________________
उद्देश : १, मूलं -६, [भा. १२५४ ]
३३३
तस्मात् तारणं- पारनयनम्, आदिशब्दाद् राजद्विष्टादितारणानि कर्तुमहं समर्थो न वेति ॥ [भा. १२५५] कालम्मि ओममाई, भावे अतरंतमाइपाउग्गं । कोहाइनिग्गहं वा, जं कारण सारणा वा वि ।।
वृ-काले अवमं-दुर्भिक्षं तत्र आदिग्रहणाद् अशिव-भयादौ निर्वाहयितुं शक्नोऽस्मि न वेति । भावे "अतरंत "त्ति ग्लानीभृतानाम् आदिशब्दाद् बाल-वृद्धादीनां वा एषां प्रायोग्यमुत्पादयितुं समर्थोऽहं न वेति, अथवा शक्नोमि क्रोधनिग्रहं कर्तुं न वेति आदिग्रहणाद् मान-मायालोभनिग्रहपरिग्रहः, यद्वा यत् 'कारणं' ज्ञानादिकं निमित्तमुद्दिश्यैते उपसम्पद्यन्ते तस्याहं सारणां कर्तुमीशो न वेति ।। गतमात्मतुलनाद्वारम् । अथ परतुलनाद्वारमाह
[भा. १२५६ ] आहाराइ अनियओ, लंभो सो विरसमाइ निज्जूढो । उभाग खुलखेत्ता, अरिउहियाओ अ वसहीओ ।।
वृ-ते प्रतीच्छकाः प्रथममेवोच्यन्ते द्रव्यत आहारादीनां लाभः 'अनियतः कदाचिद् भवति कदाचित्रेति, योऽपि भवति सोऽपि विरसः पुराणीदनादि, आदिशब्दाद् अरसस्य हिङ्ग्वाद्यसंस्कृतस्य रूक्षस्य च वल्ल-चणकादेर्ग्रहणम्, सोऽपि 'निर्व्यूढः' उज्झितप्रायः । क्षेत्रत उद्भ्रामकभिक्षाचर्यया गन्तव्यम्, बहिर्ग्रामेषु भिक्षार्थं यत् पर्यटनं सा उद्भ्रामकभिक्षाचर्या; तथा 'खुलक्षेत्राणि' नाम यत्राल्पो लोको भिक्षाप्रदाता, सोऽपि च स्तोकमेव ददाति तत्र विहर्त्तव्यम्; अऋतुहिताश्च प्रायो वसतयः प्राप्यन्ते, यो यदा ऋतुर्वर्त्तते तस्य तदाऽननुकूला इत्यर्थः ॥
[भा. १२५७] ऊणाइरित्त वासो, अकाल भिक्खपुरिमड्ढ ओमाई । भावे कसायनिग्गह, चोयण न य पोरुसी नियया ।।
वृ- कालतः कदाचिद् भासकल्पस्थाने वर्षावासस्थाने वा ऊनमतिरिक्तं वा कालं कारणे वासः अवस्थानं भवेत्, क्वापि क्षेत्रे 'अकाले' सूत्रपौरुष्या अर्थपौरुष्या वा वेलायां भिक्षा प्राप्येत, ततः सूत्रार्थहानिरपि भाविनी, कुत्रापि पूर्वार्द्धेऽपि पूर्णे अवमं स्वोदरपूरकाहारमात्राया न्यूनं लभ्येत, आदिग्रहणात् पानमपि सम्पद्येत । 'भावे' भावतः कषायनिग्रहः खरपरुषनोदनायामपि कर्त्तव्यः । नच ‘'नियता' अवश्यम्भाविनी सूत्रार्थयोः पौरुषी, कदाचिदस्माकं धर्मकथादिव्यग्रतया सूत्रार्थयोव्यार्घातोऽपि भवतां भवेदित्यर्थः । तदेतत् सर्वमपि यद्यङ्गीकर्तुमुत्सहथ ततः प्रतिपद्यध्वमुपसम्पदमिति ॥
[भा. १२५८ ] अत्तनि य परे चेवं, तुलणा उभय थिरकारणे वृत्ता । पडिवज्र्ज्जते सव्वं, करिति सुहाए दिट्ठतं ॥
वृ- आत्मविषया परविषया च तुलना उभयोरपि 'स्थिरताकारणे' स्थिरीकरणार्थमेवमुक्ता । गतं स्थिरत्वद्वारम् अथ प्रतीच्छनाद्वारमाह- "पडिवचंते" इत्याद्युत्तरार्द्धम् । 'सर्वम्' अनन्तरोक्तमर्थं यदि प्रतीच्छकाः प्रतिपद्यन्ते तदा 'स्नुषया' वध्वा ष्टान्तमाचार्या कुर्वन्ति ।। तमेवाह
-S
[ भा. १२५९] आस-रहाई ओलोयणाइ भीया -ऽऽउले अ पेहंती । सकुलघरपरिचएणं, वारिजइ ससुरमाईहिं ॥
वृ- यथा काचिद् वधूः स्वकुलगृहस्य स्वकीयपितृगृहस्य सम्बन्धी यः परिचय:रमणीय वस्तुदर्शनहेवाकस्तेन अश्व- रथान् आदिग्रहणेन हस्त्यादीनू, अवलोकनं गवाक्षस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org