________________
३३२
बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.१२५१] एहागाइ समोसरणे, परियट्टितं सुणित्तु सो साहुं !
अहित्ति पडिच्चोयण, उवसंप दीवणा अत्थे । वृ-स्नानादौ आदिशब्दाद् रथयात्रादी ‘समवसरणे' साधुमीलके "अढे लोए" इति व्यअनभेददूषितं सूत्रं परिवर्तयन्तं साधु कमपि श्रुत्वा स प्रतिनोदनां करोति-“अढे लोए" इति पठ। स प्राह-किम् ? इति।गीतार्थोब्रूते-“अडे" इति अर्थो न मिलति । इतरः प्राह-किम् अस्यारथोऽप्यस्ति? । (गीतार्थ प्राह-) बाढम् नमस्कारमादिं कृत्वा सर्वस्यापि श्रुतस्यार्थो विद्यते । स आह-यद्येवं तर्हि "अट्टि” त्ति पदस्य कोऽर्थ ? उच्यते-'आर्ततश्चतुर्द्धा नाम-स्थापना-द्रव्यभावभेदात्, नाम-स्थापनेसुगमे, द्रव्यतःसचित्तादिद्रव्यैरप्राप्तः प्राप्तवियुक्तैर्वाय आतः सद्रव्यातः, क्रोधादिभिरभिभूतो भावार्त्तः, एवं प्रकारद्वयेनायं लोक आत्तों वर्तते।' इत्याकर्ण्य प्रमुदितः स साधुश्चिन्तयति-'अहो! अस्यसूत्रलवस्यापीग्रहृदयङ्गमोऽर्थस्ततोयदि सर्वस्याधीतस्यार्थमवबुध्ये ततः सुन्दरं भवति' इत्यभिसन्धायाऽर्थग्रहमार्थं तस्यैव पार्वे उपसम्पदं प्रतिपद्यते । ततोऽसौ विधिना तस्यार्थे दीपनं करोति, अर्थ कथयतीत्यर्थः । एष द्वितीयः प्रकारः ॥ अथ तृतीयमपि प्रकारमाह[भा.१२५२] अहवा वि गुरुसमीवं, उवागए देसदसणम्मि कए।
उवसंपय साहूणं, होइ कयम्मी दिसाबंधे।। वृ-अथवा देशदर्शने कृते सति यदाऽसौ गुरूणांसमीपमुपागतो भवति तदा गुरुभिराचार्यपदे प्रतिष्ठाप्य दिग्बन्धे ‘कृते' अनुज्ञाते सतिविहारं कुर्वतोऽस्य पार्वे प्रतीच्छकसाधूनामुपसम्पद् भवतीति ॥व्याख्यातं त्रिभि प्रकारैरुपसम्पद्दारम् । अथ स्थिरत्वद्वारमभिधातुकाम आह[भा.१२५३] आयपरोभयतुलणा, चउविहा सुत्तसारणित्तरिया।
तिण्हऽट्ठा संविग्गे, इयरे चरणेहरा नेच्छे। वृ-तत्रासावात्मपरोभयविषयां तुलनां करोति । सा च प्रत्येकं चतुर्विधा वक्तव्या । तथा ये केचित् तद्गुणावर्जिता अगारिणः प्रव्रजन्ति तेषामुपसम्पन्नानां चासौ सूत्रसारणां करोति, सूत्रं पाठयतीत्यर्थः; उपलक्षणं चैतत्, तेनाऽऽसेवनाशिक्षामपि ग्राहयति । तथा तेषामुभयेषामप्यसौ इत्वरां दिशंबध्नाति, यथा-यावदाचार्याणां सकाशं व्रजामस्तावदहमेवाचार्योऽहमेवोपाध्यायः, तत्रगतानामाचार्या ज्ञायका इति । “तिण्हट्ठा संविग्गि" त्ति ये संविग्नाः साधवस्ते 'त्रयाणां' ज्ञानदर्शनचारित्राणामर्थाय उपसम्पद्यमानाः प्रत्येष्टव्याः । “इयरेचरणि"त्ति 'इतरे' पार्श्वस्थादयो यदिचरणार्थमुपसम्पद्यन्तेततस्तेऽपिसङ्ग्राह्याः, “इहरा नेच्छे"त्तिइतरथा ज्ञान-दर्शननिमित्तम्, सूत्रार्थग्रहण-दर्शनप्रभावकशास्त्राध्ययनार्थमिति भावः, यधुपसम्पद्यन्तेततः नेच्छेत्' नोपसम्पदं ग्राहयेदित्यर्थः॥अथ यदुक्तम् “आत्मपरोभयतुलनाचतुर्विधा' इततत्रात्मतुलनांतावद्भावयति[भा.१२५४] आहाराई दव्वे, उप्पाएउं सयं जइ समत्थो ।
खेत्तओ विहारजोग्गा, खेत्ताविहतारणाईया ।। वृ-इहाऽऽत्मतुलनाचतुर्विधा-द्रव्यतः क्षेत्रतः कालतोभावतश्च। तत्र द्रव्यतएषामुपसम्पन्नानां यद्येषणीयान्याहारादीनि स्वयमुत्पादयितुं समर्थ, आदिग्रहणात् उपधिशय्यापरिग्रहः । क्षेत्रत ऋतुबद्धविहारयोग्यानि वर्षावासयोग्यानि वा क्षेत्राण्युत्पादयितुंशक्नोमिनवा, "विहं" इत्यध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org