच सद्भावमाश्रित्योक्तम् । जन्मतस्तु कर्मभूमावेवायं भवतीति १ ।।
उक्तं क्षेत्रद्वारम् । अथ कालद्वारमाह[ भा. १४१६]
ओसप्पिणीइ दोसुं, जम्मणतो तीसु संतिभावेणं । उस्सप्पिणिविवरीया, जम्मणतो संतिभावे य ॥
दृ- अवसर्पिण्यां जन्मतः 'द्वयोः' सुषमदुःषमा दुःषमसुषमयोस्तृतीयचतुर्थारकयोर्भवेत्; सद्भावस्तु 'त्रिषु' तृतीय- चतुर्थ पञ्चमारकेषु, दुःषमसुषमाया अन्ते जातो दुःषमायां जिनकल्पं प्रतिपद्यते इति कृत्वा । उत्सर्पिणी विरीता जन्मतः सद्भावतश्च । इदमुक्तं भवति उत्सर्पिण्यां दुःषमा- दुःषमसुषमा- सुषमदुः षमासु तिसृषु समासु जन्माऽश्नुते, दुःषमसुषमा- सुषमदुःषमयोस्तु द्वयोरमुं कल्पं प्रतिपद्यते, दुःषमायां तीर्थं नास्तीति कृत्वा तस्यां जातस्यापि दुःषसुषमायामेव कल्पप्रतिपत्तिरिति ॥
[ भा. १४१७ ] नोसप्पिणिउस्सप्पे, भवंति पत्निभागतो चउत्थम्मि । काले परिभागेसु य, साहरणे होंति सव्वेसु ।।
वृ-नो अवसर्पिण्युत्सर्पिणीरूपे अवस्थितकाले चत्वारः प्रतिभागाः, तद्यथा- सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुःषमाप्रतिभागः दुषमसुषमाप्रतिभागश्चेति । तत्राद्यो देवकुरुत्रकुरुषु, द्वितीयो हरिवर्ष रम्यकवर्यो, तृतीयौ हैमवतैरण्यवतयोः, चतुर्थस्तु महाविदेहेषु । तत्र चतुर्थे प्रतिभागे जन्मत सद्भावतश्चामी भवन्ति, नाद्येषु त्रिषु प्रतिभागेषु । “काले 'त्ति यो महाविदेहजो जिनकल्पिकः स सुषमसुषमादिषु षट्स्वपि कालेषु संहरणतो भवेत् । “पलिभागेसु अ"त्ति भरतैरावत- महाविदेहेषु सम्भूताः संहरणतः सर्वेष्वपि प्रतिभागेषु देवकुर्वादिसम्बन्धिषु सम्भवन्तीति २ ॥ चारित्रद्वारमाह
[ भा. १४१८ ] पढम वा बीये वा, पडिवज्जइ संजमम्मि जिनकप्पं । पुव्वपडिवन्नओ पुन, अन्नयरे संजमे होज्जा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org