SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ i बृहत्कल्प - छेदसूत्रम् - १- १/६ राजामात्यस्य वा 'असति' अभावे 'पौरं' नगरनिवासिविशिष्टलोकसमुदायः 'जनपदो वा' ग्रामादिवास्तव्यजनसमुदायो दुर्बलिकया कण्डितानां खण्डीकर्तुमशक्तत्वाद् बलवत्या च्छटितानां निशेषतुषापनयनात् तन्दुलानाम् 'आढकम्' - — दो असई सई, दो पसईओ य सेइआ होइ । ३२२ चउसेइओ उ कुडवो, चउकुडवो पत्थओ नेओ ।। एवंविधैश्चतुर्भि प्रस्थैरेक आढको निष्पद्यते, एवंपरिमाणं "कलम "त्ति आर्षत्वाद् विभक्तिव्यत्यये 'कलमानां' शालिविशेषाणां बलिं करोति ॥ किंविशिष्टानाम् ? इत्याह[भा. १२१२] भाइयपुणानियाणं, अखंड -ऽ फुडियाण फलगसरियाणं । कीरइ बली सुरा विय, तत्थेव छुर्हति गंधाई ॥ वृ-भाजिताश्च ते पुनरानीताश्च बाजितपुनरानतास्तेषाम् । तत्र भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणम्, तेभ्यः प्रत्यानयनं पुनरानयनम् । तथा 'अखण्डा-स्फुटितानाम्' अखण्डाःसम्पूर्णावयवाः अस्फुटिता:-राजीरहिताः, “फलकसरिताणं" फलकवीनितानाम्, एवम्भूतानां तन्दुलानां बलि क्रियते । सुरा अपिच 'तत्रैव' बलौ प्रक्षिपन्ति गन्धादीनिति ।। गतं देवमाल्यद्वारम् । अथ माल्यानयनद्वारम् । तमित्थं तन्दुलाढकपरिमाणं सिद्धं बलिमुपादाय राजादिस्त्रिदशगणपरिवृतो महता पटुपटहादितूर्यनिनादेन सकलमपि दिड्मण्डलमापूरयन्त्रागत्य पूर्वद्वारेण प्रवेशयति । आह च चूर्णिकृत् - तं आढगं तंदुलाणं सिद्धं देवमल्लं राया व रायमचो वा पउरं वा गामो वा जनवओ व गहाय महया तूरियरवेणं देवपरिवुडो पुरच्छिमिल्लेणं दारेणं पविसइ त्ति । तस्मिश्च प्रवेश्यमाने भगवानपि धर्मदेशनामुपसंहरतीति । आह च [भा. १२१३] बलिपविसणसमकालं, पुव्वद्दारेण ठाइ परिकहणा । तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा !! वृ- पूर्वद्वारेण बलिप्रवेशनसमकालं 'तिष्ठति' उपरमते 'परिकथना' धर्मकथा । ततश्च स राजादि प्रविश्य बलिव्यग्रहस्तो भगवन्तं त्रि-प्रदक्षिणीकृत्य बलिं तत्पादान्तिके पुरतः पातयति । तस्य चार्द्धमपतितमेव देवा गृह्णन्ति ॥ [भा. १२१४] अद्धद्धं अहिवइणो, तदद्ध मो होइ पागयजणस्स । सव्वामयप्पसमणी, कुप्पइ नऽन्नो य छम्मासे ॥ - देवगृहीतोद्वरितस्यार्द्धस्यार्द्धमधिपतेर्भवति, राजादेर्बलिस्वामिन इत्यर्थः । तदर्द्ध' चतुर्भागलक्षणं 'मो' पादपूरणे यद् बलेरास्ते तद् भवति 'प्राकृतजनस्य' प्रकृतिषु भवः प्राकृतो जनस्तस्य, इतरलोकस्येत्यर्थः । तस्य चायं प्रभावः यदि तत एकमपि सित्यं शिरसि प्रक्षिप्यते ततः पूर्वोत्पन्नो रोगः सपदि विलीयते, अपूर्वश्च षण्मासान् यावन्न प्रादुर्भवतीति । आह च'सर्वामयप्रशमनः' सर्वरोगोपशमनोऽयं बलि, गाथायां प्राकृतत्वात् स्त्रीत्वम्, कुप्यति न 'अन्यश्च' अपूर्वो रोगः षण्मासान् यावदिति ।। गतं माल्यानयनद्वारम् । अपरे त्वनन्तरोक्तं द्वारद्वयमध्येकद्वारीकृत्य व्याचक्षते तथाप्यविरोधः । इत्यं बलौ प्रक्षिप्ते भगवानुत्थाय प्रथमप्राकारन्तरादुत्तरद्वारेण निर्गत्य पूर्वस्यां दिशि स्फटिकमये देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते । अथ 'उपरि तीर्थम्' इति द्वारम् - भगवत्युत्थिते उपरि-द्वितीयपौरुष्यां तीर्थ-प्रथमगणधरोऽपरो वा धर्ममाचष्टे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy