________________
३६४
बृहत्कल्प-छेदसूत्रम् - १-१/६ वृ- 'एवमेव ' भक्तवद् अवगाहिममपि यत् तद्दिवस एवात्मार्थीकृतं द् द्वितीये दिवसे कर्म, तृतीयादिषु त्रिषु पूति, षष्ठे तु कल्पते । नवरं यत् तद्दिवसे नाऽऽत्मार्थयति तत् तृतीयेऽपि दिवसे कर्म, ततस्त्रिषु दिवसेषु तत् पूतिकं गृहमिति कृत्वा न कल्पते, किन्तु कल्पते तद् गृहं सप्तमे दिवसे, अत एव चासौ भूयः सप्तमे दिने तस्या वीथ्यां पर्यटति ।। आह यद्येवं तर्हि यदि तस्मिन्नेव दिवसे तं प्रथमवीथीमटन्तं दृष्ट्वा कश्चिदाधाकर्मादि कुर्याद् मोदकादिकं वा तदर्थं कृत्वा सप्तमदिवसं यावदव्यवच्छिन्नभावः स्थापयेत् तदानीमसौ कथं जानाति ? कथं वा परिहरति? इति, उच्यते[ भा. १४०९] चोयग ! तं चैव दिनं, जइ वि करिजाहि कोइ कम्माई । हु सो तं न वियाण, एसो पुन सिं अहाकप्पो ।।
वृ- हे नोदक ! तस्मिन्नेव दिने यद्यपि कुर्यात् कश्चित् किञ्चिदाधाकर्मादि 'न हि' नैव स तन्न विजानाति, "द्वी नञी प्रकृत्यर्थं गमयतः" इति वचनाद जानात्येवासौ श्रुतोपयोगबलेन । आह यद्यसौ श्रुतोपयोगप्राणाण्यादेव जानीते ततः कमर्थमेकं ग्रामनेकभागान् परिकल्प्य पर्यटति ?, उच्यते-कल्प एषः “सिं" अमीषां भगवतां यत् सप्तमे दिवसे भूयः प्रथमवीथीं पर्यटन्ति ॥ ततश्च तं सप्तमे दिवसे प्रथमवीथीमटन्तं दृष्ट्वा सा श्राद्धिका ब्रूयात्
भा. (१४१०] किं नागय त्थ तइया, असव्वओ मे कओ तुह निमित्तं । इइ पुट्ठो सो भगवं, विइयाएसे इमं भणइ ॥
वृ- 'तदानीं यूयं किं नागताः ?, “थ" इति निपातः पूरणार्थ, मया हि त्वन्निमित्तं विपुलं भक्तादिकमुपस्कुर्वन्त्या युष्मदनुपयोगादसद्ययः कृतः' इति पृष्टोऽसौ भगवाँस्तूष्णीक आस्ते इति शेषः । 'द्वितीयादेशे' आदेशान्तरे पुनरिदं भणति ॥ किं तत् ? इत्याह
[भा. १४११] अनियताओ वसहीओ, भमरकुलाणं च गोकुलाणं च । समणाणं सउणाणं, सारइआणं च मेहाणं ॥
वृ-अनियताः 'वसतयः' अवस्थानानि उपलक्षणत्वात् परिभ्रमणानि च । केषाम् ? इत्याह-भ्रमरकुलानां च गोकुलानां च श्रमणानां शकुनानां शारदानां च मेघानाम् । इत्थमनियतचर्यया भिक्षाटने श्रद्धावतामपि प्राणिनां नाधाकर्मादिकरणे भूयः प्रवृत्तिरुपजायत इति ।। अथ "सत्त" त्ति पदं विवृणोति
[ भा. १४१२] एक्काए वसहीए, उक्कोसेणं वसंति सत्त जणा । अवरोप्परसंभासं, चयंति अन्नोन्नवीहिं च ॥
वृ- एकस्यां वसतावुत्कर्षतः सप्त 'जनाः' जिनकल्पिका वसन्ति । ते चैकत्र वसन्तोऽपि परस्परसम्भाषणं 'त्यजन्ति' न कुर्वन्तीत्यर्थः; अन्योन्यवीथीं च त्यजन्ति, यस्मिन् दिने यस्यां वीध्यामेकः पर्यटति न तस्मिन्नेव तस्यामपर इत्यर्थः ॥
गतं सामाचारीद्वारम् । अथ स्थितिद्वारमभिधित्सुराह[भा. १४१३]
खेत्ते काल चरित्ते, तित्थे परियाय आगमे वेए । कप्पे लिंगे लेसा, झाणे गणना अभिगहा य ॥
[भा. १४१४ ] पव्वाचण मुंडावण, मणसाऽऽवन्ने वि से अनुग्धाया । कारण निप्पडिकम्मे भत्तं पंथो य तइयाए ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org