________________
उद्देशक : १, मूलं- ६, [ भा. ११९९ ]
" खयउवसमे विय तह" त्ति कर्मणां क्षयोपशमेऽपि सति ये दान-लाभादयः कार्यविशेषास्तेऽपि तथैव भगवतोऽनुत्तराः । 'क्षये' त्रायिके पुनर्भावे वर्त्तमानस्य भगवतः केवलज्ञानादिकं गुणसमुदयम् 'अविकल्पं' वर्णनादिकल्पातीतं सर्वोत्तमम् “आहंसु" त्ति आख्यातवन्तः श्रुतधरा इति ॥ आह केवलिकालेऽप्यसाताद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःस्वदा न भवन्ति ? इति अत्रोच्यते
३१९
[भा. १२०० ] अस्सायमाइयाओ, जा वि य असुहा हवंति पगडीओ । निंबरसलवु व्व पए, न होंति ता असुहया तस्स ॥
वृ- 'असाताद्याः' असातावेदनीयादयो या अपि चाशुभा भवन्ति प्रकृतयस्ता अपि निम्बरसलव इव 'पयसि' दुग्धे न भवन्ति अशुभदा असुखदा वा तस्य भगवत इति ॥ अथ पृच्छाद्वारम् । आह उत्कृष्टरूपतया भगवतः किं प्रायोजनम् ? इति अत्रोच्यते[ भा. १२०१ ] धम्मोदएण रूवं करेंति रूवस्सिणो वि जइ धम्मं । गज्झवओ य सरूवो, पसंसिमो रूवमेवं तु ॥
वृ- धर्मस्य - पुण्यप्रकृतिरूपस्योदयेन रूपं भवतीति परिभाव्य श्रोतारोऽपि धर्मे प्रवर्त्तन्ते । तथा कुर्वन्ति 'रूपस्विनोऽपि रूपवन्तोऽपि यदि धर्मं ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिः प्रवर्त्तते । 'ग्राह्यवाक् च' आदेयवाक्यः सुरूपः पुरुषो भवति, चशब्दस्यानुक्तसमुच्चयार्थत्वात् श्रोतॄणां रूपाद्यभिमानापहारी च । अतः प्रशंसामो वयं भगवतो रूपमेवमिति ॥ गते रूप-पृच्छाद्वारे । अथ व्याकरणद्वारम् । भगवान् देव-नर- तिरश्चां प्रभूतसंशयिनां व्याकरणं कुर्वन् कथं संशयव्यवच्छित्तिं करोति ? इत्युच्यते युगपदेकेनैव निर्वचनेन । आह यद्येकैकस्यैकैकं संशयं परिपाट्या व्यवच्छिन्द्यात् ततः को दोषः स्यात् ? इत्याह
[भा. १२०२] कालेन असंखेण वि, संखाईयाण संसईणं तु । मा संसयवोच्छित्ती, न होज्जकमवागरणदोसा ।।
वृ- कालेन 'असङ्ख्येयेनापि' पल्योपमादिना सङ्ख्यातीतानां संशयिनां संशयव्यवच्छित्तः क्रमव्याकरणदोषाद् न भवेत्, अत एतद् मा भूदिति भगवान् युपगद् व्यागृणातीति ।।
अथ युगपद्याकरणे गुणानाह
[भा. १२०३ ] सव्वत्थ अविसमत्त, रिद्धिविसेसो अकालहरणं च । सव्वनुपचओ वि य, अचिंतगुणभूइओ जुगवं ॥
वृ- 'सर्वत्र' सरवसत्त्वेषु 'अविषमत्वं' युगपन्निर्वचनेन तुल्यत्वं भगवतो भवति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपजिज्ञासतां कालभेदेन कथने राग-द्वेषगोचरचित्तवृत्ति - सम्भावनाप्रसङ्गात् । ऋद्धिविशेषश्चायं भगवतः यद्युगपत् सर्वसंशयिनामशेषसंशयवयवच्छित्तिं करोति । तथा परिपाट्या कथने कस्यापि संशयिनोऽनिवृत्तसंशयस्यैव कालेन -मृत्युना हरणं स्यात्, अतोऽकालहरणं युगपन्निर्वचने भवति । तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्थमेव भवति, क्रमव्याकरणे तु कस्यचिदनपनीतसंशयस्य सर्वज्ञप्रतीतिरपि न स्यात् । तथा अचिन्त्या- अप्रमेया गुणभूति-गुणसम्पदियं भगवतः, यदेकहेलयैव सर्वेषामपि संशयव्यपनयनम् । एतैः कारणैर्भगवान् युगपत् कथयतीति ।। गतं व्याकरणद्वारम् । अथ श्रोतृपरिणामद्वारम् । तत्र यथा सा पारमेश्वरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org