________________
३२४
बृहत्कल्प-छेदसूत्रम् -१-१/६ 'गवा' बलीवर्दन 'शालिकरणेन च' शालिक्षेत्रेणातत्र गोद्दष्टान्तो यथा-कश्चिबलीर्दसकलमपि दिवसं वाहयित्वा हलाद् अरघट्टाद् वा मुक्तः सन् सुन्दरामसुन्दरां वा चारिं यां प्राप्नोति तां समिनास्वादयन् चरत्येव । पश्चाद् ध्रातः सन्नुपविश्य प्राक् चीर्णं रोमन्थायते, रोमन्थायमानश्च तदा स्वादमुपलभते, ततोऽसौ नीरसं कचवरंपरित्यजति । एवमयमपि गृहवासारघट्टाद् मुक्तः प्रथमं यत् किमपि सूत्रं चारिकल्पं गुरुसकाशादधिगच्छतितत्सर्वमर्थास्वादनविरहितं गृह्णाति। ततः सूत्रे गृहीतेऽर्थग्रहणं करोति। यदि पुनरर्थनगृह्णीयात् तदा तत् सूत्रं निरास्वादमेव सञ्जायते। अर्थे तु श्रुते सम्यक् तदर्थमवबुध्यमानः सन्नसौ यथावदाचरत्युपदेशम्, परिहरति बिन्दुमात्राभेदादिदोषदुष्टान् कचवरकल्पानभिलापानिति ॥
शालिकरणदृष्टान्तःपुनरयम्-यथा कर्षकः शालीन् महतापरिश्रमेण निष्पाद्य ततो लवनमलन-पवनादिप्रक्रियापुरस्सरं कोष्ठागारे प्रक्षिप्य यदि तैः शालिभिः खाद्य-पेयादीनामुपभोगन करोति तत शालिसङ्गहस्तस्याफलः सम्पद्यते । अथासौ करोति तैः शालिभि यथायोगमुपभोगं ततः शालिसङ्ग्रहः सफलोजायते।एवंद्वादशवार्षिके सूत्राध्ययनपरिश्रमे कृतेऽपि यदि तदीयमर्थं न शृणुयात् तदा स सर्वोऽपि परिश्रमो निष्फल एव भवेत् । अर्थे तु श्रुते समयगवधारितेच सफलः स्यात् ।। अत एवाह-उपभोगफलाः शालयः, सूत्रं पुनः 'अर्थकरणफलं' चरणकरमादिरूपसूत्रार्थाचरणफलम्, तच्च सूत्रोक्तार्थाचरणं श्रुत एवार्थे भवति नान्यथा ।। अतः[भा.१२२०] जइ बारस वासाई, सुत्तं गहियं सुणाहि से अहुणा।
बारस चेव समाओष अत्थं नो नाहिसिन वा णं ॥ वृ-यदि द्वादश वर्षाणि त्वया सूत्रंगृहीतम्, अतः तस्य सूत्रस्यार्थमधुना द्वादशैव समाः' वर्षाणि शृणु।ततोऽर्थं श्रण्वन् स्वज्ञानावारककर्मत्रयोपशमानुसारेण ज्ञास्यसि वा न वा “णे" इति 'त' विवक्षितमतम् ।। किञ्च[भा.१२२१] सन्नाइसुत्त-ससमय, परसमय उस्सग्गमेव अववाए।
हीना-ऽहिय-जिन-थेरे, अज्जा काले य वयणाई।। वृ-इह मौनीन्द्रप्रवचनेऽनेकधा सूत्राणि भवन्ति । तत्र किञ्चि संज्ञासूत्रम्, यथा-"जे छेए से सागारियंनसेवे।" यः 'छेकः पण्डितः सः 'सगारिकं' मैथुनंन सेवेत । अथवा-"सव्वामगंधं परित्रायनिरामगंधो परिव्वए ।" आमम्-अविशोधिकोटिः, गन्धं-विशोधिकोटि । तथा-"आरं दुगुणेणंपारंएगगुणेणं ।"'आरं' संसारस्तं 'द्विगुणेन' राग-द्वेषयुगलेन पारं निर्वाणंतद् ‘एकगुणेन' राग-द्वेषपरिहारलक्षणेन जीवः प्राप्नोतीति गम्यते । आदिग्रहणाद् देशीभाषानियतं सूत्रं गृह्यते, यथा-"दिगिछापरीसहे" । 'दिगिंछा' इति बुभुक्षा॥
स्वसमयसूत्रं यथा-“करेमि भंते ! सामाइयं" इत्यादि ।। परसमयसूत्रं यथा- पंच खंधे वयंतेगे, बाला उ खणजोइणो । उत्सर्गसूत्रं यता-“अभिक्खणं निविगइं गया य" इत्यादि । अपवादसूत्रं यथा
तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई।
जराए अभिभूयस्स, वाहियस्सा तवस्सिणो ।। 'हीनम्' इति हीनाक्षरं यैरक्षरैर्विना सूत्रस्यार्थो न पूर्यते, 'अधिकम्' इत्यधिकाक्षरम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org