________________
३६६
बृहत्कल्प-छेदसूत्रम् -१-१/६
वृ-'प्रथमेवा' सामायिकाख्ये द्वितीये वा' छेदोपस्थापनीयनाम्नि संयमेवर्तमानो जिनकल्पं प्रतिपद्यते । तत्र मध्यमतीर्थकर-विदेहतीर्थकृत्तीर्थवर्तीप्रथमे संयमे, पूर्व-पश्चिमतीर्थकरतीर्थवर्ती तुद्वितीयेइतिमन्तव्यम् । पूर्वप्रतिपत्रः पुनरसौ जिनकल्पिकः 'अन्यतरस्मिन् सूक्ष्मसम्परायादावपि संयमे उपशमश्रेण्यां वर्तमानो भवेत् ३ ।। तीर्थ-पर्यायद्वारद्वयमाह[भा.१४१९] नियमा होइ सतित्थे, गिहिपरियाए जहन्न गुणतीसा।
जइपरियाए वीसा, दोसु वि उक्कोस देसूना ।। वृ.स जिनकल्पिको नियमात् तीर्थे भवति, न पुनर्व्यवच्छिन्नेऽनुत्पन्ने वा तीर्थे ४ । पर्यायो द्विधा-गृहिपर्यायो यतिपर्यायश्च।तत्र गृहिपर्यायोजन्मपर्याय इत्येकोऽर्थ, तबजघन्यत एकोनत्रिंशद् वर्षाणि । यतिपर्याय तुजघन्यतो विंशतिवर्षाणि ।उत्कर्षतस्तु 'द्वयोरपि' गृहिपर्याययतिपर्याययोदेशोनां पूर्वकोटीं यदा प्राप्तो भवति तदा जिनकल्पं प्रतिपद्यते ५॥
अथाऽऽगम-वेदद्वारे आह[भा.१४२०) न करिति आगमंते, इत्थीवजो उ वेदो इक्वतरो।
पुव्वपडिवन्नओ पुण, होज सवेओ अवेओ वा ॥ वृ- न कुर्वन्ति 'ते' जिनकल्पिकाः 'आगमम्' अपूर्वश्रुताध्ययनम्, पूर्वाधीतं तु श्रुतं विश्रोतसिकाक्षयहेतोरेकाग्रमनाः सम्यगनुस्मरति ६।वेदमङ्गीकृत्य-प्रतिपत्तिकाले स्त्रीवर्जएकतरः' पुरुषवेदो नपुंसकवेदो वा असंक्लिष्टस्तस्य भवेत । पूर्वप्रतिपन्नः पुनः सवेदोऽवेदो वा भवेत् । तत्र जिनकल्पिकल्पिकस्य तद्भवेकेवलोत्पत्तिप्रतिषेधादुपशमश्रेण्यां वेदे उपशमितेसत्यवेदत्वम्। तदुक्तम्
उवसमसेढीए खलु, वेदे उवसामियम्मि उ अवेदो।
न उखविए तज्जम्मे, केवलपडिसेहभावाओ ।। शेषकालं तु सवेद इति७॥ अथ कल्प-लिङ्ग-लेश्याद्वाराण्याह[भा.१४२१] ठियमट्ठियम्मि कप्पे, लिंगे भयणा उ दव्वलिंगेणं ।
तिहि सुद्धाहि पढमया, अपढमया होज सव्वासु॥ वृ-स्थितकल्पे-प्रथमा-ऽन्तिमजिनसत्के अस्थितकल्पे च-मध्यमजिन-महाविदेहजिनसत्के अमी भवेयुः ८।लिङ्गे चिन्त्यमाने भजनातुद्रव्यलिङ्गेन कार्या ।तुशब्दो विशेषणे। किं विशिनष्टि? प्रथमतः प्रतिपद्यमानो द्रव्य-भावलिङ्गयुक्त एव भवति । ऊर्द्धवमपि भावलिङ्गं नियमाद्भवति, द्रव्यलिङ्गं तुजीर्णत्वात् चौरादिभिरपहृतत्वाद्वा कदाचिन्न भवत्यपि । उक्तञ्च
इयरंतु जिन्नभावाइएहि सययं न होइ वि कयाइ ।
नयतेन विना वि तहा, जायइ से भावपरिहाणी ।। 'इतरद्' इति द्रव्यलिङ्गम् ९ । लेश्या अङ्गीकृत्य 'तिसृषु प्रशस्तलेश्यासु' तैजस्यादिकासु 'प्रथमकाः' प्रतिपद्यमानका भवन्ति । अप्रथमकास्तु' पूर्वप्रतिपन्नाः सर्वास्वपि' शुद्धा-ऽशुद्धासु लेश्यासु भवेयुः, केवलमशुद्धासु वर्तमानो नात्यन्तसंक्लिष्टासु वर्तते न च भूयांसं कालमिति १०॥ध्यान-गणनाद्वारद्वयमाह
[भा.१४२२] धम्मेण उ पडिवाइ, इअरेसु वि होज्ज इत्थ झाणेसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org