________________
उद्देशकः १, मूलं-६, [भा. १२३८]
वृ-ते आचार्या पिण्डपातार्थ' भिक्षानिमित्तं साधून निर्गच्छतो भणन्ति-आर्या ! सर्वेऽपि प्रतिग्रहान् दर्शयित्वा निर्गच्छत, अदर्शितप्रतिग्रहैर्न गन्तव्यम् । कुत इत्थं कुर्वन्ति ? इत्याह'अभिमराद्याशङ्कया' मा कश्चिदभिमर उदायिनृपमारकवत् श्रमणवेषेणाऽऽगतो भवेत्, आदिग्रहणेन चौरो वा माधान्यादिमोषणायाऽऽगतो भवेदित्याद्याशङ्कयाऽपूर्वां सामाचारी स्थापन्ति। भिक्षाप्रतिनिवृत्ता अपिच गुरूणांपुरतः सर्वंप्रत्युपेक्ष्य ततः प्रविशन्ति, तैरेवाभिमरादिभि कारणैरिति । गतमतिशयद्वारम् । अथ जनपदरीक्षाद्वारमाह[भा.१२३९] अब्भे नदी तलाएष कूवे अइपूरए य नाव वणी ।
मंस-फल-पुष्फभोगी, वित्थिन्ने खेत्त कप्प विही ।। वृ-स देशदर्शनं कुर्वन् जनपदानां परीक्षां करोति-कस्मिन् देशे कथं धान्यनिष्पत्ति? । तत्र कचिदेशेऽभैः सस्यं निष्पद्यते वृष्टिपानीयरित्यर्थः, यथा लाटविषये। कापि नदीपानीयैः, यथा सिन्धुदेशे। कचित्तु तडागजलैः, यथा द्रविडविषये । कापि कूपपानीयैः, यथा उत्तरापथे। कचिदतिपूरकेण, यथा बन्नासायांपूरादवरिच्यमानायां तत्पूरपानीयभावितायां क्षेत्रभूमौ धान्यानि प्रकीर्यन्ते; यथावा डिम्भरेलके महिरावणपूरेण धान्यानि वपन्ति । “नाव" इति यत्र नावमारोप्य धान्यमानीतमुपभुज्यते, यथाकाननद्वीपे । “वणि''त्ति यत्र वाणिज्येनैव वृत्तिरुपजायतेन कर्षणेन, यथा मथुरायाम् । “मंस"त्ति यत्र दुर्भिक्षे समापतिते मांसेन कालोऽतिवाह्यते । तथा यत्र पुष्पफलभोगी प्राचुर्येण लोकः, यथा कोङ्कणादिषु । तथा कानि विस्तीर्णानि क्षेत्राणि ? कानि वा सङ्क्षिप्तानि? । “कप्पे''त्ति कस्मिन् क्षेत्रेकः कल्पः?, यथा सिन्धुविषयेऽनिमिषाद्याहारोऽगर्हितः। "विहि"त्ति कस्मिन् देशे कीशः समाचारः? यथा सिन्धुषु रजकाः सम्भोज्याः, महाराष्ट्रविषये कल्पपाला अपि सम्भोज्या इति ।। अपि च[भा.१२४०] सम्झाय-संजमहिए, दानाइसमाउले सुलभवित्ती।
कालुभयहिए खेत्ते, जाणइ पडनीयरहिए य॥ वृ-स्वाध्यायहितं-यत्राखण्डे सूत्राऽर्थपौरुष्यौ भवतः । संयमहितं-स्त्रीदोषरहितमल्पबीजहरितादिवा। “दानाइ"त्ति दानश्राद्धैः आदिग्रहणादभिगमश्राद्धैर्वासमाकुलम्।अत एव सुलभासुप्रापा वृत्तिः-प्राणवर्तनहेतुराहारसम्पततिर्यत्रतत्सुलभवृत्तिकम्, तथाकिमिदमागन्तुकभद्रकम्? उत वास्तव्यभद्रकम् ? इत्याधुपलक्षणाद् द्रष्टव्यम् । “कालुभयहिए खेते"त्ति अमूनि वर्षावासप्रायोग्याणिअमूनिऋतुबद्धकालयोग्यानीत्युभयकालहितानि क्षेत्राणिजानाति । तथा प्रत्यनीकःसाध्वादीनामुपद्रवकारी तद्रहितानि च क्षेत्राणि सम्यग् जानातीति ।। गतं जनपदपरीक्षाद्वारम् । यस्मादे, गुणास्तस्मादवश्यं देशदर्शनं कर्त्तव्यम्। गतं “पव्वजा सिक्खावय" इत्यादिमूलद्वारगाथाप्रतिबद्धमनियतवासद्वारम् । अथ निष्पत्तिद्वारम् । तच्चानन्तरोक्तेऽनियतवासद्वारे वक्ष्यमाणे विहारद्वारे च सम्भवति । तत्रानियतवासद्वारे तावद् दयते-इत्यं तेन देशदर्शनं कुर्वता शिष्याः प्रतीच्छकाश्च सामाचार्यां सूत्राऽर्थग्राहणायांच निष्पादयितव्याइत्यत्रान्तरे यदुक्तंप्रतिद्वारगाथायां “काउ सुयं दायव्वं, अविणीयाणं विवेगोय।" तदिदानीमभिधित्सुरिगाथामाह[भा.१२४१] उवसंपज्ज थिरत्तं, पडिच्छणा वायणोल्लछगणेय।
घट्टण-रुंचण-पत्ते, दुट्ठासे तहिं गए राया ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org