________________
३२०
बृहत्कल्प-छेदसूत्रम् -१-१/६ वागअशेषसंशयोन्मूलनेन परिणमते तथा प्रतिपादयन्नाह[भा.१२०४] वासोदगस्स व जहा, वन्नादी होति भायणविसेसा ।
सव्वेसि पि सभासं, जिणभासा परणमे एवं ॥ वृ. 'वर्षोदकस्य' वृष्टिपानीयस्य वाशब्दाद् अन्यस्य यथैकरूपस्य सतः ‘वर्णादयः' वर्णगन्धरस-स्पर्शाः 'भाजनविशेषाद्' भूमिकाद्याधारविशेषाद् विचित्रा भवन्ति ।यथा कृष्ण-सुरभिमृत्तिकायां वर्षोदकं पतितं स्वच्छं सुगन्धं सरसं च भवति, ऊषरभूमिकायां विपरीतम् एवं सर्वेषामपि श्रोतृणां स्वस्वभाषां प्रति जिनभाषा' जैनी वाणी परिणमते । उक्तञ्च परमर्षिभिःसा वियणंभगवओअद्धमागहा भासा भासिज्जमाणी तेसिसव्वेसिं आयरियमणायरियाणंदुपयचउप्पय-मिय-पसु-पक्खि-सिरीसिवाणं अप्पप्पणो भासत्ताए परिणमइ॥
भगवद्वाच एव सौभाग्यगुणप्रतिपादनायाह[भा.१२०५] साहारणा-ऽसवत्ते, तओवओगो उ गाहगगिराए।
नयनिविनइ सोया, किढिवाणियदासिआहरणा। वृ-'साधारणा' सर्वसंज्ञिनां भाषासु सामान्या; यद्वा क्षीर-खण्डादीनि मधुरद्रव्याण्येकत्र मीलितानियथासुस्वादुतया साधारणानि भवन्तिएवमसावप्यतीवसुस्वादुतया साधारणा; नरकादौ पततो वा जन्तून या सम्यग् धारयति साधारं-परित्राणं करोतिती साधारणा । 'असपत्ना' अनन्यसशी, यस्या वा अपरवाग्भिव्यार्घातो न क्रियते । ग्राहिका-अर्थपरिच्छेदकारिणी सा चासौ गीश्चग्राहकगीः । एवंविधायांतस्यामुपयोगः-एकाग्रता तदुपयोगः, तुशब्दस्यावधारणार्थत्वात् तदुपयोग एव श्रोतुर्भवति, नानुपयोगोनचान्यत्रोपयोग इति।उपयोगे सत्यप्यन्यत्र निर्वेददर्शनात् तस्यामपि निर्वेदः स्यादित्याह-न च निर्विद्यते श्रोता मागतीं वाचं शृण्वन् । कुतः खल्वमयर्थोऽवगन्तव्यः ? इत्याह-किढिवामिजदास्युदाहरणात्- एगस्स वाणियगस्स किढी दासी किढी थेरी । सा गोसे कट्ठाणं गया। तण्हा-छुहाकिलंता मज्झण्हे आगता। 'अतिथेवा कठ्ठा आणिय'त्ति पिट्टित्ता भुक्खिय-तिसिया पुणो पट्टविया । सा य वडे कठ्ठभारं गहाय ओगाहंतीए पच्छिमाए पोरिसीए आगच्छइ । को कालो ? जेट्ठामूलमासो । अह ताए य थेरीए कट्ठभाराओ एगं कट्ठ पडियं । ताए ओणमित्तातंगहियं तंसमयंच भगवंतित्थगरोधम्म कहियाइओ जोयणनीहारिणा सरेणं।सा थेरीतं सदं सुऐती तहेवओणया सोउमाढत्ता। उन्हं खुहं पिवासं परिस्समंच न विंदइ। सूरत्थमणे तित्थयरो धम्मं कहेउमुट्टितो। थेरी गता।। [भा.१२०६]सव्वाउअंपि सोया, झविज जइ हु सययं जिनो कहए।
सी-उण्ह-खु-प्पिवासा-परिस्सम-भए अविगणितो॥ वृ-अनेनैव दृष्टान्तेन यदि ‘हुः' निश्चितं सततं 'जिनः' तीर्थङ्करः कथयेत्, ततः श्रोता 'सीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्' शीतं-हिमम् उष्णम्-आतपः क्षुत्पिपासे प्रतीते परिश्रमः-मार्गगमनादिसमुत्थः भयं-प्रतिपक्षादिजनितम् एतान्यविन्दमानो भगवतो धर्मदेशनां श्रण्वन् सर्वायुष्कमपि क्षपयेदिति ।। गतं श्रोतृपरिणामद्वारम् । अथ दानद्वारम् । भगवान् येषु नगरा-ऽऽकरादिषु विहरति तेभ्यो दिवसदैवसिकी वार्ताये खल्वानयन्तियथा 'भगवान् अद्यामुत्र क्षेत्रे विहरति' इति तेषां यद् भगवत्किंवदन्तीनिवेदनवृत्तिकल्पं परिभाषितं संवत्सरनियतं दानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org