________________
उद्देशक : १, मूलं -६, [भा. १२४५ ]
३३१
'वृ
कुत्र मी वान ज्वलति' न दीप्यतेऽग्नि ? कुत्र वा चन्द्र उदयप्राप्तः प्रकटो न भवति ? कुत्र वा वराणि उत्तमानि लक्षणानि - अभ्यन्तरतो ज्ञानादीनि बाह्यतः शरीरसौन्दर्यादीनि शङ्खचक्रादीनि वा धारयन्तीति चरलक्षणधराः सत्पुरुषाः प्रकटा न भवन्ति ? ॥
अत्रपरोऽनुपपत्तिमुद्भावयन्त्राह
[भा. १२४६] उदए न जलइ अग्गी, अब्भच्छन्नो न दीसई चंदो । मुक्खे महाभागा, विजापुरिसा न भायंति ॥
वृ- उदके न ज्वलत्यग्नि किन्तु विध्यायति, अभ्रच्छन्न श्चन्द्रो न द्दश्यते, 'मूर्खेषु' मूर्खाणां पुरतो महाभागा विद्याप्रधानाः पुरुषा विद्यापुरुषास्तेऽपि 'न भान्ति' न शोभन्ते; ततः “कत्थ व न जलइ अग्गी' इत्यादि नोपपद्यते, तदयुक्तम्, अभिप्रायापरिज्ञानात्, इह हि स्वविषय एवाग्निचन्द्र-सत्पुरुषाणां ज्वलनादि सामर्थ्य चिन्त्यते न त्वविषये ॥ कः पुनरमीषां स्वविषयः ? इत्याह[भा. १२४७] सुक्किंधनम्मि दिप्पइ, अग्गी मेहरहिओ ससी भाइ । तव्विहजने य निउणे, विजापुरिसा वि भायंति ॥
वृ ' शुष्केन्धने' शुष्ककाष्ठादौ दीप्यतेऽग्नि, 'मेघरहितः ' शरदादिकालेऽ भैरच्छन्नः शशी 'भाति' प्रकाशते, 'तद्विधजनेच' ताशे सहृदयलोके 'निपुणे' व्याकरण- प्रमाणादिशास्त्रकुशले विद्यापुरुषा अपि 'भान्ति' शोभां लभन्ते । एष त्रयाणामप्यमीषां स्वविषयः, अत्र च सर्वत्राप्यमी दीप्यन्ते, अतो न किञ्चिदनुपपन्नम् । अत्रैवापरं ध्ष्टान्तमाह
[ भा. १२४८ ] कुमुओयररसमुद्धा, किं न विबोहिंति पुंडरीयाई । सूरकिरणा ससिस्स व, कुमुयाणि अपंकयरसन्ना ।। [भा. १२४९ ] नय अप्पगासगत्तं, चंदा ऽऽइच्चाण सविसए होइ । इय दिप्पंति गुणड्डा, मुक्खेसु हसिजमाणा वि ।।
वृ- कुमुदानामुदराणि कुमुदोदराणि तेषु रसः- मकरन्दः तस्मिन् मुग्धाः-अनभिज्ञाः, तदानीं तेषामप्रबुद्धत्वाद् ईशोऽमीषां मकरन्द इति न विदन्तीत्यर्थः एवंविधाः सूर्यकिरणा यद्यविषयत्वात् कुमुदानि न विबोधयन्ति ततः किं स्वविषयभूतानि पुण्डरीकाणि न विबोधयन्ति ? बोधयन्त्येव । शशिनो वा किरणा यदि 'अपङ्कजरसज्ञाः' पङ्कजरसास्वादमुग्धास्ततः किं स्वविषयभूतानि कुमुदानि न बोधयन्ति ? । ततश्च 'न च' नैवाऽप्रकाशकत्वं चन्द्राऽऽदित्ययोः स्वविषये भवति किन्तु प्रकाशकत्वमेव, 'इति' अमुनैव प्रकारेण गुणैः- ज्ञानादिभिराढ्याः समृद्धाः 'मूर्खेषु' पशुप्रायेषु हस्यमाना अपि 'दीप्यन्ते' सहृदयहृदयेषु प्रकाशन्ते ॥ उक्तमानुषङ्गिकम्। प्रकृतमनुसन्धीयते[ भा. १२५० ] सो चरणसुट्ठियप्पा, नाणपरो सूइओ अ साहूहिं । उवसंपया य तेसिं, पडिच्छणा चेव साहूणं ॥
वृ- 'सः' इति भविष्यदाचार्य चरणसुस्थितात्मा तथा 'ज्ञानपरः' सूत्रा ऽर्थपौरुषीकरणं प्रति उद्युक्तः परां निष्ठां प्राप्तो वा दर्शनाविनाभावित्वाद् ज्ञानस्य दर्शनपर इत्यपि द्रष्टव्यम्, सच साधुभिस्वपरिवारवर्त्तिभिरपरेषां साधूनां पुरतः 'सूचितः ' श्लाधितः ततस्तेषां साधूनां तस्यान्तिके उपसम्पद् भवति, तेन च तेषां यथाविधि प्रतीच्छना कर्त्तव्या इति । एष एक उपसम्पदः प्रकार उक्तः ॥ अथ द्वितीयं प्रकारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org