________________
उद्देशक : १, मूलं-६, [भा. १३५७]
३५५ षाण्मासिकतपःकरणाद्यनुगुणास्ताः तथा भावयितुं शक्यन्ते । किञ्च तत्तु' तत् पुनः ‘साध्यं' कार्यं जगतिन विद्यते यद् ‘धृतिमान् सात्त्विकः पुरुषो न साधयति "सर्वसत्त्वे प्रतिष्ठितम्" इति वचनात् । एतेन "अव्वोच्छित्ती मण" इत्यादिद्वारगाथायाः "उवसग्गसहे" इति यत् पदं तद् भावितं मन्तव्यम्, बलभावनयाउपसर्गसहत्वभावादिति॥गताबलभावना।अथ "उवसग्गसहे यत्ति इत्यत्र यः चशब्दः सोऽनुक्तसमुच्चये वर्तते, अतस्तदर्थलब्धं विधिशेषमाह[भा.१३५८] जिनकप्पियपडिरूवी, गच्छे वसमाण दुविह परिकम्मं ।
ततियं भिक्खायरिया, पंतं लूहं अभिगहीया।। वृ-एवमसौ पञ्चभिर्भावनाभिर्भावितान्तरात्मा जिनकल्पिकस्य प्रतिरूपी-तदनुरूपो भूत्वा गच्छ एव वसन् द्विविधं परिकर्मवक्ष्यमाणनीत्या करोति । तथा तृतीयस्यां पौरुष्यांभिक्षाचर्या, तत्रापि प्रान्तं रूक्षमाहारं गृह्णाति, एषणा च 'अभिगृहीता' अभिग्रहयुक्त । तथा[भा.१३५९] परिणाम-जोगसोही, उवहिविवेगो य गणविवेगोय।
सिज्जा-संथारविसोहणं च विगईविवेगो य ।। वृ-परिणामस्य गुर्वादिममत्वविच्छेदेन योगानां चावश्यकव्यापाराणं यथाकालमेव करणेन शुद्धितथाप्राक्तनस्योपधेर्विवेको गणविवेकश्चशय्या-संस्तारस्य विशोधनं च विकृतिविवेकश्च तदा तेन कर्तव्यः॥ [भा.१३६०] तो पच्छिमम्मि काले, सप्पुरिसनिसेवियं परमघोरं ।
पच्छा निच्छयपत्थं, उवेइ जिनकप्पियविहारं ।। वृ- ततः पश्चिमे काले' तीर्थाव्यवच्छित्तिकरणानन्तरं 'सत्पुरुनिषेवितं' धीरपुरुषाराधितं 'परमघोरं' अत्यन्तदुरनुचरं पश्चाद्' आयतौ 'निश्चयपथ्यम्' एकान्तहितंजिनकल्पिकविहारमुपैति।।
अथ द्विविधं परिकर्म व्याख्यानयति[भा.१३६१] पाणी पडिग्गहेण व, सच्चेल निचेलओ जहा भविया।
सोतेन पगारेणं, भावेइ अनागयं चेव ।। वृ-द्विविधं परिकर्म, तद्यथा-पाणिपरिकर्म प्रतिग्रहपरिकर्म च; अथवा सचेलपरिकर्म अचेलपरिकर्म च । तत्र यो यथा पाणिपात्रधारकः प्रतिग्रहधारको वा सचेलको अचेलको वा भविता स तेनैव प्रकारेण पाणिपात्रभोजित्वादिना अनागतमेवाऽऽत्मानं भावयति ।।
प्रकारान्तरमाह[भा.१३६२] आहारे उवहिम्मि य, अहवा दुविहं तु होइ परिकम्मं ।
पंचसु अदोसुअग्गह, अभिग्गहो अन्नयरियाए !! वृ-अथवा द्विविधं परिकर्म आहारे उपधौ च । तत्राहारं तावदसौ तृतीयपौरुष्यामवगाढायां गृह्णाति,तंचालेपकृतमेव । तत्राप्यंसृष्टादीनांसप्तानांपिण्डैषणानांमध्याद् द्वयोः' आद्ययोरेषणयोः 'अग्रहः सर्वथैवास्वीकारः,उपरितनीषु पञ्चसु' उद्ध ता-ऽल्पलेपा-ऽवगृहीता-प्रगृहीतोज्झितधर्मिकासुग्रहणम्। तत्राप्यभिग्रहोऽन्यतरस्यामेषणायाम, एकया भक्तमपरया पानकमिति नियन्त्रय शेषाभिस्तिसृभिस्तिसृभिस्तदिवसमग्रहणमित्यर्थः । उपधौ तु वस्त्र-पात्रयोः प्रतिमाचतुष्टयं यत् पीठिकायामुक्तं तत्राद्यद्वयवर्जमुत्तरयोरेव ग्रहणम् । तत्राप्यपरस्यामभिग्रहः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org