SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१. अतस्तामेव कोद्रवोपमां भावयति[भा.१०९] जह मयणकोद्दवा ऊ, दरनिव्वलिया य निव्वलीया य। एमेव मिच्छ मीसं, सम्मं वा होति जीवाणं ।। वृ-यथा कोद्रवास्त्रविधा भवन्ति, तद्यथा-मदनकोद्रवाः ‘दरनिर्मलिताः' ईषदपगतमदनभावाः 'निर्वलिताः' सर्वथाऽपगतमदनभावाः । एवं जीवानां मिथ्यात्वं त्रिधा भवति-मिथ्यात्वं 'मिथ' सम्यग्मिथ्यात्वं सम्यक्त्वं वा ।। [भा.११०] कालेनुवक्कमेण व, जह नासति कोद्दवाण मदभावो। अहिगमसम्म नेसग्गियं च तह होइ जीवाणं॥ वृ- यथा कोद्रवाणां मदनभावः केषाञ्चित् ‘कालेन' एवमेवापगच्छति, केषाञ्चिद् गोयमादिभिरुपक्रमतः; एवं केषाञ्चिद्जीवानामुपक्रमसद्दशमधिगसम्यकत्वं भवति, केषाञ्चित् कालेन स्वत एवापगतमदनभावकोद्रवाणां सशं नैसर्गिकसम्यक्त्वम् । किमुक्तं भवति ?केषाञ्चिदधिगमतो मिथ्यात्वपुद्गलाः सम्यक्त्वीभवन्ति, केषाञ्चित् स्वत एव तथापरिणामविशेषभावतः॥ एतदेव स्पष्टयति[भा.१११] सोऊण अहिसमेच्चे व, करेइ सो वड्डमाणपरिणामो! मिच्छे सम्मामिच्छे, सम्मे वियपोग्गले समयं ॥ वृ-श्रुत्वा केवलिप्रभृतीनां वचः 'अभिसमेत्य वा' जातिस्मरणादिना सम्यक्त्वमवगम्य 'सः' अपूर्वकरणेवर्तमानो वर्धमानपरिणामः ‘समकं एककालं मिथ्यात्वपुद्गलान् त्रिधाकरोति। तद्यथा-'मिच्छे’ इतिमिथ्यात्वपुद्गलान् सम्यग्मिथ्यात्वपुद्गलान्सम्यक्त्वपुद्गलानिति ।। अथैषां पुद्गलानां परस्परं सङ्क्रमो भवति ? किं वान? इति, उच्यते-भवतीतिब्रूमः । तथा चाह[भा.११२] मिच्छत्ताओ मीसे, भीसस्स उ होज संकमो दोसुं। सम्मे वा मिच्छे वा, सम्मा मिच्छंन पुन मीसं ॥ कृ'मिथ्यात्वात्'मिथ्यात्वदलिकात् सम्यग्दृष्टिप्रवर्धमानपरिणामः पुद्गलानाकृष्य मिश्रे उपलक्षणमेतत् मिथ्यात्वदलिकात् सम्यकत्वे च सङ्क्रमयति । मिश्रस्य पुद्गलानां सङ्क्रमो द्वयोर्भवति । तद्यथा-सम्यक्त्वे मिथ्यात्वे च । तत्र सम्यग्दृष्टि सम्यक्त्वे सङ्क्रमयति मिथ्याष्टिमिथ्यात्वे । “सम्यक्त्वात्' सम्यक्त्वदलिकात् पुनः पुद्गलान्मिथ्यात्वं सङ्क्रमयति न पुनर्मिश्रमिति ।। साम्प्रतममुमेवार्थं प्रकारान्तरेणाह[भा.११३] मिच्छत्ताओ अहवा, मीसं सम्मंच कोइ संकमइ । मीसाओ वा सम्म, गुणवुड्डी हायतो मिच्छं॥ वृ-'अथवा' इत्युक्तस्यैवार्थस्य भणनप्रकारान्तरद्योतने। 'मिथ्यात्वात्' मिथ्यात्वदलिकात् पुद्गलानाकृष्य कश्चिन्मिश्रं सम्यक्तवंच सङ्क्रमयति।यदि वा कश्चिद्गुणैर्वृद्धिर्यस्य स गुणवृद्धिप्रवर्धमानपरिणामः सम्यग्दृष्टिरित्यर्थः 'मिश्रात् मिश्रदलिकात् पुद्गलानादाय सम्यकत्वं सङ्क्रमप्रवर्धमानपरिणामः सम्यग्दृष्टिरित्यर्थः मिश्रात्' मिश्रदलिकात् पुद्गलानादाय सम्यक्त्वं सङ्क्रमयति । 'हायकः' हीनपरिणामो मिथ्याष्टिरित्यर्थः मिश्रात् पुद्गलानाकृष्य मिथ्यात्वं सङ्क्रमयति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy