________________
३१८
बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.११९५] जत्थ अपुब्बोसरणं, न दिट्टपुर्वव वजेण समणेणं ।
बारसहि जोयणेहिं, सो एइअनागमे लहुगा । वृ-यत्र नगरादौ 'अपूर्वंसमवसरणं' विवक्षिततीर्थकरापेक्षया अभूतपूर्व येन वा श्रमणेन न हष्टपूर्वंस द्वादशभ्यो योजनेभ्यो नियमतः ‘एति' आगच्छति । यदि त्ववज्ञया नागच्छति तदा चत्वारो लघवः प्रायश्चित्तम् ।। अथ रूपद्वारमाह[भा. १९६] सव्वसुरा जइ रुवं, अंगुट्ठपमाणयं विउविजा।
जिनपायंगुटुं पइ, न सोहएतं जहिंगालो ।। व- कीग् भगवतो रूपम् ? इत्याह-'सर्वसुराः' वैमानिकादयः सम्भूय यदि सारसारतरसारतमान् पुद्गलान् गृहीत्वा अङ्गुष्ठप्रमाणकं रूप विकुर्वेयुः तथापि जिनपादाङ्गुष्ठं प्रति उपमीयमानंतद्नशोभते, यथाऽङ्गार इति।। साम्प्रतंविनेयजनानुग्रहायप्रसङ्गतोगणधरादीनामपि रूपसम्पदभिधित्सयाऽऽह[भा.११९७] गणहर आहार अनुत्तरा य जाव वन-चक्कि-वासु-बला।
मंडलिया जा हीना, छट्ठाणगया भवे सेसा॥ वृ-तीर्थकररूपसम्पदः सकाशाद् अनन्तगुणहीनागणधरा रूपतो भवन्ति।गणधररूपाद् अनन्तगुणहीनाः खल्वाहारकदेहाः।आहारकदेहरूपाद् अनन्तगुणहीना अनुत्तरोपपातिनांदेहाः। ततोऽप्यनन्तगुणहीना उपरितनोपरितनग्रैवेयकदेवदेहाः । एवं यावदीशानकल्पदेवरूपाद् अनन्तगुणहीनाः सौधर्मकल्पदेवदेहाः । तोत भवनपति-ज्योतिष्क-वनचर-चक्रवर्ति-वासुदेवबलदेव-महामण्डलिका अपि रूपतो यथाक्रममन्तगुणहीना द्रष्टव्याः । ततः शेषराजानो जनपदलोकाश्चषस्थानगताः परस्परं भवन्ति। तद्यथा-अनन्तभागहीनावा असङ्ख्येयभागहीना वा २ सङ्ख्येयभागहीना वा ३ संख्येयगुणहीना वा ४ असङ्ख्येयगुणहीना वा ५ अनन्तगुणहीना वा ६॥ अथ भगवत एव रूपसौन्दर्यनिबन्धनं संहननादिकं वर्णयत्राह[भा.११९८] संधयण-रूव-संठाण-वन-गइ-सत्त-सार-ऊसासा।
एमादऽनुत्तराई, हवंति नामोदया तस्स ॥ वृ-'संहनन' वज्रऋषभनाराचम्, 'रूपम्' अनन्तरोक्तरूपम्, ‘संस्थान' समचतुरस्त्रम्, 'वर्ण' देहच्छाया, 'गति' भद्रगजेन्द्रानुकारिणी सुललिता, 'सत्त्वं' धैर्यम्, सारो द्विधा-बाह्य
आभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञान-दर्शन-चारित्ररूपः, "ऊसास"त्ति उच्छव्सानिश्वाससौरभ्यम्, एवमादीनि वस्तूनितस्य भगवतः अनुत्तराणि' अनन्यसामान्यानि भवन्ति,
आदिशब्दाद् गोक्षीरगौरं रुधिरा-ऽऽमिषं चर्मचक्षुषामगोचरावाहार-नीहा इत्यादि । एतानि च 'नामोदयाद्' नामनाम्नः कर्मणः शुभरूपस्योदयात् 'तस्य' भगवतोऽनुत्तराणि भवन्ति ।। किञ्च[भा.११९९]पयडीणं अन्नासऽवि, पसत्य उदया अनुत्तरा होति।
खयउवसमे विय तहा, खयम्मि अविगप्पमाहुँसु ॥ कृ-प्रकृतीनाम् अन्यासामपि' नामव्यतिरिक्तानांगोत्रादीनांप्रशस्ता उदयाउच्चैर्गोत्रत्वादयो भवन्ति । अपिशब्दाद् नाम्नोऽपिये उक्तव्यतिरिक्ताः सौभाग्य-सौन्दर्य-यशःकीर्तिप्रभृतस्तेऽपि रिगृह्यन्ते । एते च किमितरजनस्येव प्रशस्ताः ? उतन? इत्यतआह-'अनुत्तराः' अनन्यसहशाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org