________________
३२६
बृहत्कल्प-छेदसूत्रम् -१-१/६ स्थानम् । “सिय"ति स्याशब्दो भवत्यर्थे आशङ्कायां भजनायां वा । तत्र भवत्यर्थे सुप्रसिद्धः । आशङ्कायां यथा-"दव्वथओ भावथओ दव्वथओ बहुगुण त्ति बुद्धि सिया।" भजनायां यथा"सिय तिभागे सिय तिभागतिभागे" पत्र इत्यादि । “वीसुं" तिविष्वक् पृथगित्यर्थः । ‘एरका' गुन्द्रा भद्रमुस्तक इत्यर्थः एते आदिग्रहणात् पयः पिच्चं नीरमित्यदयश्च शास्त्रप्रसिद्धाः शब्दास्तेषु तेषुदेशेषुलोकेन तथातथा व्यवह्रियमाणादेशदर्शनं कुर्वता प्रत्यक्षम्' इति प्रत्यक्षत उपलभ्यन्ते।। आह यधसौ तान् प्रत्यक्षतो नोपलभेत ततः का नाम न्यूनता भवेत् ? उच्यते[भा.१२२४]जो विपगासो बहुसो, गुणिओ पच्चक्खओन उवलद्धो ।
जचंधस्स व दंदो, फुडो विसंतो तहा स खलु ।। वृ-योऽपि 'प्रकाशः' अर्थो बहुशः 'गुणितः' स्भ्यस्तीकृतः परं न प्रत्यक्षत उपलब्धः स जात्यन्धस्येव चन्द्रः स्फुटोऽपि सन् ‘खलुः' अवधारणेतथैवास्फट एवमन्तव्यः । इदमत्र हृदयम्यथा चन्द्रः प्रकटोऽपि साक्षाद्दर्शनं विना जात्यन्धस्य न परिस्फुटाकारः प्रतिभासते एवमस्यापि शास्त्रानुसारतःप्रकटा अपिप्रत्यक्षदर्शनमन्तरेणन परिस्फुटा व्यवहारोपयोगिनोऽर्थाप्रतिभासन्ते।। यतश्चैवंततः[भा.१२२५]आयरियत्तअभविए, भयणा भविओ परीइ नियमेणं ।
अप्पतइओ जहन्ने, उभयं किं चाऽऽरियं खेत्तं ।। वृ-आचार्यत्वस्य-आचार्यपदस्य अभव्यः-अयोग्यस्तस्मिन् ‘भजना' अर्थग्रहणानन्तरं देशदर्शनं कार्यते वा न वा, यस्तु भव्यः' आचार्यपदयोग्यः स नियमेन 'पर्येति' देसदर्शनाय पर्यटति । स चाऽऽत्मतृतीयो जघन्येनावश्यन्तया कृत्वा प्रेषणीयः । किञ्च “उभयम्' इति किं ऋतुबद्धकालप्रायोग्यमिदं क्षेत्रम् ? उतवर्षावासयोग्यम् ? तथा किमेतद् 'आर्य' सार्द्धपञ्चविंशतिजनपदमध्यवर्ति? आहोश्चिदनार्यम् ? एतत् सर्वमपि देशदर्शनं विदधानो जानाति ।।
अथ देशदर्शनस्यैव गुणान्तराभधित्सया द्वारगाथामाह[भा.१२२६]दसणसोही थिरकरण देस अइसेस जनवयपरिच्छा।
काउ सुयं दायव्वं, अविनीयाणं विवेगो य ।। वृ-देशदर्शनं कुर्वतोदर्शनशुद्धिरात्मनःस्थिरीकरणंचान्येषांभवति, “देस"त्तिनानादेशभाषासुकौशलम् अतिशेषाः' अतिशयाः जनपदपरीक्षाच जायन्ते।ततएतानि दर्शनशुध्यादीनि कृत्वाविनीतेभ्यः श्रुतंदातव्यम्, अविनीतानां विवेकः परित्यागः कर्त्तव्यइतिद्वारगाथासमासा।।
अथ विस्तरार्थं बिभणिषुराह[भा.१२२७] जम्मण-निक्खमणेसु य, तित्थयराणं महानुभावाणं ।
इत्थ किर जिनवराणं, आगाढं दंसणं होइ। वृ-जन्म-निष्क्रमणशब्दाभ्यां तदाधारभूता भूमयो गृह्यन्ते । जन्मभूमिषु अयोध्यादिषु, निष्क्रमणभूमिषु उज्जयन्तादिषु, चशब्दाद् ज्ञानोत्पत्तिभूमिषु पुरिमतालादिषु, निर्वाणभूमिषु सम्मेतशैल-चम्पादिषुतीर्थकराणां 'महानुभावानां' सातिशया-ऽचिन्त्यप्रभावाणां सम्बन्धिनीषु विहरतः 'अत्र किल भगवतां जिनवराणां जन्म जज्ञे, अत्र तु भगवन्तो दीक्षां प्रतिपन्नाः, इह केवलज्ञानमासादितवन्तः, इह पुनः परिनिर्वृताः' एवं बहुजनमुखेन श्रुत्वा स्वयं च दृष्ट्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org