________________
उद्देशक : १, मूलं-६, [भा. १२०६]
३२१
।
दीयते तद् वृत्तिदानम्, यत् पुनः स्वनगरे भगवदागमननिवेदकाय नियुक्तायानियुक्ताय वा हर्षप्रकर्षाधिरूढमानसर्दीयते तत् प्रीतिदानम्, एतद् द्वयमपि यथा चक्रवर्तयादयः प्रयच्छन्ति तथा प्रतिपादयन्नाह[भा.१२०७] वित्ती उ सुवनस्सा, बारस अद्धं च सयसहस्साई ।
तावइयं चिय कोडी, पीईदानं तु चक्कीणं ।। वृ-वृत्तिदानं सुवर्णस्य द्वादश अर्द्धच शतसहस्राणि' अर्द्धत्रयोदशसुवर्णलक्षाइत्यर्थः । 'तावत्यं एव' अर्द्धत्रयोदशप्रमाणा एव सुवर्णस्य कोटयः प्रीतिदानम् । केषाम् ? इत्याहचक्रवर्त्तिनाम् ।। [भा.१२०८] एतं चेव पमाणं, नवरं रययं तु केसवा दिति ।
मंलियाण सहस्सा, वित्ती पीई सयसहस्सा। वृ- एतदेव प्रमाणं वृत्ति-प्रीतिदानयोः, 'नवरं' केवलं "रजतं' रूप्यं 'केशवाः' वासुदेवा ददति। मण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदशप्रमाणानिरूप्यस्यवृत्तिदानम्, प्रीतिदानंपुनरर्द्धत्रयोदशशतसहस्राणि इति । किमेत एव महापुरुषाः प्रयच्छन्ति? आहोश्चिदन्येऽपि? इत्याह[भा.१२०९] भत्ति-विभवानुरूवं, अने वि य दिति इब्भमाईया ।
सोऊण जिनागमनं, निउत्तमनिओइएसुंवा।। कृ. भक्ति-विभवानुरूपं' यावती यस्य भगवद्विषया भक्ति यावती च यस्य विभूति स तदनुमानेनेत्यर्थः, अन्येऽपि च ददति इभ्यादयः' इभमर्हतीति इभ्यः, यस्य सत्कसुवर्णादिद्रव्यपुञ्जनान्तरितोहस्त्यपिनश्यतेसः, अभ्यधिकद्रव्योवेत्यर्थः,आदिशब्दानगर-ग्रामभोगिकादयः। कदा? इत्याह-श्रुत्वा जिनस्य' तीर्थकृत आगमनं नियुक्तेभ्योऽनियुक्तेभ्यो वा ।। आह तेषामित्थं वृत्ति-प्रीतिदाने प्रयच्छतां के गुणाः? इति उच्यते[भा.१२१०] देवानुवित्ति भत्ती, पूया थिरकरण सत्तअनुकंपा।
साओदय दानगुणा, पभावणा चेव तित्थस्स ॥ वृ-चक्रवत्यादिभिरित्थं प्रयच्छद्भिर्देवानामनुवृत्ति कृता भवति, देवाअपि भगवतः पूजा कुर्वन्तीति कृत्वा भगवति पूज्यमाने तेषामपि महान् परितोषोभवतीत्यर्थः। तथा भक्तिर्भगवतः कृता भवति । तीर्थकरपूजायां च स्थिरीकरणमभिनवश्राद्धानां भवति । सत्वानां भगवत्प्रवृत्तिनिवेदकानामनुकम्पा विहिता भवति । सातोदयं सातवेदनीयं कर्म विशिष्टदिव्य-मानुप्यसुखोपभोगफलं बध्यते । एतेऽनन्तरोक्ता दानगुणाः । प्रभावना चैव तीर्थस्य कृता भवति-अहो ! अमीषां धर्म श्रेयान् यत्र स्वदेव-गुरुभक्तिसम्भारसुभगमीद्दशमौदार्यमिति ॥ गतं दानद्वारम् । अथ देवमाल्यद्वारम् । भगवान् प्थमां सम्पूर्णपौरुषी धर्ममाचष्टे । अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः । आह कस्तं करोति? इत्याह[भा.१२११] राया व रायमचो, तस्सासइ पउर जनवओ वा वि।
दुब्बलिकंडिय बलिछडिय तंदुलानाढगं कलमा ।। वृ- ‘राजा वा' चक्रवर्ति-माण्डलिकादि, 'राजामात्यो वा' राज्ञो मन्त्री । 'तस्य' राज्ञो [18/21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org