________________
३२८
बृहत्कल्प-छेदसूत्रम् -१-१/६ 'उपलब्धिः' प्राप्तिर्भवति । यत एवं तस्मात् ‘सेवेत' पर्युपासीताऽऽचार्यान् ।।
एतदेव व्याख्यानयति[भा.१२३३] उभए विसंकियाई, पुब्बिं जाई सि पुच्छमाणस्स ।
होइ जओ सुत्तत्थे, बहुस्सुए सेवमाणरस ॥ वृ-'उभये' सूत्रेऽर्थे च यानि पूर्वं 'से' तस्य शङ्कितानि पदानि तानि आचार्याणां समीपे पृच्छतो निशङ्कितानिजायन्ते। एवंच बहुश्रुतान् सेवमानस्य जयः' सूत्रार्थविषयोऽभ्यासातिशयो भवति, अतो बहुश्रुतपर्युपानं विधेयम् ।। अपि च[भा.१२३४] भवियाइरिओ देसाण दंसणं कुणइ एस इय सोउं ।
अन्ने वि उज्जमंते, विणिक्खमंते य से पासे ।। वृ-'भव्याचार्य एष देशानां दर्शनं करोति' इति श्रुत्वा ‘अन्येऽपि' पर्युपास्यमानाचार्यसम्बन्धिनः शिष्याः 'उद्यच्छन्ते' सूत्रार्थग्रहणादौ उधमं कुर्वन्ति ।गृहिणोऽपिच तद्गुणग्रामरजितमनसः 'विनिष्कामन्ति' दीक्षां प्रतिपद्यनते ‘से' तस्य भविष्यदाचार्यस्य पार्वे इति ।। अतिशयानामुपलब्धि कथं भवति? इत्याह[भा.१२३५] सुत्तत्थे अइसेसा, सामायारी य विज-जोगाई।
विज्जा जोगा य सुए, विसंति दुविहा अओ होति। वृ.इहातिशयास्त्रिविधाः, तद्यथा-सूत्रातिशयाः १ सामाचार्यतिशयाः २ विद्या-योगा: आदिशब्दाद्मन्त्राश्च ३इति त्रयोऽतिशयाः। तत्रविद्यास्त्रीदेवताधिष्ठितापूर्वसेवादिप्रक्रियासाध्या वा, योगाः पादलेपप्रभृतयो गगनगमनादिफलाः, मन्त्राः पुरुषदेवताधिष्ठिताः पठितसिद्धा वा । यद्वा विद्या योगाः चशब्दाद् मन्त्राश्च श्रुते एव 'विशन्ति' अन्तर्भवन्ति, अतो द्विविधा अतिशया भवन्ति-सूत्रार्थातिशयाः सामाचार्यतिशयाश्चेति । एषामतिशयानामुपलब्धिरपूर्वाचार्यपर्युपासनायां भवति ॥अथ सामाचार्या अतिशयं बिभावयिषुराह[भा.१२३६] निक्खमणे य पवेसे, आयरियाणं महानुभावाणं ।
सामायारीकुसलो, अ होइ गणसंपवेसेणं ।। वृ-स देशदर्शनं कुर्वाणस्तेषुतेषु नगरादिषु बहुश्रुतानामाचार्याणां महानुभावानांसम्बन्धी यो गणः गच्छस्तन्मध्येयः सम्यग्-एकीभावेनएकत्रावस्थानलक्षणेन प्रवेशस्तेनबहुशोगणान्तरेषु निष्कमणे प्रवेशे च सामाचारीकुशलो भवति ॥ कथम् ? इत्याह[भा.१२३७] आगंतुसाहुभावम्मि अविदिए धन्नसालमाइठिया।
उप्पत्तियाउ थेरा, सामायारीउ ठाविति ॥ वृ-आगन्तुकाः-प्राधुणका उपसम्पन्ना वा तेषां साधूनां भावे 'अविदिते' 'कीदृशेनाभिप्रायेणाऽऽगताः? के वाऽमी ?' इत्यपरिज्ञाते केचित् 'स्थविराः' आचार्या धान्यशालायाम् आदिशब्दाद् घृतशालादिषु च स्थिताः औत्पत्तिकीः' अनुत्पन्नपूर्वा सामाचारीः स्थापयन्ति । कथम् ? इत्याह[मा.१२३८] सव्वे विपडिग्गहए, दंसेउंनीह पिंडवायट्ठा ।
अहिमरमायासंका, पडिलेहेउं व पविसंति॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org