________________
उद्देशक : १, मूलं-६, [भा. १२१४]
३२३
आह भगवानेव किमिति नाचष्टे ? किं तत्कथने केऽपि गुणाः सन्ति ? उच्यते, सन्तीति ब्रूमः । के पुनस्ते ? इत्याह
[भा. १२१५] खेयविणोओ सीसगुणदीवणा पच्चओ उमयओ वि । सीसा - SSयरियकमो विय, गणहरकहणे गुणा होति ॥
वृ- भगवतः खेदविनोदो भवति, परिश्रमविश्राम इत्यर्थः । तथा 'अहो ! अस्य भगवतः शिष्या अप्येवंविधव्याख्यानलब्धिमन्तः' इति शिष्यगुणदीपना कृता भवति । प्रत्ययश्चोभयतोऽपि श्रोतॄणामुपजायते, यथा भगवताऽभ्यधायि तथा गणधरोऽप्यभिधत्ते, न शिष्या ऽऽचार्ययोः परस्परं वचनविरोध इति; गणधरे वा तदनन्तरं भगवदुक्तानुवादिनि प्रत्ययो भवति भगवद्विषयः श्रोतॄणां यथा नान्यथावादीति । तथा शिष्या ऽऽचार्यक्रमोऽपि च दर्शितो भवति, आचार्यादुपश्रुत्य योग्यशिष्येण तदुक्तार्थव्याख्यानं कर्त्तव्यम् । एते 'गणधरकथने' गणभृतो धर्मदेशनायां गुणा भवन्तीति ॥ आह स गणधरः क्व निषण्णः कथयति ? इत्युच्यते
[भा. १२१६] राओवणीय सीहासणोवविट्ठो व पायवीढम्मि । जिट्टो अनयरो वा, गणहारि कहेइ बीयाए ।
वृ- राज्ञा उपनीते-ढौकिते सिंहासने वा तदभावे भगवतः पादपीठे वा उपविष्टः 'ज्येष्ठः ' प्रथमो गौतमस्वाम्यादिस्तदभावेऽन्यतरो वा गणं-स्वाध्वादिसमुदायं गुणसमुदयं वा धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति ॥
आह स कथयन् कथं कथयति ? इत्युच्यते
[भा. १२१७] संखाईए वि भवे, साहइ जं वा परो उ पुच्छिज्जा । न यणं अनाइसेसी, वियाणई एस छउमत्थो ।
वृ- भगवान् गणधरः सङ्ख्यातीतानपि भवान् “साहइ"त्ति कथयति । इदमुक्तं भवतिअसङ्खयेयेषु भवेषु यद्बभूव भविष्यति वा तत् सर्वमपि कथयति । 'यद्वा' वस्तुजातं दुरवगममपि परः पृच्छेत् तदशेषमपि कथयतीति, अनेनाऽशेषाभिलाप्यपदार्थप्रतिपादन शक्तिमाह । किं बहुना ? 'न च' नैव "णं" इति तं गणधरम् 'अनतिशयी' अवधि-मनः पर्यायाद्यतिशयरहितो विजानाति यथा ‘एषः' गणधरः छद्यस्थः, किन्तु निशेषप्रश्नोत्तरदानसमर्थतया सर्वज्ञोऽयमिति मन्यत इति भावः ॥ एवं तावत् समवसरणवक्तव्यता प्रसङ्गत उक्ता । अथ प्रकृतयोजनामाह[ भा. १२१४] तित्थयरस्स सभीवे, वक्खेवो तत्थ एवमाईहिं । सुत्तग्गहणं ताहे, करेइ सो बारस समाओ ||
वृ-तीर्थकरस्य समीपे 'तत्र' समवसरणे एवमादिभि प्रकारैरध्ययनस्य व्याक्षेपो भवतीत्युक्ते स शिष्यः प्राह-'भगवन्! सत्यमेवैतद् यद् आदिशत यूयं अत इहैव पठामि' इत्युक्त्वा सूत्रग्रहणं द्वादश 'समाः' वर्षाणि करोति, द्वादशभिर्वर्षै सकलस्यापि सूत्रस्याध्ययनं विदधातीत्यर्थः ॥ गतं शिक्षापदद्वारम् । अथार्थग्रहणद्वारं विवरीषुराह
[भा. १२१९] सुत्तम्मि य गहियम्मी, दिट्टंतो गोण- सालिकरणेणं ।
उवभोगफला साली, सुत्तं पुण अत्थकरणफलं ॥
वृ-सूत्रे गृहीते सति अवश्यं तस्यार्थ श्रोतव्यः । किं कारणम् ? इति चेद् उच्यते - ६ष्टान्तोऽत्र
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International