________________
पीठिका - [भा. १०४]
३१
वा कालं तिष्ठति ।। तत्र स्थितस्य को लाभः ? इति चेत्, उच्यते-श्रुतलाभः । तथा चाह[मा.१०५] दखूण जिनवराणं, पूर्व अन्ने वा वि कज्जेण ।
सुयलंभो उ अभव्वे, हविज्ञ थंभेण उवनीए ।। वृ. यः स्तम्भेन 'उपनीतः' उपनयं प्रापितस्तस्मिन् अभव्ये तुशब्दाद् भव्ये च भवति 'श्रुतलाभः' द्रव्यश्रुतलाभः । कथम् ? इति चेत्, अत आह-"दहूणेत्यादि । स हि ग्रन्थिकसत्त्वो भव्योऽभव्यो वा भगवतां जिनवराणां पूजां दृष्ट्वा 'अहो ! कीशंतपसः फलम् ?' इति परिभाव्य तदर्थिकतया अन्येन वा कार्येण स्वर्गसुखार्थित्वादिना प्रव्रज्यामभ्युपगच्छति, ततः सामायिकादिद्रव्यश्रुतलाभः । ग्रन्थौ चैवं कियन्तं कालं स्थित्वा पुनः पश्चात् प्रतिनिवर्तते ॥ येनाप्यनिवृत्तिकरणतः सम्यक्त्वमासादितं तस्यापि द्वौ प्रकारौ-केचित् परिणामतो वर्धन्ते, केचिद् हानिमुपगच्छन्ति । तत्र ये हानि गच्छन्ति ते प्रतिपतन्ति, इतरे श्रावकत्वादीनि पदानि लभन्ते । तत्र जघन्यतः समकमेव, यत उक्तम्- सम्पत्त-चरिताई, जुगवंपुव्वंवसम्मत्तं। उत्कर्षतः पुनरेवम्[भा.१०६] सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावगो होला ।
__चरणोवसमःकयाणं, सागरसंखंतरा होति ।। वृ-सम्यक्त्वे लब्धे ‘पल्यपृथक्त्वेन' पल्योपमपृथक्त्वे गते 'श्रावकः' देशविरतो भवति । ततश्चरणोपशम-क्षयाणामन्तराणि सङ्ख्यातानि सागरोपमानि भवन्ति । इयमत्र भावनादेशविरतिप्राप्त्यनन्तरं सङ्ख्यातेषु सागरोपमेषु गतेषु चरणलाभः, तदनन्तरं भूयः सङ्ख्यातेषु सागरोपमेषुगतेषूपशमश्रेणिलाभः, ततोऽपि परतः सङ्घयेयेषु सागरोपमेष्वतिक्रान्तेषु क्षपकश्रेणि, ततस्तद्भवे मोक्षः॥ [भा.१०७] एवं अप्परिवडिएष सम्मत्ते देव-मनुयजम्मेसु ।
अन्नयरसेढिवजं, एगभवेणं च सव्वाई।। - वृ- “एवं' अमुना प्रकारेणाप्रतिपतितसम्यक्त्वे देव-मनुजजन्मसु वर्तमानस्य प्रतिपत्तव्यम् । यदि वा 'अन्यतरश्रेणिवर्ज' उपशमश्रेणिवऊं क्षपक श्रेणिवर्ज वा एकभवेन सर्वाणि देशविरत्यादीनि प्रतिपद्यते, श्रेणिद्वयप्रतिपत्तिस्त्वेकस्मिन् भवे न भवति । यत् उक्तम्
मोहोपशम एकस्मिन्, भवे द्वि स्यादसन्ततः।
यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न । सम्प्रति यदुक्तं प्राग् “मिथ्यात्वमपूर्वकरणेन त्रिधा करोति" तत्र कोद्रवदृष्टान्तमाह[मा.१०८] अप्पुब्वेण तिपुंजं, मिच्छं काऊण कोद्दवोवमया।
तिन्नि वि अवेययंतो, उवसामगसम्मदिट्ठीओ। वृ-'कोद्रोपमया कोद्रवदृष्टान्तेन अपूर्वकरणेन मिथ्यात्वं त्रिपुझं कृत्वाऽनिवृत्तिकरणेन तत्प्रथमतयाक्षायोपशमिकं सम्यकत्वंमासादयति। ततः परिणामवशतः कालान्तरेण मिश्रंमिथ्यात्वं वा गच्छति । यत्स्वपूर्वकरणमारूढोऽपि । ततः परिणामवशतः कालान्तरेण मिश्रं मिथ्यात्वं वा गच्छति । यस्त्वपूर्वकरणमारूढोऽपि मन्दाध्यवसायतया मिथ्यात्वं त्रिपुञ्जीकर्तुमसमर्थः सोऽनिवृत्तिकरणमुपगतोऽन्तरकरणं कृत्वा तत्र प्रविष्टो न किञ्चिदपि वेदयते, स च 'त्रिण्यपि' त्रयाणामन्यतमदप्यवेदयमान उपशमकः सम्यग्दृष्टिरुच्यते ।। “कोद्रवोपमया" इत्युक्तम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org