________________
३२५
उद्देशक ः १, मूलं-६, [भा. १२२१] एवंविधं यत्पूर्वमजानता सूत्रमधीतंतस्यार्थसम्यगवगम्य हीनंप्रतिपूरयति अधिकंपरित्यजति।। जिनकल्पिकसूत्रं यथा
___ तेगिच्छं नाभिनंदिज्जा, संचिक्खऽत्तगवेसए।
एवं खु तस्स सामन्नं, जं न कुजा न कारवे॥ स्थविरकल्पिकसूत्रं यथा-भिक्खू अ इच्छिज्जा अन्नयरि तेगिच्छि आउंटित्तए । अथवा जिनकल्पिक-स्थविरकल्पिकयोः सामान्यसूत्रमिदम्- “संसट्टकप्पे चरिज भिक्खू"
आर्यासूत्रंयथा-"कप्पइनिग्गंधीणंअंतोलित्तं घडिमत्तयंधारित्तए""कालित्तिकालविषयं किमपि सूत्रं भवति, यथा अनागतं कालमङ्गीकृत्य “न या लभेजा निउणं सहायं, गुणाहियंवा गुणओ समं वा । इत्यादि।
"क्यणाई"ति 'वचनम् एक-द्वि-बहुवचनादिकंपोडशधायथा पीठिकायामतप्रतिपादकं सूत्रं यथा आचाराने भाषाध्ययने-एगवयणंवयमाणे एगवयणंवएज्जा, दुवयणं वयमाणे दुवयणं वएज्जा, बहुवयणंवयमाणे बहुवयणं वएज्जा, इत्थीवयणंवयमाणे इत्थीवयणंवएज्जा । इत्यादि ।। आदिशब्दाद् भयसूत्रादिपरिग्रहः । इत्थमनेकधा सूत्राणां सम्भवे तदर्थश्रवणमन्तरेण न शक्यते “कीशम्?" इति विवेकः कर्तुमिति कर्तव्यमर्थग्रहणम् ।। अथ ते शिष्या ब्रूयुः-'यः कण्ठतः सूत्रे निबद्धोऽर्थस्तेनैव वयं तुष्टाः किमस्माकं दुरधिगमत्वाद् बहुपरिक्लेशेन “मज्जण निसिज्ज अक्खा" इत्यादिप्रक्रियापुरस्सरमथग्रहणप्रयासेन ?' इति,ते इत्थंब्रुवाणाः प्रज्ञापयितव्याः । कथम् ? इत्याह[भा.१२२२]जे सुत्तगुणा खलु लक्खणम्मि कहिया उ सुत्तमाईया।
अत्थग्गहणमराला, तेहिं चिय पन्नविनंति ।। वृ-पीठिकायां लक्षणद्वारे ये सूत्रस्य गुणाः "निदोसं सारवंतं च" इत्यादिना कथिताः, यद्वा "सुत्तमाईय" त्ति “सुत्तं तु सत्तमेव उ" इत्यादिना प्रतिपादिताः, 'तैरेव' हेतुभिरर्धग्रहणे मराला:-अलसाः शिष्याः प्रज्ञाप्यन्ते। यथा-भो भद्राः! निर्दोष-सारवद्-विश्वतोमुखादयः सूत्रस्य गुणा भवन्ति, ते च यथाविधि गुरुमुखादर्थे श्रूयमाण एव प्रकटीभवन्ति । किञ्च यथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन्न किञ्चित् तासां कलानां जातीने एवं सूत्रमप्यर्थेनाऽबोधितं सुप्तमिव द्रष्टव्यम्। विचित्रार्थनिबद्धानिसोपस्काराणि च सूत्राणि भवन्ति, अतो गुरुसम्प्रदायादेव यथावदवसीयन्ते न यतस्ततः । इत्थं युक्तियुक्तैर्वचोभि प्रज्ञापितास्ते विनेयाः प्रतिपद्यन्ते गुरूणामुपदेशम्, गृह्णन्ति द्वादश वर्षाणि विधिवदर्थमिति ।गतमर्थग्रहणद्वारम् । अथानियतयासद्वारम्-तत्रार्थग्रहणे समापिते सति यो विनेय आचार्यपदयोग्यः स नियमाद् द्वादश वर्षाणि देशदर्शनं कारयितव्यः । शिषयः पृच्छति-तेन द्वादश वर्षाणि सूत्रग्रहणं कृतं द्वादशभिर्वपरर्थ समग्रोऽपि गृहीतः, अतो देशदर्शनेन विना किमिवास्यन सिध्यति? इति उच्यते[भा.१२२३]जइ विपगासोऽहिगओ, देसीभासाजुओतहा वि खलु ।
उंदुय सिया य वीसुं, एरगमाईयपञ्चक्खं ।। कृयद्यपितेन प्रकाशः' अर्थसूत्रस्य 'अधिगतः सम्यग विज्ञातस्तथापि 'खलु' निश्चयेनासौ विनेयो देशदर्शनेन देशीभाषायुतः कर्त्तव्यः। कुतः? इत्याह-“उंदुय" इत्यादि । 'उन्दुकम्' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org