________________
३५४
बृहत्कल्प-छेदसूत्रम् - १-१/६
वृ- एकत्वभावनया भाव्यमानया 'कामभोगेषु' शब्दादिषु 'गणे' गच्छे शरीरे वा 'न सजति' न सङ्गं करोति, किन्तु वैराग्यगतः सन् 'स्पृशति' आराधयति 'अनुत्तरं करणं' प्रधानयोगसाधनं जिनकल्पपरिकर्मेति ।। गता एकत्वभावना । अथ बलभावना । तत्र बलं द्विधा- शारीरबलं भावबलं
च । तत्र भावबलमाह
[ भा. १३५३] भावो उ अभिस्संगो, सो उ पसत्थो व अप्पसत्यो वा । नेह - गुणओ उ रागो, अपसत्थ पसत्थओ चेव ॥
वृ- भावो नाम अभिष्वङ्गः । 'स तु' स पुनरभिष्वङ्गो द्विधा प्रशस्तोऽप्रशस्तञ्च । तत्रापत्यकलत्रादिषु स्नेहजनितो यो रागः सोऽप्रशस्तः, यः पुनराचार्योपाध्यायादिषु गुणभहुमानप्रत्ययो रागः सप्रशस्तः । तस्य द्विविधस्यापि भावस्य येन मानसावष्टम्भेनासौ व्युत्सर्गं करोति तद्द्भावबलं मन्तव्यम् । शारीरमपि बलं शेषजनापेक्षया जिनकल्पार्हस्यातिशायिकमिष्यते ।।
आह तपो ज्ञानप्रभृतिभिर्भावनाभिर्भावयतः कृशतरं शरीरं भवति ततः कुतोऽस्य शारीरबलं भवति ? इति उच्यते
[ भा. १३५४ ] कामं तु सरीरबलं, हायइ तव-नाणभावनजुअस्स । देहावचए वि सती, जह होइ थिई तहा जयइ ॥
वृ- 'कामम्' अनुमतं 'तुः' अवधारणे अनुमतमेवास्माकं यत् तपो - ज्ञानभानायुक्तस्य शरीरबलं हीयते, परं देहापचयेऽपि सति यथा 'धृतिः' मानसावष्टभलक्षणा निश्चला भवति तथाऽसौ यतते, धृतिबलेन सम्यगात्मानं भावयतीत्यर्थः । आह इत्यं धृतिबलेन भावयतः को नाम गुणः स्यात् ? उच्यते
[ मा. १३५५ ] कसिणा परीसहचमू, जइ उद्विज्जाहि सोवसग्गा वि । दुद्धर पहकरवेगा, भयजणणी अप्पसत्ताणं ॥
वृ- 'कृतना' सम्पूर्णा 'परीषहचमूः' मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परीषहाः क्षुधादयस्त एव तेषां वा चमूः सेना सा यदि 'उत्तिष्ठेत' सम्मुखीभूय परिभवनाय प्रगुणीभवेत् 'सोपसर्गाऽपि' दिव्याधुपसर्गेकृतसहायकाऽपि, तथा “दुद्धरपहकरवेग" त्ति दुर्द्धरं दुर्वहं पन्थानं सम्यग्दर्शनादिरूपं मोक्षमार्गं करोतीति दुर्द्धरपथकरस्तथाविधो वेगः प्रसरोयस्याः सा दुर्द्धरपथकरवेगा, 'भयजननी' संत्रासकरी 'अल्पसत्त्वानां' कापुरुषाणाम् ।।
[ भा. १३५६ ] धिइधणियबद्धकच्छो, जोहेइ अनाउलो तमव्वहिओ । बलभावणाए धीरो, संपुन्नमणोरहो होइ ॥
वृ-तामेवंविधामपि स जिनकल्पं प्रतिपत्तुकामो योधयति । कथम्भूतः ? धृतिरेव धणियम्अत्यर्थं बद्धा कक्षा येन स तथा 'अनुकुल: ' औत्सुक्यरहितः 'अव्यथितः ' निष्प्रकम्पमनाः स बलभावनया तां योधयित्वा 'धीरः' सत्त्वसम्पन्नः सन् सम्पूर्णमनोरथो भवति, परीषहोपसर्गान् पराजित्य स्वप्तिज्ञां पूरयतीत्यर्थः ॥ अपि च
[मा. १३५७ ] धिइ-बलपुरस्सराओ, हवंति सव्वा वि भावना एता । तं तु न विज्जइ सज्झं जं धिइमंतो न साहेइ ॥
वृ- सर्वा अप्येतास्तपःप्रभृतयो भावना धृति-बलपुरस्सरा भवन्ति, नहि धृति- बलमन्तरेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org