SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं -६, [भा. १२२७] निशङ्कितत्वभावाद् ‘आगाढम्' अतीवविशुद्धं 'दर्शनं' सम्यक्त्वं भवतीति ॥ गतं दर्शन शुद्धिद्वारम् । अथ स्थिरीकरणद्वारमाह [भा. १२२८] संवेगं संविग्गाण जनयए सुविहिओ सुविहियाणं । आउत्तो जुत्ताणं, विसुद्धलेसो सुलेस्साणं ॥ वृ- 'संविग्नानां' साधूनां संवेगं जनयति, 'अहो ! अयं भव्याचार्योऽवगाहितसमस्त सिद्धान्तसिन्धुरभ्यस्तचरणकरणसामाचारीक इत्थंदेशदर्शनं करोति' इति भावनया स्थिरीकरणं करोतीत्यर्थः । स्वय 'सुविहितः' शोभनविहितानुष्ठानस्तेषामपि सुविहितानाम्, स्वयम् 'आयुक्तः विकथानिद्रादिप्रमादै २ रप्रमत्तस्तेषामपि 'युक्तानाम्' अप्रमादिनाम्, स्वयं विशुद्धलेश्यः तेषामपि सुलेश्यानामिति ।। गतं स्थिरीकरणद्वारम् । अथ देशद्वारम् । अत्र चविशेषचूर्णिकृता दर्शन शुद्धिद्वारमेव विवृण्वतेयं गाथा गृहीता, संवेगस्य सम्यग्दर्शनलक्षणत्वात् संवेगजनने दर्शन शुद्धिः कृता भवतीति कृत्वा; स्थिरीकरणद्वारं तु मूलतः एव नोपात्तम् । द्वारगाथायामपि "दंसणसोही देसप्पवेस अइसेस जणवयपरिच्छा" इत्येष एव पाठो गृहीतः, अतस्तदभिप्रायेण गतं दर्शनशुद्धिद्वारम् अथ देशप्रवेशद्वारं व्याचष्टे [ भा. १२२९] नाणादेसीकुसलो, नाणादेसीकयस्स सुत्तस्स । अभिलाव अत्यकुसलो, होइ तओ नेन गंतव्वं ॥ ३२७ वृ- नानाप्रकारा-मगध-मालव- महाराष्ट्र-लाट कर्णाट-द्रविड-गौड-विदर्भादिदेशभवा या देशी भाषा तस्यां कुशलः सन् 'नानादेशीकृतस्य' नानादेशभाषानिबद्धस्य सूत्रस्य अभिलापेउच्चारणे अर्थकथने च कुशलो भवति, यत एवं ततोऽनेन देशदर्शनार्थं गन्तव्यम् ॥ तथा[भा. १२३०] कहयति अभासियाण वि, अभासिए आवि पव्वयावेइ । सव्वेवि तत्थ पीइं, बंधंति सभासिओ ने त्ति ।। वृ- नञः कुत्सार्थत्वात् कुत्सिता-अव्यक्तवर्णविभागा भाषा येषां तेऽभाषिकास्तेषामप्यसौ धर्मं कथयति, निशेषदेशभाषानिष्णातत्वात् । अभाषिकाँश्चापि तद्देशभाषया प्रतिबोध्य प्रव्राजयति । सर्वेऽपिच शिष्याः 'तत्र' आचार्ये प्रीतिं बध्नन्ति, स्वभाषिकः 'मे' अस्माकम् अयमिति कृत्वा ॥ तथा [भा. १२३१] पियधम्मऽवज्जभीरू, साहम्मियवच्छलो असदभावो । संविग्गावेइ परं परदेसपवेसणे साहू ॥ वृ- 'प्रियधर्मा' धर्मश्रद्धालुः, अवघं पापकर्म तस्माद् भीरुरवद्यभीरु, साधर्मिकाःसाधवस्तेषां वत्सलो द्रव्यतो भक्त - पानादिना भावतस्तु स्खलितादिषु सारणादिना, 'अशठभावः' मातृस्थानरहितः, एवंविधोऽसौ साधुः परदेशप्रवेशने वर्तमानः 'परम्' अनयं संयमयोगेषु सीदन्तमपि 'संविग्नयति' सदुपदेशदानादिना संविग्नं करोतीति ॥ गतं देशद्वारं देशप्रवेशद्वारं वा । अथातिशयद्वारमाह [भा. १२३२] सुत्त-ऽत्यधिरीकरणं, अइसेसाणं च होइ उवलद्धी । आयरियदंसणेणं, तम्हा सेविज आयरिए || वृ- आचार्याणां दर्शनेन सेवनेनेति यावत् सूत्रार्थस्थिरीकरणमतिशयानां च अपूर्वाणाम् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy