________________
३५६
बृहत्कल्प-छेदसूत्रम् -१-१/६ अथ "पंतं लूह"ति व्याचष्टे[भा.१३६३] निप्फाव-चणकमाई, अंतं पंत तु होइ वावन्नं ।
नेहरहियं तु लूह, जंवा अबलं सभावेणं || कृ-निष्पावाः-वल्लाश्चणकाःप्रतीताआदिशब्दात्कुल्माषादिकंच आन्तमित्युच्ये प्रान्तंपुनस्तदेव 'व्यापनं विनष्टं कुथितमित्यर्थः । यत् पुनःस्नेहरहितंतद्रूक्षम्, यद्वा स्वभावेन अबलं रब्बादिकं तदपि रूक्षं मन्तव्यम् । अत्रैव विधिविशेषमाह[भा.१३६४] उक्कुडयासनसमुई, करेइ पुढवीसिलाइसुववेसे।
पडिवन्नो पुन नियमा, उक्कुडुओ केइ उ भयंति ॥ [भा.१३६५] तंतुन जुजुइ जम्हा, अनंतरोनत्ति बूमिपरिभोगो।
तम्मि य हु तस्स काले, ओवग्गहितोवही नस्थि॥ वृ-उत्कुटुकासनस्य “समुई" ति देशीवचनत्वाद् अभ्यासं करोति, 'पृथिवीशिलादिषु वा' पृथ्वीशिलापट्टके आदिशब्दाद्अपरेष्वपितथाविधयथासंस्तुतेषुउपविशेद्वा ! जिनकल्प प्रतिपन्नः पुनर्नियमादुत्कुटुक एव । केचिद् ‘भजन्ति विकल्पं कुर्वन्ति उत्कुटको वा तिष्ठेदुपविशेद्वा, तत्तु न युज्यते, यस्माद् 'अनन्तरः' अव्यवहितो नास्ति साधूनां तावद् भूमिपरिभोगः, “सुद्धपुढवीए ननिसिए" तिवचनात् तस्मिश्चजिनकल्पकाले औपग्रहिकोपधिनस्ति, तदभावाचनिषद्याऽपि नास्तीति गम्यते, ततश्चार्थादापन्नं उत्कुटक एव तिष्ठति ॥
उक्तश्चशब्दसूचिको विधिशेषः । अथ वटवृक्षद्वारमाह[भा.१३६६] दवाई अनुकूले, संघ असती गणं समाहूय ।
जिन गणहरे य चउदस, अभिन्न असती य वडमाई।। वृ-इस्थमात्मानंपरिकर्म्यद्रव्ये आदिशब्दात् क्षेत्रेकाले भावेच अनुकूले प्रशस्तेसङ्घमीलयित्वा सङ्घस्य असति' अभावे गणं स्वकीयमवश्यमेव समाहूय ततःप्रथमंजिनः-तीर्थकरस्तस्यान्तिके तदभावे गणधरसन्निधाने तदलाभे चतुर्दशपूर्वधरान्तिके तदसम्भवेऽभिन्नदशपूर्वधरपार्वे तस्याप्यसति वटवृक्षस्याध आदिग्रहणात् तदप्राप्तावशोका-ऽस्वस्थवृक्षादीनामधस्ता जिनकल्पं प्रतिपद्यते । केन विधिना? इत्याह[मा.१३६७] गणि गणहरं ठवित्ता, खामे अगनी उ केवलं खामे।
सव्वं च बाल-वुटुं, पुव्वविरुद्धे विसेसेणं । वृ-'गणी' गच्छाधिपाचार्यसपूर्वमित्वरानिक्षिप्तगणं स्वशिष्यं गणधरं स्थापयित्वा श्रमणसझं क्षमयति । “अगनित्ति यस्तुगणी न भवति किन्तु सामान्यसाधुः स केवलं क्षमयति न तु कमपि स्थापयति । किं पुनः क्षमयति? इत्याह-'सर्व' सकलमपि सङ्खचशब्दात् तदभावे स्वगच्छं बाल वृद्धाकुलम् । ये च 'पूर्वविरुद्धाः' प्राग्विराधितास्तान् विशेषेण क्षमयति ।। कथं पुनः? इत्याह[भा.१३६८] जइ किंचि पमाएणं, न सुटु भे वट्टियं मए पुदि ।
तंभे खामेमि अहं, निस्सल्लो निक्कसाओ अ॥ वृ- यदि किञ्चत् ‘प्रमादेन' अनाभोगादिना न सुष्टु “' भवतां मया वर्तितं पूर्वं तद् “भै" युष्मान क्षमयाम्यहं निशल्यो निष्कषायश्च ।। इत्थं तेन क्षमिते सति शेषसाधवः किं कुर्वन्ति ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org